वेदवेदान्तादिवाङ्मयद्योतितायाः शिक्षणपद्दतेः आधुनिककाले औचित्यविचारः

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

वेदवेदान्तादिवाङ्मयद्योतितायाः शिक्षणपद्दतेः आधुनिककाले औचित्यविचारः

वादिराजः के एस्
शोधकर्ता
कर्नाटकसंस्कृतविश्वविद्यालयः

       

प्राचीनकालस्य शिक्षणपद्धतिः विशिष्टा अस्ति । सा पद्धतिः एकस्य छात्रस्य सर्वात्मकाभिवृद्धये पूरका अस्ति । सा पद्धतिः न केवलं पुस्तकस्थं ज्ञानं प्रददाति अपि तु स्वात्माभिवृद्धये सहायं करोति । अस्यां पद्धतौ गुरोः अन्तिके निवसन् छात्रः स्वात्मानां वर्धयति । तत्र विविधप्रकारेण ज्ञानं प्राप्नोति । ज्ञानेन समं स्वसामर्थ्यस्य गुणानां च संवर्धनं शक्यम् । अतः ज्ञानप्राप्तिकल्पना एव विशिष्टा वर्तते । विद्यायाः आरम्भः बाल्यादेव आरभ्यते । अस्यां पद्धतौ मौल्यानां वर्धनाय आदरः अस्ति । छात्राणां समार्थ्यानुसारं विविधविधानैः ज्ञानप्राप्तिः शक्या । अर्वाचीनकाले अस्मिन् प्राचीनकालस्य पद्धतिः युगानुकूलतया आद्रियते यदि तर्हि उत्कृष्टता गुणवत्तता च सम्पाद्यते ।

पीठिका

सा विद्या या विमुक्तये[1] इति वचनं ज्ञानस्य महत्त्वं प्रतिपादयति । मानवजीवनस्यापि अन्तिमम् उद्देश्यमस्ति यत् मोक्षप्राप्तिः । ज्ञानेन अज्ञानरूपमायानिवृत्तिः एव मोक्षप्राप्तिः । विद्या द्विविधा अस्ति । [2]परा अपरा चेति । [3]ऋग्वेदादि अपरा विद्या इत्युच्यते । यया विद्यया तद ब्रह्म अधिगम्यते सा परा विद्या इत्युच्यते । अर्थात् परया विद्यया ब्रह्माधिगन्तव्यं सर्वैः । परन्तु सर्वे अपि अपरां विद्यां प्राप्नुवन्तः तत्रैव स्थास्यन्ति अपरामेव श्रेष्ठामिति मन्वानाः ।

तत्र कारणमस्ति सत्तायाः त्रैविध्यम् । प्रातिभासिकं व्यावहारिकं पारमार्थिकमिति सत्तायाः त्रैविध्यम् । रज्जुं पश्यन् सर्पमिति मनुते व्यक्तिः । तादृशी सत्ता प्रातिभासिकी । एवम् अज्ञानवशाद् समग्रं ब्रह्म इति अपश्यन् जगदिति पश्यति । इयं व्यावहारिकी सत्ता । ब्रह्मणः सत्ता पारमार्थिकी सत्ता । सर्वे अपि जीवाः व्यावहारिकसत्तामेव नैजमिति मन्वानाः पारमार्थिकीं न जानन्ति । तत्प्राप्तिः ज्ञानद्वारा भवति । अत्र तावत् व्यावहारिकसत्तायां अपराविद्यायाः सम्यक् प्राप्तिः कथं भवेदिति विचारः क्रियते ।

ज्ञानप्राप्तिकल्पना

ज्ञानप्राप्तिः एका निरन्तरप्रक्रिया । प्राचीनकाले केचन ज्ञानिनः आसन् ये समग्रजीवनमेव ज्ञानार्जनाय तथा ज्ञानप्रदानाय समर्पितवन्तः[4] । ज्ञानं गुरुशिष्यपरम्परया प्रवहति[5] ।  पुनश्च ज्ञानप्राप्तेः विधानान्यपि विभिन्नानि आसन् । का शिक्षायाः कल्पाना इति चेत्, उपनीतः ब्रह्मचारी ज्ञानं प्राप्तुं गुरोः निकटमागच्छति । तम् आचार्यः स्वस्य अन्तिके स्थापयति । कथम् इति चेत् यथा माता स्वस्य गर्भं धरति तथा । मातुः तथा गर्भस्य यथा ऐकात्म्यं तथा आचार्यशिष्ययोः ऐकत्म्यं भवति । अर्थात् तं ब्रह्मचारिणं स्वीयमिति भावयति । माता यथा स्वस्य गर्भं पालयति तथा आचार्यः शिष्यं पालयति । माता शिशुं गर्भे धृत्वा शिशोः क्रमशः वर्धनं पश्यन्ती तस्य पोषणं यथा करोति तथा आचार्यः शिष्यं पालयति । शिष्यस्य क्रमशः वर्धनं पश्यति । दोषाणामपनयनपूर्वकं संस्कारमादधाति । ज्ञानप्रदानपूर्वकम् अज्ञानं निवारयति । तस्य अन्धकाररूपाज्ञानत्रयात् उद्धरति । किं तदज्ञानत्रयमिति चेत्, प्रथमं कोsहमिति स्वविषयकमज्ञानं, द्वितीयं जडप्रकृतिविषयकमज्ञानं तथा तृतीयं भगवच्छक्तिविषयकमज्ञानम् । स्वस्य गर्भमिव तं शिष्यं धरन् तस्य आसक्ति-अभिरुचि-अनुसारं बौद्धिकरूपेण मानसिककरूपेण च वर्धयति ।

यदा गर्भे शिशोः वर्धनं समाप्य गर्भतः बहिरायाति तदा बान्धवाः इतरे जनाः तं शिशुं द्रष्टुमागच्छन्ति । एवं यदा ब्रह्मचारी स्वाध्ययनं समाप्य गुरुकुलतः बहिरायाति तदा तं प्राप्तज्ञानवन्तं ब्रह्मचारिणं द्रष्टुं विद्वांसः आयान्ति[6] । एवं शिक्षणस्य मूलोद्देश्यं संस्काराधानं तथा पारमार्थिकज्ञानप्राप्तिः इति वक्तुं शक्यते ।

विद्यारम्भकल्पना

ज्ञानार्जनं नाम न केवलं शालां गत्वा प्रवेशं प्राप्य परीक्षां लिखित्वा ज्ञानप्राप्तिः । भारते प्राचीनकालतः एका पद्धतिः आदृता । षोडश संस्कारेषु विद्यारम्भः अपि अन्यतमः । शिशौ यदा ग्रहणसामर्थ्यं वर्धते तदा क्रमशः विद्यां धारयन्ति । अर्थात् वस्तूनां नाम्नाम् उच्चारणम् । किं वस्तु कः शब्दः इति ग्रहीतुं सामर्थ्यवर्धनं कुर्वन्ति । तदनन्तरं बालः पठितुं लिखितुं यदा समर्थः भवति तदा विद्यारम्भसंस्कारं कुर्वन्ति । विद्यारम्भः एकः संस्कारः वर्तते । षोडश संस्कारेषु अन्यतमः अस्ति । एकस्य शिशोः विद्यारम्भाय पद्धतयः आदृताः सन्ति । ऐदं प्राथम्येन आरभ्यमाणं विद्यारम्भं पवित्रभावनया पश्यन्ति जनाः । विद्यारम्भसंस्कारे प्राथम्येन अक्षराणि लेखयति पिता तण्डुलानामुपरि । ततः आरभ्यः शिशुः पठितुं लिखितुं च अभ्यासस्य आरम्भं करोति ।

बालकस्य ग्रहणशक्त्यनुसारं तृतीये वयसि अथवा पञ्चमे वयसि इमं संस्कारम् अनुतिष्ठन्ति । सामान्यतः चूडाकर्मकरणकाले एव विद्यारम्भसंस्कारमपि कुर्वन्ति । उत्तररामचरिते भवभूतिः एवम् उल्लिखति यत् वाल्मीकिमहर्षिः लवकुशयोः चूडाकर्मणः अनन्तरमेव विद्यारम्भं चकार इति । उपनयनकरणात् प्राक् वेदमेकं विहाय अन्याः सर्वाः विद्याः अपि पपाठ[7] । अर्थशास्त्रे अपि दृश्यते यत् राजकुमाराणां विद्यारम्भसंस्कारं चौलकर्मणा सहैव कर्तव्यमिति[8] । धर्मसिन्धौ तथा वसिष्ठेनाप्युक्तं यत् पञ्चमे वयसि अयं संस्कारः करणीयः इति[9] । मुहूर्तदर्पणे गदितं यत् पञ्चमे वर्षे पञ्चमे मासे पञ्चमे दिने अयं संस्कारः अनुष्ठातव्यः इति[10]

तदनन्तरं अष्टमे वयसि उपनयनसंस्कारं कृत्वा गुरोः निकटं बालं प्रेषयन्ति । एषा शास्त्रीया पद्धतिः । बालः यदा गुरुकुलशिक्षणप्राप्तये समर्थः भवति तदा उपनयनसंस्कारं कुर्वन्ति पितरः । उपनयनं नाम समीपनयनमित्यर्थः । अर्थात् बालं ज्ञानार्जनार्थं आचार्यस्य समीपं पितरः नयन्ति । आचार्यः बालमुद्दिश्य वदति यत् संस्काराधानपूर्वकं त्वां शुचीकरोमीति[11] ।  न केवलम् आचार्यः तस्मिन् समये वदति अपि तु बालस्य सर्वासु क्रियासु समीचिनं पन्थानं दर्शयन् सर्वृत्तिमन्तं करोति आचार्यः । सच्चारित्र्यं मानवस्य जीवने शिक्षणस्य अविभाज्यमङ्गं भवति ।

शिष्यः ज्ञानप्राप्तिकालं आचार्यान्तिके एव निवसति । अतः तम् अन्तेवासी इति कथयन्ति । समीपे वसति इति अर्थः । सामान्यतः गुरोः अन्तिके वासः द्वादशवर्षाणि यावत् । श्वेतकेतुः इति एकः आसीत् । तं पिता अवोचत् यत् ब्रह्मचर्यं पालयतु । अन्यथा भवान् ब्राह्मणस्य सम्बन्धी इति केवलमुच्यते[12] । तदानीं सः द्वादश वर्षीयः आसीत् । सः अध्ययनार्थं जगाम । यदा तस्य चतुर्विंशतिः वर्षाणि जातानि तदा सः सर्वान् वेदान् अधीत्य पुनराजगाम । सः स्वमात्मानं बहुपण्डितं मन्यमानः स्तब्धः च आसीत्[13]

सः अन्तेवासी गुरोः निकटे वसति इति कारणात् उभयोः मध्ये सम्बन्धः अपि समीचीनो भवति । आचार्येण सह वासात् अनेकान् अंशान् शिष्यः अध्येति । गुरुशिष्ययोः सम्बन्धः कीदृशः इत्युक्तौ पूर्वजाः तद्वंशीयैः सह यथा तथा । गुरोः विषये श्रद्धा भक्तिः गौरवभावनाः यदि न सन्ति शिष्यस्य विकासः न भवति । यत्र सम्बन्धः न भवति तत्र गुरुः केवलं बोधकः भवति । अर्थात् तस्मात् केवलं विषयसङ्ग्रहः भवति । अतः गुरुशिष्ययोः मध्ये सम्बन्धः समीचीनो भवेत् ।

प्रथमं तावत् आचार्यात् बौद्धिकं ज्ञानं प्राप्नोति । द्वितीयं तावत् आचार्यान् दृष्ट्वा अनेकान् विषयान् स्वस्य जीवने आनयति । आचार्याः यथा वर्तन्ते तथा शिष्यः अपि वर्तितुं प्रयतते । तृतीयं तावत् आचार्ये विद्यमानाः गुणाः शिष्ये सङ्क्रामन्ते । एतत् सर्वमपि अतिरिच्य सहवासात् बहुप्रधानं प्रयोजनं विद्यते यत् आचार्यः शिष्यं सर्वात्मकतया ज्ञातुं शक्नोति । शिष्यस्य के गुणाः सन्ति, के देषाः वर्तन्ते । कानि सामर्थ्यानि सन्ति, काः न्यूनताः वर्तन्ते इति । येन च आचार्यः विद्यमानान् गुणान् सामर्थ्यानि च इतोपि संवर्धयितुं तथा दोषान् न्यूनताः च दूरीकर्तुं शक्नोति । तस्मात् शिष्यः सर्वात्मविकासं कर्तुं शक्नोति । अतः अत्र शिष्याचार्ययोः परस्परं संबन्धः बहु प्रधानः भवति ।

तदर्थम् आचार्यः शिष्यः च परस्परं प्रतिज्ञां कुरुतः[14] । आचार्यस्य प्रतिज्ञा का इत्युक्ते मम मनसि विद्यमानानि चिन्तनानि अनुसृत्य तव चित्तं भवतु । तथैव तव चित्तमनुसृत्य अहमपि वर्ते इति । एवं शिष्यः अपि प्रतिजानीते । आचार्यः यज्जानाति तत् स्वस्य चिन्तनविधानानुसारं शिष्यं न बोधयन्, शिष्यस्य चिन्तनविधानानुसारं बोधयति । तथैव शिष्यः अपि आचार्यमनुसृत्य तस्य चिन्तनानि स्वकीयानि कुर्वन् एकाग्रचित्तः सन् सर्वान् विषयान् अधीते । येन च उभयोः शिष्याचार्ययोः मध्ये विश्वासः, मुक्तता इत्यादि सङ्घटयत् सम्बन्धः घनीभूतः भवति । तस्मात् लिलक्षयिषितं साध्यते ।

मौल्यानि

जिज्ञासुः ज्ञाता ज्ञानम् इति त्रितयं यदा सुभवति तदा तत्र उद्दिष्टं फलं सिध्यति । उभयोः मध्ये सम्बन्धं जनयति ज्ञानम् । आचार्यः पूर्वः भवति । अन्तेवासी उत्तरः भवति । एवम् उभयोः मध्ये सन्धिरूपेण विद्या भवति[15] । यदा आचार्यः शिष्यः विद्या च भवति तत्र प्रवचनं सम्पद्यते । अतः गुरुशिष्ययोः मध्ये परस्परसम्बन्धसेतुः ज्ञानम् । उभयोः चिन्तनं कथं स्यादित्युक्ते ज्ञानम् आवयोः उभयोः अभिवृद्धये वर्तते । तत् ज्ञानम् आवां उभौ रक्षतु । तत् ज्ञानम् आवाम् उभावपि परिपालयतु । आवां मिलित्वा ज्ञानस्य शक्तिं वर्धयावः । आवाभ्याम् अधीतं ज्ञानं तेजस्वि भवतु । न कदापि आवां परस्परं विद्वेषं कुर्वः[16]

कठोपनिषदि नचिकेतसः आख्यायिकायाम् एकः अंशः आदरणीयः अस्ति । यदा पिता क्रुद्धः सन् यमाय त्वा ददामीत्यवोचत् तदा तस्य नचिकेतसः चिन्तनं कथमासीदिति द्रष्टव्यम् । नचिकेताः वदति इदानीम् अहं दत्तः अस्मि । अहमिदानीं यमसदनं गच्छेयम् इति मत्वा प्रयातुमुपतस्थौ । तत्क्षणे पिता तं मा गच्छ इति अवरुणद्धि । तदा सः नचिकेताः वदति बहूनां शिष्याणां मध्ये प्रथमः सन् गच्छामि अथवा मध्यमः सन् वैमि । न कदाचिदपि अधमया वृत्या गच्छामि ।

अर्थात्  न केनापि अन्येन उक्तः कार्यं करणीयम् । स्वयं विचिन्त्य कार्यप्रवृत्तः स्यात् । अन्येन केनापि उक्ते सत्येव कार्ये क्रियमाणे छात्रस्य सा अधमा वृत्तिः भवति । अलोचय येन प्रकारेण पूर्वे पितृपितामहादयः अतिक्रान्ताः । तान् दृष्ट्वा तेषां च वृत्तमास्थातुमर्हसि त्वम् । वर्तमानाश्च साधवः यथा वर्तन्ते तान् च आलोचय । न तेषु मृषाकरणमस्ति । असतां च वृत्तं मृषाकरणम् । मृषाकृत्व न कश्चिदजरामरो भवति । पालय आत्मनः सत्यम् । प्रेषय मां यमाय इति । पुनश्च अत्र पिता प्रयोजनमनपेक्ष्यैव क्रोधवशादुक्तवान् इति स्वयं चिन्तयति[17]

विधानानि

प्रश्नविधानम्

ज्ञानप्राप्तौ प्राश्निकप्रवृत्तिः नितरामपेक्ष्यते । यो विषयो ज्ञातव्यस्तस्य विषये प्रश्नान् पृष्ट्वा, ज्ञानं प्राप्तव्यम् । अत्र प्रश्नकरणे सीमा नास्ति । ज्ञातव्यमितीच्छया यावन्तोsपि प्रश्नाः प्रष्टुं शक्यन्ते । प्रश्नोपनिषद्याख्यायिकेयं श्रूयते । [18]भारद्वाजः, सत्यकामः, गार्ग्यः, आश्वलायनः, भार्गवः, कात्यायनः इति षड् ऋषयः बभूवुः । ते ब्रह्मपराः ब्रह्मनिष्ठाः तज्जिज्ञासायुक्ताः सन्तः, पिप्पलादमाचार्यमुपसर्तुः । कथमुपसृतवन्तः? समित्पाणयस्सन्तः। ऋषयः वानप्रस्थाः इत्यतस्तेषामग्निकार्यं विहितम् । अतस्तस्मिन्नग्निकार्ययुपयुज्यमानास्समिधो गृहीत्वा गुरुमुपसर्पेदित्युच्यते ।

पुनश्च यः एवं समिधो गृहीत्वागच्छति, सः ज्ञानप्राप्तययागच्छतीति ज्ञानिनां प्रतीयते । किञ्च रिक्तपाणिर्न सेवेत राजानं देवतां गुरुमित्यपि वाक्यं श्रूयते ।  [19]तदा आचार्यः पिप्पलादः उवाच यत्, यद्यपि यूयं तपस्विनः एव, तथापि विशेषतः  संवत्सरं कालं  यावत् ब्रह्मचर्येण, श्रद्धया च वासं गुरुशुश्रूषापराः सन्तः कुरुथ । अनन्तरं भवदिच्छानुसारं यस्य विषये जिज्ञासा उदेति, तद्विषयकप्रश्नान् प्रष्टुं शक्नुवन्ति । युष्माभिः पृष्टस्य विषये यदि जानीमः, सर्वं वक्ष्यामः इत्युवाच भगवान् पिप्पलादः । एवमाचार्योक्तरीत्या सर्वेsपि संवत्सरादूर्ध्वमुपसर्प्याचार्यं प्रश्नान् पृष्ट्वा ज्ञानमापुः ।

इदमवधेयं यत्, प्रश्नकरणेन ज्ञानप्राप्तिरित्येकोंsशः। गुरोः उपसर्पणकरणकाले सविनयमुपसर्पणं कर्तव्यमिति द्वितीयोंsशः । सर्वं जानामीत्याकारकवृत्तिः गुरोः न प्रदर्शिता । किन्तु जानामि चेत् वदामीति सविनयं वदति आचार्यः इति तृतीयोंsशः।

नाचिकेतविधानम्

कठोपनिषदि यमनचिकेतसोः संवादः सुप्रसिद्धः। [20]वाजश्रवसः विश्वजिता सर्वमेधेन ईजे । सः तस्मिन् क्रतौ सर्वस्वं धनं ददौ । तस्य नचिकेताः नाम पुत्रः बभूव । [21]वाजश्रवसः अनुपयुक्ताः गाः दानरूपेण दददासीत् । [22]एतत् दृष्ट्वा नचिकेतसः मनसि श्रद्धा जागृता । [23]सः पितरं पप्रच्छ । ऋत्विग्विशेषाय दक्षिणार्थं मां कस्मै दास्यसीति । एवं द्विवारं त्रिवारं पृष्टे क्रुद्धः सन् पिता मृत्यवे त्वां ददामीत्यवोचत् । यमलोके सः नचिकेताः त्रीणि दिनानि यमस्यागमनार्थं प्रतीक्षां चकारेति कारणात् यमः त्रीन् वरान् वृणीष्वेत्युवाच[24]

तथैव नचिकेताः पितुः कोपप्रशमनं प्रथमेन वरेण[25], स्वर्गप्राप्तिसाधनं नाचिकेताग्निविद्यां द्वितीयेन वरेण[26] तथा आत्मविषयकविद्यां तृतीयेन वरेण पप्रच्छ । इदमत्र अवधेयं यत् लघुबालकः नचिकेताः ज्ञानप्राप्त्यर्थं यावद्दूरं वा यत्स्थानं वा भवतु तत्र क्रमति । ज्ञानं प्राप्नोति । तृतीयमात्मविषयकं नोच्यते इत्युच्यमाने, बहुविधलोभैः मनसि विकारयुत्पाद्यमानेsपि नाकर्षितस्सन् ज्ञानमवाप । अत्र संवादरूपं विधानं द्रष्टुं शक्नुमः ।

भृगुविधानम्

वारुणिः भृगुः पितरं वरुणं ब्रह्म ज्ञातुम् उपससार[27] । मां ब्रह्माधीहीति पप्रच्छ[28] । विधिवदुपसन्नं पुत्रमिदमुवाच । अन्नं प्राणः चक्षुः श्रोत्रं मनः वाचमित्येतानि ब्रह्मणः उपलब्धौ द्वाराणि भवन्तीति जगाद[29] । अनन्तरं ब्रह्मणः लक्षणमुक्त्वैतादृशं ब्रह्म विजिज्ञासस्वेत्युवाच[30] । तपस्तत्र साधनमित्यप्यवोचत् ।

सः भृगुः तपस्तप्त्वान्नं ब्रह्मेति ज्ञात्वा पुनः पितुः समीपमाजगाम । भृगुः संशयमापन्नः आसीत् । अतः पिता तं सम्यक् निर्देशितवान् । भृगुः अन्नं प्राणः मनः विज्ञान ब्रह्मेति जानन् अन्ते आनन्दो ब्रह्मेति क्रमशः ज्ञानं लेभे ।

इदमत्रावधेयं यत्, पितैव गुरुः भवति पुत्रः एव शिष्यो भवत्यत्र । पुत्रेणान्तिमं ज्ञानं यत्प्राप्तव्यं तदर्थं क्रमशः मार्गं तथा साधनं च केवलं दर्शितवान् । पुत्रः तत्प्राप्तौ साधनद्वारा कार्यान्वयं चकार । यदा यदा द्वापरो जातः तदा तदा पितरं पुनरागत्य द्वापरं परिहृत्य अन्तिमं प्राप्तव्यमवाप ।

संवादविधानम्

नैकस्मिन् विषये नैके ज्ञातारः उपलभ्यन्ते । तेषां विदुषामध्ययनं गाढं भवति । तैस्सह भवनादेव ज्ञानं प्राप्यते । अतो यो यस्मिन् विषये ज्ञाता निष्णाता च भवति तस्मिन् विषये तैः सह संवादद्वारा ज्ञानप्राप्तिः शक्या[31]

संचारविधानम्

रामायणे घटनैका दृश्यते । विश्वामित्रर्षिः यागसंरक्षणार्थं रामलक्ष्मणौ नयति[32] । तेषां संचारकाले विश्वामित्रः तावुपदिशति । अनेकान् विचारानुद्बोधयति । [33]बलेत्यतिबलयति मन्त्रमुपदिशति । अत्र विश्वामित्रः वदति यत् मयि विद्यमानं ज्ञानं भवते वितरामीति । गुरोरयं भावो गरीयान् वर्तते । तयोः अनेकान् द्वापरान् परिहरति । [34]यदा तु ताटकासंहारसन्निवेशस्सन्निहितस्तदा रामस्य स्त्रीवधसंशयः उत्तिष्ठति । तदा विश्वामित्रः सोदाहरणं विवरणं कुर्वन् तस्य सन्देहं परिहरति[35]

प्रणिपातपरिप्रश्नविधानम्

भगवद्गीतायां अर्जुनं कृष्णः ज्ञानप्राप्त्युपायमुपदिदेश । विधिनाचार्यानभिगम्य प्रकर्षं नीचैः पतनरूपदीर्घनमस्कारः आचार्याणां कृते करणीयः । अनन्तरं कथं बन्धः कथं मोक्षः, का विद्या का अविद्येत्यादिप्रश्नाः प्रष्टव्याः । किञ्च ज्ञानिनः सेवापि विधातव्या । अनेन प्रकारेण क्रियमाणे ज्ञानी प्रसन्नः सन्नभीप्सितं ज्ञानं प्रददाति[36]

कथाविधानम्

बहवः प्रकाराः जिज्ञासूनां वर्तन्ते । ते तत्तत्सामर्थ्यानुसारमीप्सितेन मार्गेण ज्ञानं प्राप्नुवन्ति । तेषु कथाविधानमप्येकम् । विशेषेण बालाः कथामिच्छन्त्येव । सुदर्शननामाः एकः राजासीत् । तस्य चत्वारः पुत्राः आसन् । ते मूर्खाः आसन् । कथमिमान् शिक्षयामीति चिन्ता सुदर्शनं बाधते स्म । अतः विष्णुशर्मेत्येकः पण्डितः तानहं बोधयामीत्यब्रवीत् । सः तान् बालान् कथाद्वारा बोधयामास । इमं प्रयत्नं हितोपदेशे द्रष्टुं शक्नुमः । तत्र कथाद्वारा नीतयः सद्विचाराः च निरूपिताः[37]

परीक्षाक्रमः

प्राचीनकाले गुरुकुलं वा पाठशाला वा स्वतन्त्रतया चाल्यते स्म । आचार्यः एव परमप्रमाणम् । ये च छात्राः अध्ययनं समाप्य निर्गच्छन्ति स्म ते सम्यक् ज्ञानं प्राप्ता आसन् । ज्ञाननिष्णाताः आसन् । तदा एव समावर्तनक्रिया क्रियते स्म । ते स्नातकाः इति कथ्यन्ते स्म । अतः छात्रस्य ज्ञानावलोकनार्थं निर्दिष्टा पद्धतिः अनुसृता आसीत् । समावर्तनप्रक्रियायाः अनन्तरम् आचार्यः एव तं स्नातकं विदुषां सभां नयति स्म । तत्र स्नातकस्य परिचयः क्रियते स्म । विद्वांसः प्रश्नान् पृष्ट्वा स्नातकस्य ज्ञानस्य अवलोकनम् अथवा परीक्षणं कुर्वन्ति स्म । एवं अधीतायाः विद्यायाः परीक्षा आसीत्[38]

बाह्यविद्वत्परीक्षा

आश्रमाः अथवा गुरुकुलानि आचार्याणामधिकारे एव आसीत् । आचार्यः एव स्वयम् अपेक्षितान् निर्णयान् स्वीकरोति स्म । ये छात्राः सम्पूर्णाध्ययनं समापितवन्तः ते स्नातकाः इति उच्यन्ते स्म । ते स्नातकाः ज्ञानं समीचीनतया प्राप्ताः स्युः । तेषां ज्ञानस्य परीक्षां कर्तुम् एका पद्धतिः आदृता आसीत् । समावर्तनानन्तरं आचार्यः छात्रं विद्वद्गणं नयति स्म । तत्र विद्वांसः छात्रस्य परीक्षां विदधति स्म ।  उदाहरणं द्रष्टुं शक्यते । श्वेतकेतुः आरुणेयः पञ्चालदेशस्य परिषदं अगच्छत् । परिषद् नाम विद्वद्गणः । सः श्वेतकेतुः स्वस्य ज्ञानस्य परीक्षां कर्तुं विद्वद्गणं प्रार्थयति । विद्वांसः तस्य प्रार्थनामनुमोद्य परीक्षां विदधति[39]

औचित्यविचारविमर्शः

इदानींतनकाले ज्ञानप्राप्त्युपायः एकः प्रकारः दृश्यते । एकोsध्यापकः एकस्मिन् पिहिते प्रकोष्ठे समूहमेकमुद्दिश्य बोधयति । छात्राः उपविश्य शृण्वन्ति । एक एव प्रकारः न सर्वेषामुपयोगाय कल्पते । तेन केचन एव उपकृता भवन्ति येषां स एकः प्रकारः अनुकूलोsस्ति । एका रीतिः निरन्तरानुसरणेन जडतामापादयति । प्राचीनकाले विविधानि विधानानि ज्ञायन्ते विविधग्रन्थेभ्यः । गुरुकुलपद्धतिः अन्यतमा अस्ति । गुरोः कुले भूत्वा ज्ञानार्जनं बहुफलदायकम् उपयोगि च भवति
। यस्मात् गुरोः अन्तिके सदा वासो विद्यत इति कारणात् गुणाः शिष्येषु सङ्क्रामन्ते ।

नैको मानवः नान्येन सदृशोऽस्ति । प्रत्येकं मानवस्य स्वभावः सामर्थ्यं भिद्यते । अतः कारणात् गुरुः छात्राणां ग्रहणसामर्थ्यं, धारणसामर्थ्यं, स्मरणसामर्थ्यं जानीयात् । तदनुसारं विधानमादृत्य ज्ञानवितरणं भवेत् । बालेभ्यः कथा रोचते । अतः कथाविधानेन विषयः पाठ्यते यदि तर्हि मनोरञ्जनेन सह ज्ञानार्जनं भवति । किञ्च यदि ज्येष्ठाः छात्राः वर्तन्ते, प्रश्नविधानम् अनुसर्यते, तेषां प्राश्निकप्रवृत्तिः वर्धते । तेन सममालोचनाशक्तिरपि वर्धते । एवं विविधविधनानाम् उपयोगेन छात्राणां ज्ञानार्जनं सम्यक् भवति ।

[1] विष्णुपुराणम् (१-१९-४१)

[2] द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ।(मुण्डकोपनिषत् १-१-४)

[3] तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोsह्यथर्ववेदः शिक्षा कल्पो व्ग्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते । (मुण्डकोपनिषत् १-१-५)

[4] The Educational Heritage of Ancient India.P.4

[5] ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।

स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ ((मुण्डकोपनिषत् १-१-१)

अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।

स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोsङ्गिरसे परावराम् ॥ (मुण्डकोपनिषत् १-१-२)

शौनको ह वै महाशालः अङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।

कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥(मुण्डकोपनिषत् १-१-३)

[6] आचार्य उपनयमानः ब्रह्मचारिणं कृणुते गर्भमन्तः । तं रात्रीः तिस्र उदरे बिभर्ति ।

तं जातं द्रष्टुम् अभिसंयन्ति देवाः ॥ ( अथर्ववेदः – ११-५-३ )

[7] निवृत्ते चौलकर्म गोश्च तयोः त्रयीवर्जं इतराः तिस्रः विद्याः सावधानेन मनसा परिनिष्ठापिताः । (उत्तररामचरितम् – २ अङ्कः)

[8] वृत्तचौलकर्मा सङ्ख्यानं चोपयुञ्जीत (अर्थशास्त्रम्)

[9] प्राप्ते तु पञ्चमे वर्षे त्वप्रस्तुते जनार्दने ।

विद्यारम्भस्तु कर्तव्यः यथोक्ततिथिवासरे ॥ (धर्मसिन्धुः)

[10] उदगर्के पञ्चमेsब्दे पञ्चमे मासि पञ्चमे ।

दिवसेsपि च बालानां अक्षरग्रहणं स्मृतम् ॥ (मुहूर्तदर्पणम् )

[11] चरित्रांस्ते शुन्धामि ॥ (यजुर्वेदः – ६/१४)

[12] श्वेतकेतुर्हारुणेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोsननूच्य ब्रह्मबन्धुरिव भवतीति ॥ (छान्दोग्योपनिषत् – ६/१/१)

[13] सः द्वादशवर्षः उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदान् अधीत्य महामना अनूचानमानी स्तब्ध एयाय ॥ (छान्दोग्योपनिषत् -६/१/२)

[14] मम चित्तमनुचित्तं ते अस्तु । (पारस्करगृह्यसूत्रम् – २/२/१६)

[15] आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनग्ं सन्धानम् ।(तैत्तिरीयोपनिषद् १-२-१)

[16] सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै । (तैत्तिरीयोपनिषत् २– १)

[17] बहूनामेमि प्रथमो बहूनामेमि मध्यमः।

किंस्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ।। (कठोपनिषद् १-१-५)

अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे ।

सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ (कठोपनिषद् १-१-६)

[18] सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ (प्रश्नोपनिषत् १ – १ – १)

[19] तान्ह ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्ष्यामः इति ॥(प्रश्नोपनिषत् १ – १ – २)

[20] उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत आस । (कठोपनिषत् १-१-१)

[21] पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकाः तान्स गच्छति ता ददत् । (कठोपनिषत् १-१-३)

[22] तगं ह कुमारग्ं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोमन्यत । (कठोपनिषत् १-१-२)

[23] स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयं तग्ं होवाच मृत्यवे त्वा ददामीति । (कठोपनिषत् १-१-४)

[24] तिस्रो रात्रीर्यदवात्सीर्गृहे मे अनश्नन् ब्रह्मन् आतिथिर्नमस्यः ।

नमस्ते अस्तु ब्रह्मन् स्वस्ति मे अस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व ॥ (कठोपनिषत् १-१-९)

[25] शान्तसङ्कल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो ।

त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥(कठोपनिषत् १-१-१०)

[26] स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वग्गश्रद्धधानाय मह्यम् ।

स्वर्गलोका अमृतत्वं भजन्त एतद्वितीयेन वृणे वरेण ॥(कठोपनिषत् १-१-१३)

[27] भृगुर्वै वारुणिः । वरुणं पितरमुपससार ।(तैत्तिरीयोपनिषत् – ३-१)

[28] अधीहि भगवो ब्रह्मेति ।(तैत्तिरीयोपनिषत् – ३-१)

[29] अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति ।(तैत्तिरीयोपनिषत् – ३-१)

[30] तद्विजिज्ञासस्व ।(तैत्तिरीयोपनिषत् – ३-१)

[31] ज्ञानग्रहणाभ्यासः तद्विद्यैः सह संवादः (न्यायसूत्रम् – ४-२-४७)

[32] तत्र सत्रं परित्रातुं विश्वामित्रो महामुनिः ।

सौमित्रिसहितं रामं नयन्नयमवोचत ॥(चम्पूरामायणम् – बालकाण्डः – १ -३६)

[33] बलेन तपसां लब्धे बलेत्यतिबलेति च ।

विद्येते मयि काकुत्स्थ विद्ये ते वितरामि ते ॥(चम्पूरामायणम् – बालकाण्डः – १ -३६)

[34] रामस्तमाकर्ण्य स्त्रीवधशंकामकरोत् । (चम्पूरामायणम्- बालकाण्डः – १ -३७)

[35] किं च वैरोचनीं मन्थरां वसुन्धरापराधधुरन्धरां पुरन्दरेण निहतां जनार्दनकृतमर्दनां च भार्गवजननीं प्रदर्श्य दाशरथेरमन्दां सन्दवधूवधविचिकित्सामुत्सारयामास । (चम्पूरामायणम् – बालकाण्डः – १-३८)

[36] तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनः तत्त्वदर्शिनः ॥ (भगवद्गीता ४-३४)

[37] मित्रलाभः सुहृद्भेदः विग्रहः सन्धिरेव च ।

पञ्चतन्त्रात्तथान्यस्माद्ग्रन्थादाकृष्य लिख्यते ॥(हितोपदेशः 0-१)

असाधना वित्तहीना बुद्धिमन्तः सुहृत्तमाः ।

साधयन्त्याशु कार्याणि काककूर्ममृगाखुवत् ॥(हितोपदेशः १-२)

[38] चातुर्वैद्यं विकल्पी च अंगविद्वसंपाठकः ।

आश्रमस्यास्त्रयो विप्राःपर्षदषा दशावरा ॥ बृहदारण्यकोपनिषद् ३-३-१

[39] श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम । स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् ।

तमुदीक्ष्याभ्युवाद कुमारा३ इति । स भोः ३ इति प्रतिशुश्राव अनुशिष्टोsन्वसि पित्रेत्योमिति होवाच ॥ (बृहदारण्यकोपनिषद् -६/२/१)

वेत्थ यथेमाः प्रजाः प्रत्ययो विप्रतिपद्यतामिति ? नेति होवाच । वेत्थो यथेमं लोकं पुनरापद्यतामिति ।

नेति हैवोवाच । वेत्थो यथाsसौ लोक एवं बहुभिः प्नयद्भिः न सम्पूर्यता इति? नेति हैवोवाच । वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्तीति? नेति हैवोवाच । वेत्थो देवयानस्य वा व पथः प्रतिदिनं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा । आप हि न ऋषेर्वचः श्रुतम् । द्वे सृती अश्रुणवं पितृणामहं देवानामुत मर्त्यानां, ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति । नाहमत एकं चन वेदेति होवाच ॥(बृहदारण्यकोपनिषद् -६/२/२)

[/vc_column_text][/vc_column][/vc_row]