विष्णुसंहिताहारिणीव्याख्यायाः तालपत्रविवरणम्

(एतत् प्रबन्धे विष्णुसंहितानाम पाञ्चरात्रग्रन्थस्य हारिणीनामव्याख्यानस्य तालपत्राणां विवरणं दत्तम्। विष्णुसंहितायां परामर्शितविषयाः, हारिण्याः ताळपत्राणां विवरणं, व्याख्याकारस्य संक्षिप्तविवरणं, शोधप्रबन्धप्रयोजनं च एतत् प्रबन्धे परामर्शितमस्ति।)

हारिणीव्याख्यायाः प्रथमाध्यायादारभ्य दशमपर्यन्तानामध्यायानां  संपादनमेव मम शोधप्रबन्धस्य विषयः।

पाञ्चरात्रशास्त्रग्रन्थेषु अन्यतमा भवति विष्णुसंहिता। ज्ञानयोगक्रियाचर्यादिषु साम्प्रदायिकागमविभागेषु त्रिंशत् पटलेषु विभक्तः एषः ग्रन्थः द्वादशत्रयोदशयोः  दशाब्दयोः मध्ये कृतमासीदिति पण्डितमतम्। सुमतिर्नाम मुनेः औपमन्यवनाम सत्यजिज्ञासोः च मध्ये कृतसंभाषणरूपेणायं ग्रन्थः वर्तते। पाञ्चरात्रसंहितानां मध्ये तारतम्यतया एषा संहिता उपसंहिता इत्याख्याया प्रथितं भवति। अर्थात् जयाख्यासात्वतपौष्करसंहितानामपेक्षया एषः ग्रन्थः प्राधान्यलेशतया वर्तते। तथापि कारळदेशे वैष्णवपद्धतिषु प्रामाणिकं ग्रन्थं एतदेव। केरलदेशनिवासी कश्चिद् ब्राह्मणः  अस्मद्ग्रन्थकर्ता इति कश्चन पण्डिताः मन्यन्ते[1] । तन्त्रसमुच्चयनाम्नः प्रसिद्धस्य ग्रन्थस्य विमर्शिनीनाम्नः व्याख्याने अस्य परामर्शः द्रष्टुं शक्यते[2]।  ओट्टो ष्राडर् महोदयेन स्वग्रन्थे अस्याः संहितायाः विवरणं दत्तः[3]।  सांख्यमतस्य स्वाधीनम् अस्मिन् ग्रन्थे द्रष्युं शक्यते इति श्रीसुरेन्द्रनाथगुप्तामहोदयेन स्वग्रन्थे परामर्शितम्[4]। प्रसिद्धपाश्चात्यपण्डितेन श्री वाल्टर् स्मित् महोदयेनापि विष्णुसंहितायाः संक्षिप्तविवरणं स्वग्रन्थे दत्तम्[5]। संक्षेपेण अस्य ग्रन्थस्य अवतारिका श्री एन्.पी.उण्णि महोदयेन कृतमस्ति। विष्णुसंहितायाः मूलग्रन्थस्य संपादनं षट् तालपत्रैः पण्डितवर्येण श्री टि.गणपतिशास्त्रिणा कृतम्। मूलग्रन्थस्य पुनरपि अनेकाः तालपत्राः पुस्तकशालासु द्रष्टुं शक्यते। त्रिंशदध्यायैः विभक्तः एषः ग्रन्थः।

त्रिंशत् पटलेषु परामर्शिताः विषयाः

1.तन्त्रोद्देशः

2.तन्त्रव्याख्या

3.विष्णुवैभवम्

4.क्षेत्रक्षेत्रज्ञनिर्णयः

5.मन्त्रोद्धारः

6.अर्चनाविधिः

7.मुद्रालक्षणम्

8.अग्निसंस्कारः

9.मण्डललक्षणम्

10.दीक्षाविधिः

11.दीक्षिताभिषेकः

12.भूमिलक्षणम्

13.प्रासादविधिः

14.बिम्बलक्षणम्

15.प्रतिष्ठापञ्चकम्

16.बिम्बशुद्धिः

17.अधिवासः

18.प्रतिष्ठाविधिः

19.प्रतिष्ठानन्तरक्रिया

20.उत्सवविधिः

21.यात्रा

22.बलिदानविधिः

23.विश्वार्चनम्

24.जीर्णोद्धारः

25.प्रायश्चित्तविधिः

26.स्नपनविधिः

27.प्रोक्षणविधिः

28.कर्मशेषः

29.समयाचारलक्षणम्

30.भागवतो योगः

ग्रन्थस्यास्य व्याख्यानौ

विष्णुसंहितायाः द्वौ अप्रसिद्धीकृतव्याख्यानौ स्तः। नारायणकृतः हारिणी। नागस्वामीकृत तत्वप्रदीपिका च। द्वावपि अप्रसिद्धीकृताः। तौ तालपत्ररूपैः ग्रन्थशालासु लब्धुं शक्यते। अत्र हारिणीव्याख्यायाः चतस्रः अप्रकाशिततालपत्राणां विवरणं दत्तम्।

तालपत्राणां विवरणम्

चतुर्षु तालपत्रेषु द्वे paper manuscript द्वे palm leaf रूपेण सन्ति। एते  H,H1,H2,H3 इति नाम्ना विभक्ताः। एतेषु H,H2 च paper manuscripts अन्ये H1,H3 च palmleaf manuscript रूपेण प्रचलति। सर्वाणि पत्राणि सुष्ठ्ववस्थायां लभ्यते। अक्षराण्यपि व्यक्ततया पठितुं शक्यम्।

तालपत्रम् H

Trippunithura Government Sanskrit college  Manuscript शालायाः लब्धे एतत् paper Manuscript मध्ये प्रथमपटलादारभ्य पञ्चदशपटलपर्यन्ताः व्याख्यानाः सन्ति।  मलयाळभाषायां लिखितस्य एतस्य  तालपत्रस्य आरंभं हरिः श्री गणपतये नमः अविघ्नमस्तु श्रीगुरुभ्यो नमः। प्राग्भ्यो निर्ममेभ्यो प्रकुर्महे… एतत्पदेन भवति। अन्त्ये मूलविष्णुगायत्री सवितृगायत्रीरूपा स्वमन्त्राः एतत्पदं द्रष्टुं शक्यते। पत्रस्यास्यान्त्ये कश्चित् तङ्कम्.ए. नम्पिष्टातिरि अम्मा नाम्ना वनितायाः copy कृतम्, कश्चित् curator पि.ए अम्मिणिना परिशोधितं चैतत् इति लिखितमस्ति[6]। मलयालभाषायां कृते अस्मिन् पत्रे 262 folios मध्ये दशमपटलाः सन्ति। अत्र एकैक पत्रेषु 23,24,25 रेखाः (lines) सन्ति।

तालपत्रम् H1

तिरुवनन्तपुरं Oriental Manuscript पुस्तकशालायाः लब्धमेतत् पत्रम्। समस्तहारिणीव्याख्या 209 पत्रेषु अस्मिन् लब्धुं शक्यते। अस्मिन् पत्रे आरंभे हरिः श्री गणपतये नमः अविघ्नमस्तु श्रीगुरुभ्यो नमः। प्राग्भ्यो निर्ममेभ्यो प्रकुर्महे.. एतत् पदमेवास्ति। अन्त्ये

यस्य व्याघ्रपुरौकसः कृतवृषाद्रीशप्रसूनाञ्जलि-

प्रीतेः पूर्णगुण पितोदय इति ख्यातः स नारायणः

यां हारिण्यभिधां व्यधादिह विभोर्विष्णोर्महासंहिता

व्याख्यायामतियात एष पटलस्त्रिंशः श्रितोर्थश्रिया इत्यपि द्रष्टुं शक्यते। प्राचीनमलयालभाषायां लिखितमेतत् पत्रम्। एकैकस्मिन् पत्रेषु 12,13 रेखाः सन्ति।

तालपत्रम् H2

Oriental Manuscript Library Madras  शालायाः लब्धे एतत्पत्रे ग्रन्थलिप्यां 178 पत्रेषु प्रथमपटलादारभ्य दशमपटलस्य 29तम श्ळोकपर्यन्तान् व्याख्यानान्  द्रष्टुं शक्यते। एकैकस्मिन् पत्रेषु 20 रेखाः सन्ति। अस्य पत्रस्य आरंभं “स्थूलाद् स्थूलतरः सूक्ष्मादपि सूक्ष्मतमः प्रभुः” एततद्वाक्येन वर्तते। अन्त्ये “उपस्तीर्य चकाराद्विधो य उदगुद्वास्याव…” एतद् पदमपि द्रष्टुं शक्यते।

तालपत्रम् H3

तिरुवनन्तपुरं Oriental Manuscript पुस्तकशालायाः एव लब्धमेतत् पत्रम्। अस्मिन् पत्रे  दशमपटलमारभ्य द्रष्टुं शक्यते। प्राचीनमलयाळलिप्यां लिखितमेतत्। ग्रन्थारंभे हरिः श्री गणपतये नमः अविघ्नमस्तु श्रीगुरुभ्यो नमः । अथैवं मण्डलस्य लक्षणं चाभिधाय तत्पूजापुरस्सरायाः दीक्षायाः प्रतिपादनकथाया…एवं लभ्यते। अन्त्ये अस्योद्धारे कृते शान्तिरित्येवं भाषितं त्वया, तत्वयाधिष्ठितं देव उद्धरामि तवाज्ञया, तदुपक्रान्तमस्माभिः त्वदनुज्ञातुमर्हसि एतत् प्रार्थना अस्ति। एकैकस्मिन् पत्रे 10 रेखाः सन्ति।

ग्रन्थकर्ता

सर्वेषां पटलानां अन्त्ये “ नारायणकृतायां हारिणीव्याख्यायां” इति द्रष्टुं शक्यते। व्याख्यानावसाने

यस्य व्याघ्रपुरौकसः कृतवृषाद्रीशप्रसूनाञ्जलि-

प्रीतेः पूर्णगुण पितोदय इति ख्यातः स नारायणः

यां हारिण्यभिधां व्यधादिह विभोर्विष्णोर्महासंहिता

व्याख्यायामतियात एष पटलस्त्रिंशः श्रितोर्थश्रिया

एतत् श्ळोकाद् ग्रन्थकारस्य विवरणं लब्धुं शक्यते। सः “व्याघ्रपुरौकसः”। व्याघ्र इत्यस्य मलयाळभाषायां पुलि इति अर्थः। अतः सः पुलियन्नूर् नामप्रसिद्धे कुले आसीदिति निगमयितुं शक्यते। सः वृषाद्रीशप्रसूनाञ्जलिः अपि। वृषाद्रीशः वटक्कुं नाथन् इति प्रसिद्धः केरळे तृश्शूर् महानगरस्य मध्यवर्ती एकः महान् शिवक्षेत्रः। तत् क्षेत्रमूर्तीभक्तः। तेषां पिता उदयनाम्नः कश्चिद् ब्राह्मणः। केरळदेशे दक्षिणोत्तरभेदेन द्वौ पुलियन्नूर् नामकौ आचार्यवंशौ स्तः। तयोः अत्तरपुलियन्नूर् वंशे भूजातः कश्चिद् महान् पण्डितः एव अस्य ग्रन्थस्य कर्ता। वटक्कुं नाथन् इति क्षेत्रस्. प्रधानाचार्याः तेषां वंशमेव। तेषां मूर्तीनां परामर्शः कर्त्रा “वृषाद्रीश” पदेन क्रियते। तन्त्रसमुच्चयस्य विमर्शिनीव्याख्याकरस्य शङ्करन् नम्पूतिरिमहोदयस्य शिष्यः एषः आचार्यः[7]

शोधस्य प्रयोजनानि

1.पाञ्चरात्रशास्त्रे कृतश्रमाणां विज्ञानेच्छूनां कृते एतद्ग्रन्थस्य बहवः प्रयोजनाः सन्ति।

  1. नवशताब्दपूर्वं कृतस्य विष्णुसंहितायाः,पञ्चशताब्दपूर्वं कृतस्य हारिणीव्याख्यायाः च आधुनिककाले कः प्रयोजनः इति चिन्तां कर्तुं एतद्ग्रन्थस्य प्रसाधनं आवश्यकम्।

3.वैष्णवसाधकानां आध्यात्मिकमार्गचारिणां च अत्यन्तोपयोगी एषः ग्रन्थः।

प्रबन्धोद्देशः

एते सर्वे पत्राः सुव्यक्ताः भवन्ति। हारिणीव्याख्या इतः पर्यन्तं न केनापि संपादिता। अतः एषां ग्रन्थानां संपादनं, समीक्षात्मकबुद्ध्या पठनं च पण्डितानां साधकानां च कृते अत्यन्तोपकारी भवन्ति।

 

 

END NOTES

[1] Ullur S Parameswara Iyer, Kerala Sahitya caritram,volume 3 p-566-576

[2] Tantrasamuchaya पटलः-1 2-4

[3] Introduction To Pancaratra and the Ahirbudhnya samhita by Otto Schrader p-10

[4] A History Of Indian Philosophy by Surendranath Das Gupta volume 3 p-23,31

[5] A descriptive Bibliography of the Printed Texts of the Pancaratragama p-506-525

[6]  Harinee H manuscript Folio-729

[6]  Smritikalika ( Compilation of the Articles of Sri E.V. Raman Namboothiri by Dr.K.A.Raveeendran P-281

 

 

 

पुस्तकसूची

Primary Sources

  1. Vishnusamhita Edited By M.M. T. Ganapati sastri, Sri Garib Das Oriental Series No:98, Sri Sadguru Publications, Indological and oriental publishers a division of Indian Books Centre, 40/5 Shakti Nagar,Delhi-110007, India 1979.
  2. Tantrasamuccaya With Vivarana And Vimarsini, WWW. Shripuram.org.

Secondary Sources

1.Introduction to Pancaratra and The Ahirbudhnya samhita by   F.Otto Schrader, Adyar Library, Adyar, Madras 1916.

2.A Descriptive Bibliography of the Printed Texts of the Pancaratragama,by H.Daniel Smith.Oriental Institute Baroda 1975.

  1. A History of Indian Philosophy,by Surendranath Das Gupta,

Cambridge  University Press 1922.

4.Vishnusamhita Edited By M.M. T. Ganapati sastri, With an introduction and sloka Index by Prof.N.P.Unni published by Nag Publishers 11A/U.A. Jawahar Nagar,Delhi-7 India 1992.

5.Kerala sahitya charitram, By Ulloor S. Parameswara Iyer.PDF version by Sayahna Foundation JWRA 34, Jagathy Trivandrum India.

6.Smritikalika, Pandithar E.V.Raman Namboothiriyude prabandha samaharam.Compiled by Sreekanth Thamarasseri, Edited by Dr.K.A. Raveendran. Kanippayyoor Panchangam Book Stall Kundamkulam, Thrissur 2010.