विश्वविषये वेदान्तानां दृष्टिः

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

विश्वविषये वेदान्तानां दृष्टिः

 

Dr. RAMACHANDRA  PUROHIT,  Vidwan, M.A. Ph.D
Asst.Professor, Dept. of Studies & Research in SANSKRIT
Shri Dharmasthala Manjunatheshwara College,
UJIRE,D.K.574240, KARNATAKA

Abstract

समस्ते जगति वर्तमानाःशिक्षाविदः दर्शनानि सर्वदा श्रद्धान्विताः पश्यन्ति। तत्रापि भारते विशिष्य समादरं धारयन्ति भारतीयाः।प्राचीनकालादपि अत्र दार्शनिकचिन्तने निमग्नाः सन्तः शास्त्रमन्थनेन  केचन लोककल्याणकारिणः विषयाः प्रस्तुताः। साम्प्रतं दार्शनिकजगति बहूनि दर्शनानि सन्त्यपि तेषु भेदभित्तिरस्त्येव । साक्षात् प्रामाण्यं वेदमूलत्वादिभिरेव दर्शनानां सामरस्यं सामञ्जस्यञ्च साधयितुं परं तत्र तत्रविषये विप्रतिपत्तिसम्भवात् दर्शनानि आस्तिकनास्तिकभेदेनभिन्नानि समदृश्यन्त।

मनुष्यः स्वभावतो मननशीलः,मत्वा कर्माणि सीव्यति इत्युक्तदिशा कोऽहं कस्मादहमित्यादि समस्याः भावयित्वा ’आत्मा वारे दृष्टव्यः’ इत्यादिदर्शन बीजमुद्भावितवान् । आत्मदशनायैव सर्वाणि दर्शनानि प्रवृत्तानि ।आत्मदर्शनं दुःखनिवृत्तये अपेक्षितम्,दुःखनिवृत्तिरेव सर्वैरभीप्सिता । भारतवर्षे तु विचारानुसारणैव प्रायशःआचारोऽपि नियम्यते । भारतीयास्तु प्रकृतिदत्तानां जीवनसाधनानां सौलभ्येन ऐहिकीं चिन्तां विमुच्य पारलौकिकीमेव चिन्तामावहन्ति । ’अध्यात्मविद्या विद्यानाम्’ इत्युक्तदिशा अध्यात्मज्ञानमेव प्रधानतया योजितमत्र पूर्वजैः। भारते दर्शनस्योदयः वेदकाले एवाजायत । दर्शनानि अनादिकालादेव प्रवृत्तानि । कपिलादयो हि पूर्वैः प्रणीतान्येव शास्त्राणि कालबलादुत्सन्नानि स्वभावादिना अवगम्य प्रबन्धान्तररचनया प्रवर्तयन्ति । वेदसंहितायामेव अङ्कुरितोयम् दर्शनद्रुमःउपनिषत्काले पल्लवितःतदनन्तर्ं सूत्रकाले बहुशाखया विभक्तः। चार्वाकदर्शनम्-जैनदर्शनम्- बौद्धदर्शनम्-वैशेषिकदर्शनम्- न्यायदर्शनम् साङ्ख्यदर्शनम्-योगदर्शनम्-मीमांसादर्शनम् वेदान्तदर्शनम् इत्यादीनि। एवमास्तिकनास्तिकदर्शनेषु विश्वसत्यतामनङ्गीकुर्वतां विश्वमिथ्यात्वमङ्गीकुर्वतां दर्शनानां, विश्वसत्यताम् अङ्गीकुर्वतां दर्शनानां दृष्टिरत्र समालोचनीया विद्यते।एतेषु दर्शनेषु प्रपञ्चविषये विभिन्नप्रकारकाः वादाःतेषां ग्रन्थेषु प्रस्तुताः।तत्र प्रमुखाः वादाःपञ्च सन्ति।

पञ्च वादाः- १.कणादमुनेः आरम्भवादः२.कपिलादिसाङ्ख्यानां परिणामवादः३.भगवतो बुद्धस्य सङ्घातवादः४.श्रीशङ्कराचार्यस्य विवर्तवादः ५.ब्रह्मसृष्टिवादः ।

बादरायणैःब्रह्मसूत्राणि विरचय्य यथेच्छमुपनिषद्वाक्यानि समुद्धृत्य ब्रह्मसृष्टिवादः सम्यक् प्रतिपादितः।मध्वाचार्यैरपि स्वग्रन्थेषु सम्यग् निरूपितः।विश्वं सत्यम्,ब्रह्मणा सृष्टमिति तन्मतम्।आस्तिकनास्तिकदर्शनानि प्रपञ्चविषये एव् विविधान् विभिन्नान् वादान् प्रस्तूय प्रपञ्चसत्यतां मिथ्यात्वं च प्रतिपादयन्ति।परन्तु सूत्रकृता एतेषां सर्वेषां दर्शनानामसामञ्जस्यं ब्रह्मसूत्रे  द्वितीयाध्याये समयपादे सविमर्शंसमालॊचितमस्ति। विश्वं तावत् सत्यम्,तस्य सृष्टिः ब्रह्मणैवेति जन्मादिसूत्रे निर्णीतं बादरायणैः।ब्रह्मणः जिज्ञासाविधायक श्रुतौ जिज्ञास्ये ब्रह्मणि इदं लक्षणमभिहितम्-यतो वा इमानि भूतानि जायन्ते।येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति।तद्विजिज्ञासस्व।तद् ब्रह्म।(तै.उ-३-१)यतः अस्य जगतः सृष्ट्-स्थिति-संहारनियमन-ज्ञान-अज्ञान-बन्ध-मोक्षाःतत् ब्रह्म इत्युक्तम्।तच्च ब्रह्म विष्णुरेव।  

तत्र प्रमाणानि- य उ त्रिधातु पृथिवीमुत  द्याम् एको दधार भुवनानि विश्वा॥१-१५४-४

यो नपिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा॥ऋग्वेद १०-८२-३

उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः।बन्धमोक्षौ च पुरुषात् यस्मात् स हरिरेकराट्॥-स्कान्दपुराणम्।

सृष्टा पाता तथैवात्ता निखिलस्यैक एव तु। वासुदेवः परं पुंसामितरेऽल्पस्य वा न वा॥ स्कान्दपुराणम्।

नेहासीत् किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा। सोऽत्मनोमनसोऽस्राक्षीदप एव जनार्दनः॥

शयानस्तासु भगवान् निर्ममेऽण्डं महत्तरम्। तत्र संवत्सरं नाम ब्रह्माणमसृजत् प्रभुः॥

तमत्तुं व्याददादास्यं तदासौ विरुराव ह। अतस्तं कृपया विष्णुःसृष्टिकर्ता व्ययोजयत्।

एवं द्वैतवेदान्ते बहूनि प्रमाणानि उदाहृत्य विष्णोरेव जगत्कर्तृत्वं प्रतिपादितम्  |    

विश्वविषये वेदान्तानां दृष्टिः

डा.रामचन्द्रः पुरोहितः

सहायकप्राध्यापकः

श्रीधर्मस्थलमञ्जुनाथेश्वरमहाविद्यालयः

उजिरे,दक्षिणकन्नड,कर्नाटकराज्यम्

विश्वविषये विविधदार्शनिकानां दृष्टिः – 

 समस्ते जगति वर्तमानाःशिक्षाविदः दर्शनानि सर्वदा श्रद्धान्विताः पश्यन्ति। तत्रापि भारते विशिष्य समादरं धारयन्ति भारतीयाः। प्राचीनकालादपि अत्र दार्शनिकचिन्तने निमग्नाः सन्तःशास्त्रमन्थनेन  केचन लोककल्याणकारिणः विषयाः प्रस्तुताः।साम्प्रतं दार्शनिकजगति बहूनि दर्शनानि सन्त्यपि तेषु भेदभित्तिरस्त्येव ।महाभारते 

साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च। 

ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा 

इति साङ्ख्यादीनां परस्परविरुद्धत्वमुक्त्वा, ’इदं महोपनिषदं चतुर्वेदसमन्वितम्’ |इत्यादिमहाभारतवचनैः साक्षात् प्रामाण्यं वेदमूलत्वादिभिरेव दर्शनानां सामरस्यं सामञ्जस्यञ्च साधयितुं परं तत्र तत्रविषये विप्रतिपत्तिसम्भवात् दर्शनानि आस्तिकनास्तिकभेदेन भिन्नानि समदृश्यन्त।

भारतीयदर्शनानि – 

दर्शनेषु प्रपञ्चविषये विभिन्नप्रकारकाः वादाःतेषां ग्रन्थेषुप्रस्तुताः।तत्र प्रमुखाः वादाःपञ्च सन्ति।

१. कणादमुनेः आरम्भवादः।

 २. कपिलादिसाङ्ख्यानां परिणामवादः।

 ३. भगवतो बुद्धस्य सङ्घातवादः।

 ४.श्रीशङ्कराचार्यस्य विवर्तवादः।

५. ब्रह्मसृष्टिवादः ।

   कणादमुनेः आरम्भवादः नैयायिकानां सम्मतः।सतः असत् जायते इति नैयायिकाः।सतः विद्यमानात् पूर्ववर्तिनः वस्तुनः कारणात् असत् प्रागभावप्रतियोगि कार्यं जायते इति हि आरम्भवादः। जीवानामदृष्टेन प्रेरितस्य परमेश्वरस्य इच्छायाःनिमित्तकारणेन परमाणुद्वये क्रिया जायते । ततस्तयोः पूर्वदेशसंयोग नाशपूर्वःपरस्परसंयोगो जायते । तेन संयोगेनासमवायिकारणेन द्व्यणुक त्र्य्णुकादिकार्यं जायते।एवं पृथिव्यादीनां पदार्थानामुत्पत्या जगदुत्पत्तिः भवतीति तेषां मतम्। कपालद्वयं समवायिकारणम्, कुम्भकारादयः  निमित्तकारणम्।एवं विद्यमानात् कारणात् असत् अविद्यमानं प्रागभावप्रतियोगि कार्यं घट उत्पद्यते। आरभ्यते कार्यम् अविद्यमानं पूर्वम्, पश्चादारब्धमिति नाम सङ्गच्छते। चार्वाकाः अपि एवमेव आरम्भवादिनः एव ।

नैयायिकमतेइव पूर्वम् अविद्यमानं चैतन्यं असमवायिकारणेन चतुर्णां भूतानां संयोगेनापि बहवः कार्यकारणभावमन्तारः दार्शनिकाः आरम्भवादिन एव ।

 २.परिणामवादः-सतः सत् जायते इति परिणामवादः कपिलादीनां सम्मतः। सतः विद्यमानादेव प्रधानात् सत् विद्यमानमेव महदादि चतुर्विशतितत्वं  परिणमते। सत्वरजस्तमोमय्याःप्रकृतेःपुरुषसंयोगात् महदादितत्वं परिणमते।सतः विद्यमानात् कारणात् सत् विद्यमानमेव कार्यम्,तिलात् तैलम्,क्षीराद् दधि जायते।यथा प्रस्तरे विद्यमानैव देवमूर्तिःकारुवर्गैः महता प्रयत्नेन टङ्कणादिसाधनैःसर्वजनसमक्षमानीयते तथा सर्वजनगम्योऽयं परिणामवादः कपिलासुरिपञ्चसुखादिसम्मतः।

 ३.सङ्घातवादः-भगवतो बुद्धस्य वादोऽयम्।

  सम्पूर्वकात् हन हिंसागत्योःइति धातोःभावे घञ् प्रत्यये उपधा वृद्धौ होहन्तेर्णिन्येषु इति हस्य कुत्वे धकारे हनस्तो चिण्णलोइति तकारे सङ्घातशब्दः सिद्ध्यति। सङ्घः समूह इत्यर्थःअत्र अवयवानां समूह एव पदार्थ इति गण्यते।

      एते सौगताःचतुर्विधाः- वैभाषिकाः, सौत्रान्तिकाः,योगाचाराः,माध्यमिकाश्चेति।एतेषां सर्वेषांबोधायिता बुद्धः एक एव्। बोधयितुः बुद्धस्य गुरोरेकत्वेऽपि बोद्धव्यानां बुद्धितारतम्यात् चातुर्विध्यम्।स्थिरं किञ्चिदेकंनित्यंतत्वं न मन्यते। रूपविज्ञान वेदनासंज्ञासंस्कारनामानः पञ्चस्कन्धाः एव सङ्घातशब्दवाच्याः आत्मानः भवन्तीति तन्मतम्।

 ४.विवर्तवादः-श्रीशङ्कराचार्यमहोदयेन विवर्तवादमाविष्कृत्य प्रपञ्चमिथ्यात्वं प्रतिपादितम्।विवर्तो नाम अतत्वतोऽन्यथा प्रथा।प्रकृतेर्विकारःजगत् इति साङ्ख्यैरुच्यते।निर्गुणनिराकारस्य ब्रह्मणःविव्र्तः जगत् इति तेन् प्रोच्यते।यथान्धकारे रज्जौ सर्पभ्रान्तिः भवति तथैव जगदिदं ब्रह्मनः विवर्तः अघटितघटनापटीयस्या मायया सुखदुःखमोहात्मकं विवर्तते भ्रमोऽयम् ।ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरःइति तु तन्मतम् । 

५.ब्रह्मसृष्टिवादः -परिणामवादं विवर्तवादमसहमानैः बादरायणैःब्रह्मसूत्राणि विरचय्य यथेच्छमुपनिषद्वाक्यानि समुद्धृत्य ब्रह्मसृष्टिवादः सम्यक् प्रतिपादितः।मध्वाचार्यैरपि स्वग्रन्थेषु सम्यग् निरूपितः।विश्वं सत्यम्,ब्रह्मणा सृष्टमिति तन्मतम्। आस्तिक नास्तिकदर्शनानि प्रपञ्चविषये एव् विविधान् विभिन्नान् वादान् प्रस्तूय प्रपञ्चसत्यतां मिथ्यात्वं च प्रतिपादयन्ति।परन्तु सूत्रकृता एतेषां सर्वेषां दर्शनानामसामञ्जस्यं ब्रह्मसूत्रे  द्वितीयाध्याये समयपादे सविमर्शंसमालॊचितमस्ति।

विष्णुरेव जगत्कर्ता नान्यः 

    विश्वं तावत् सत्यम्, तस्य सृष्टिः ब्रह्मणैवेति जन्मादिसूत्रे निर्णीतं बादरायणैः। ब्रह्मणः जिज्ञासाविधायक श्रुतौ जिज्ञास्ये ब्रह्मणि इदं लक्षणमभिहितम्-

यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद् ब्रह्म ।

(तै.उ-३-१) यतः अस्य जगतः सृष्ट्-स्थिति-संहारनियमन-ज्ञान-अज्ञान-बन्ध-मोक्षाःतत् ब्रह्म इत्युक्तम्।तच्च ब्रह्म विष्णुरेव।

उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः। बन्धमोक्षौ च पुरुषात् यस्मात् स हरिरेकराट् ॥

यतः अस्य जगतः जन्मादि सः हरिः स्वतन्त्रःइति अस्यार्थः। ऋक्संहितापि विष्णुरेव जगत्कर्ता इत्याह-

’य उ त्रिधातु पृथिवीमुत  द्याम् एको दधार भुवनानि विश्वा॥’१-१५४-४

 यः- यः विष्णुः एक उ-एक एव त्रिधातु=प्रकृतिपुरुषकालधारकःपृथिवीम्=भूमिम्द्याम्=लक्ष्मीम् उत=अपि चविश्वा=सर्वाणि भुवनानि लोकान् दाधार=धृतवान्।

’यो नपिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।’ ऋग्वेद १०-८२-३

यः अस्माकं रक्षकः,जनकः,धारकः सः विश्वा भुवनानि वेद,इत्यादिप्रमाणैःविष्णुरेव जगतः सृष्टिकर्ता।

अस्य जगतः सृष्टिः विष्णुनैवेति उपनिषदः आहुः।विष्णुः स्वभावात् सर्वकर्मकृत्।

रक्षया वाथ सृष्ट्या वा संहृत्यादेर्न तु क्वचित्।  अर्थो विष्णोस्तथाप्येष स्वभावात् सर्वकर्मकृत्॥ 

बर्कश्रुतौ विष्णोरेव सृष्ट्यादिसर्वकर्तृत्वं स्वभावादस्तीति निरूपितम् ।

 सृष्टत्वादि स्वभावत्वात् स्वेच्छया विष्णुरव्ययः।  सृष्ट्यादिकं करोत्यद्धा स्वयं च बहुधा भवेत्।

इति नारायणश्रुतौ विष्णोरेव सृष्ट्यादिसर्वकर्तृत्वं स्वभावादस्तीति उक्तम्। 

उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः। बन्धमोक्षौ च पुरुषात् यस्मात् स हरिरेकराट्॥

इति स्कान्दपुराणे विष्णुः सृष्ट्याद्यष्टकर्ता इत्युक्तम्। 

सृष्टा पाता तथैवात्ता निखिलस्यैक एव तु। वासुदेवः परं पुंसामितरेऽल्पस्य वा न वा॥

 इति तत्रैव विश्णुरेक एव स्रष्टा,पाता,अत्ता इत्युक्तम्।

यमन्तस्समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः।

यतः प्रसूता जगतः प्रसूतिः तोयेन जीवान् व्यससर्ज भूम्याम्॥

यदोषदीभिःपुरुषान् पशूंश्च विवेश भूतानि चराचराणि।

अतः परं नान्यदणीयसं हि परात्परं यन्महतो महान्तम्॥

यदॆकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात्।

तदेवर्तं तदु सत्यमाहुः तदेव ब्रह्म परमं कवीनाम्॥

इति महानारायणोपनिषदि  विष्णुना चराचरसृष्टिरुक्ता।

नेहासीत् किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा । सोऽत्मनोमनसोऽस्राक्षीदप एव जनार्दनः॥

शयानस्तासु भगवान् निर्ममेऽण्डं महत्तरम्। तत्र संवत्सरं नाम ब्रह्माणमसृजत् प्रभुः॥

तमत्तुं व्याददादास्यं तदासौ विरुराव ह। अतस्तं कृपया विष्णुःसृष्टिकर्ता व्ययोजयत्।

सोऽसृजद्भवनं विश्वमद्यार्थंहरये विभुः॥-

ब्रह्मवैवर्तपुराणवचनमपि विष्णोः अप्संवत्सरादिसृष्टिमाह ।

 कर्ता सर्वस्य वै विष्णुःएक एव न संशयः। इतरेषां तु सत्ताद्याःयत एव तदाज्ञया॥ 

इति भविष्योत्तरपुराणे

तत्र तत्र स्थितो विष्णुः तत्तच्छक्तीः प्रबोधयन्।  एक एव महाशक्तिःकुरुते सर्वमञ्जसा॥

इति वामनपुराणे च सर्वस्य कर्ता विष्णुरेक एव इत्युक्तम्।

सृष्टा पाता तथैवात्ता स एको हरिरीश्वरः। सृष्टत्वादिकमन्येषां दारु योषवदुच्यते॥

एकदेशक्रिया चात्र न तु सर्वात्मनेरितम्।सृष्ट्यादिकं समस्तं तु विष्णोरेव पराद्भवेत्॥

इति स्कान्दपुराणे,

निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः।

हिरण्यगर्भश्शर्वश्च कालाख्यारूपिणस्तव॥

इति भागवतपुराणे च स्रष्टा,पाता,संहर्ता च हरिरेक एवैति प्रतिपादितम्।

एते त्रिपुरुषाः प्रोक्ताः सृष्टिस्थित्यन्तकारिणः।

निमित्तमात्रं तौ देवौ विष्णु सर्वस्य कारणम्॥ 

इति स्कान्दपुराणे चतुर्मुखरुद्रादौ सृष्टिसंहारयोः निमित्तमात्रम्।विष्णुरेव सर्वकर्ता इत्युक्तम्।

एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम्। अनाद्यनन्तकालीनं ससर्जात्मेच्छया प्रभुः॥ 

इति वराहपुराणवचनमपि सत्यभुतजगत् विष्णुनैव सृष्टमिति वक्ति।

यद्रूपं यदधिष्ठानंयतः सृष्टमिदं विभोः।

यत्संस्थं यत्परं यच्च तत् तत्तत्वं वेद तत्वतः॥ 

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम्।

योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम्॥४-३-३

जाने त्वामीश विश्वस्य जगतो योनिबीजयोः।४-८-४२

विश्वं सृजसि पात्स्यत्सि क्रीडयोर्णपदो यथा।४-८-४३

विश्वोद्भवस्थाननिरोध कर्म तेह्यकर्तुरङ्गीकृतमप्यपावृतम्।

युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुनि॥५-१८-५

परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद् यत्र विश्वम्।

यदंशतोऽस्य स्थितिजन्मनाशा न स्योतवद् यस्य वशे च लोकः॥६-३-१२

त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वहन्त्यनीहादगुणादविक्रियात्।-१०-४-११

इत्यादिवचनेषु विष्णोः सृष्टिकर्तृत्वमुक्तम्।

   बृहदारण्यकोपनिषदि उदाहरणत्रयपूर्वकं विष्णोः सृष्टिकर्तृत्वमुक्तम्।

स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयात्।

गृहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः॥४-४-७

स यथा शङ्खस्य ध्मायमानस्य न बाह्यान् शब्दान् शक्नुयात्।

ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः।४-४-८

अत्र दुन्दुभ्याघातादिदृष्टान्तोपि तदधीनत्वं तत्कारणत्वंच ज्ञापयति।नहि दुन्दुभ्यादेरेव तच्छब्दः।न च तदुपादानम्।नहि उपादानादुपादेयंस्थानान्तरे भवति।सब्दो हि स्थानान्तरे गत्वाप्रतिश्रुतित्वमुपैति।भगव्दिच्छाद्याः दृष्टान्तःदुन्दुभ्याघातादिः।न हि दुन्दुभिं पश्यन्  पुरुषो दुन्दुभ्याघाते मुरजशब्दोयमिति गृह्णाति,किन्तु भगवदिच्छाधीनमेवेति। एवं उदाहरणत्रयपूर्वकं विष्णोः सृष्टिकर्तृत्वमुक्तम्।

  स यद्यदेवासृजत तत्तदत्तुमध्रियत। सर्वं वा अत्तीति तददितेरदितित्वम्॥बृह.३-२-५

इत्यत्र विश्णोरेव सृष्टिकर्तृत्वं,संहारकर्तृत्वमुक्तम्।भाष्ये अपि

यद्यद् ब्रह्मासृजत् पूर्वं तत्तदत्ति जनार्दनः। अदितिर्नाम तेनासौ  भगवान् पुरुषोत्तमः॥

इति मान्यसंहितावचनेन,

सृष्टा पाता तथैवात्ता निखिलस्यैक एव तु। वासुदेवः परः पुंसाम् इतरेऽल्पस्य वा न वा॥

इति स्कान्दवचनेन,

एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः।  यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेऽत्तु देवः।

इति घृतसूक्तवचनेन च,

सोऽसृजद् भुवनं विश्वमद्यार्थंहरये विभुः ।

इति ब्रह्मवैवर्तवचनेन च,त्वया सृष्टं जगत्सर्वं न सृष्टाहम्  इति भागवतवचनेन च भगवान् विष्णुरेव सृष्टिकर्ता इति ज्ञायते।

ईशावस्योपनिषदि-

स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् ।

कविर्मनीषी  परिभू स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः॥८॥

कविः,सर्वज्ञ्ःप्रकृत्यादिसर्वमनसामीशितृत्वात् मनीषी,सर्वं वशीकरोतीति परिभूःसर्वतो वरः स्वयमेव परमनपेक्ष्यभवतीति स्वयम्भूःशाश्वतीभ्यस्समाभ्यःअनाद्यनन्तसंवत्सरेषु याथातथ्यतो  याथार्थ्येन वर्तमानार्थान्व्यदधात् निर्ममे।भाष्य़ेपि

ब्रह्मादिसर्वमनसां प्रकृत्या मनसोऽपि च। ईशितृत्वान्मनीषी सः परिभू सर्वतो वरः॥

सदानन्याश्रयत्वाच्च स्वयम्भू परिकीर्तितः। स सत्यं जगदेतादृक नित्यमेव प्रवाहतः॥

अनाद्यनन्तकालेषु  प्रवाहैकप्रकारकम्। नियमेनैव ससृजेभगवान् पुरुषोत्तमः॥

एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम्।अनाद्यनन्तकालीनंससर्जात्मेच्छया प्रभुः॥

इति वराहपुराणवचनान्युद्धृत्य विष्णुरेव जगत्कर्ता इति निर्णीतः। किञ्च

अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते। ततो भूय इव ते तमो य उ सम्भूत्यां रताः॥

अत्र असम्भूतिं=सृष्टृत्वाभावं हरेः य उपासते तेऽपि तमःप्रविशन्ति इत्युक्तत्वात्जगत्कर्ता विष्णुरित्यङीकार्यः एव।भाष्येऽपि आचार्यैः-

यान्त्येव सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः।तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम्॥

नाङ्गीकुर्वन्ति तेऽप्येवं तस्मात्सर्वगुणात्मकम्। सर्वकर्तारमीशेशं सर्वसंहारकारकम्॥

इत्यादि कूर्मपुराणवचनेनसमर्थितम्।

अथ कबन्धी कात्यायनः उपेत्य पपृच्छ।भगवन् कुतो ह वा इमाः  प्रजा प्रजायन्ते इति । तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः।स तपोऽतप्यत ॥३॥

स मिथुनमुत्पादयते रयिं च प्राणं चेति।एतौ मे बहुधा प्रजाः करिष्यत इति।आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः॥४॥रयिर्वा एतत् सर्वं यन्मूर्तं चामूर्तं च।तस्मान्मूर्तिरेव रयिः—–॥५॥  

कबन्धी कात्यायनः समित्पणिः उपेत्य भगवन्तं पिप्पलादं पपृच्छ।भगवन्,कुतो निमित्तकारणात् पुरुषाद् इमाः प्रजाः प्रजायन्ते-उत्पद्यन्ते?इति।सुप्रसिद्धं तावत् प्रजानांप्रजननम्।नचैतदन्तरेण कारणमुपपन्नम्।तथा सति सर्वदापि तत्प्रसङ्गात्।नचाचेतनैरेव कारणैः,चेतनानधिष्टितानां तेषांकार्यकर्तृत्वादर्शनात्। नच जीवोऽधिष्टाता अस्वतन्त्रत्वात्। नापीश्वरः तदनुपल्म्भात् इत्यभिप्रायेण कात्यायनः पपृच्छ॥

यद्यपि भगवान् सर्वेषां न प्रत्यक्षगोचरो वर्तमानः कुलालादयः घटादिकमिव प्रजाः प्रजनयति। तथापि जगत्कारणीभूतान् प्राणादीन् उत्पाद्य तेष्वाविश्य तान् निमित्तीकृत्य निखिलाः प्रजाः जनयन्तीति न कश्चिद्विरोधःआ इत्याशयवान्सः पिप्पलाद ः कात्यायनाय उत्तरमुवाच।ब्रह्मादीनां पतिः पालकःपरमेश्वरः कल्पादौ आत्मनः प्रजाकामः देवादि प्रजावत्वमात्मनः इच्छन् अवर्तत।सर्वज्ञोऽपिलोकविडम्बनाय सःतपोऽतप्यत।आलोचितकार्यः सः मिथुनं स्त्रीपुरुषद्वन्द्वम् उत्पादयते उदपादयत्। नच प्राणादिजननेन अस्य प्रयोजनं शङ्कनीयम् ।देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा?इति माण्डूक्यश्रुत्युक्तदिशा भगवतो विश्वसृष्टिःतस्य स्वभावः।परमेश्वरस्य न प्रयोजनाय सृष्टिःईश्वरस्य जगत्कर्तृत्वेनिष्फ्लत्वादियुक्तिविरोधं न प्रयोजनाधिकरणे आशङ्क्य बादरायणैः सिद्धान्तितम्।

    यदि प्रयोजनोद्देशेन विष्णोः सृष्ट्यादिःजगत्सर्जनादिविषयकप्रवृत्तिरङ्गीकृतास्यात् तर्हितदूनत्वात् सृष्ट्यादेः पूर्वं तेन भाविना प्रयोजनेन ऊनत्वात्तद्रहितत्वात्,अपूर्णता अनाप्तकामत्वं स्यात् ततश्च विष्णोःजगत्कर्तृत्वं न स्यात् इत्याशङ्क्य,बृहदारण्यकोपनिषदः ’अथैष एव परमानन्दः’इत्यादिना कृतकृत्यतावगमात्न प्रयोजनाय भगवता सृष्टिः,इति सिद्धान्तयन् सूत्रकारः प्रयोजनोद्देशेन न सृष्ट्यादिप्रवृत्तिः अतओ नापूर्णत्वादिदोषः।अत एव न जगत्कर्तृत्वायोगः,तथा आप्तकामत्वेनतया साध्यफलाभावत् न प्रयोजनार्थमपितस्य सृष्ट्यादिप्रवृत्तिःयुज्यते।न प्रयोजनोद्देशेन प्रवृत्तिःतस्याश्च लीलाकैवल्यं केवललीलात्वं,लीलारूपत्वमेव न तु प्रयोजनान्तरार्थत्वम्।

सृष्ट्यादिकं हरेर्नैवप्रयोजमपेक्ष्य तु। कुरुते केवलानन्दात् यथा मत्तस्य नर्तनम्॥

पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः मुक्ता अप्याप्तकामाःस्युःकिमु तस्याखिलत्मनः॥

इति नारायणसंहितायामपि हरिः सृष्ट्यादिकं  न स्वप्रयोजनमपेक्ष्यकुरुते।किन्तु केवलानन्दात् स्वरूपानन्दादेव कुरुते इति प्रतिपादितम्।

माण्डूकभाष्ये अपि-

तस्यापि विष्णोःसृष्टिं तु केचिदाहुरनैपुणा। 

अतृप्तस्यैव भोगार्थंक्रीडार्थन्तु विप़श्चितः।

 सा च क्रीडा स्वभावो?स्य  क्रीडार्थं तु स्पृहा विभोः॥

 इति भगवत्‌सृष्टिः  केवललीला इत्युक्तम्।

    एवं च सः तत्स्वाभाव्यात् उत्पादयते।किं तन्मिथुनम्?रयिं वित्ताभिमानिनी  भारतीं प्राणं मूख्यं च।सर्वाः प्रजाः सिसृक्षुः परमेश्वरःएवं मन्यते।एतौ रयिप्राणौ मम बहुविधाःप्रजाः करिष्यतः।एतौ आविश्य अहं प्रजाः सृक्षामि।इमौ मे प्रजासर्जने निमित्तीभविष्यत:।चन्द्रसूर्यौआविश्य तौ निमित्तीकृत्य प्रजापतिःप्रजाः ससर्जेति वाक्यशेषः।

एतदेव भाष्ये-

 स वायुं सूर्यनामानं चन्द्रनाम्नीं सरस्वतीम्। 

सूर्याचन्द्रगतो देवःससर्ज पुरुषोत्तमः।

तावाविश्य स्वयं विष्णुं सर्वसृष्टीः करोत्यज॥इति।

 एवं षट्प्रश्नोपषदि विश्वकर्ता विष्णुरेवेति प्रतिपादितम्।

आथर्वणोपनिषदि-

यत्तदद्रेशमग्राह्यमगोत्रवर्णमचक्षुः श्रोत्रं तदपाणिपादम्।

नित्यं विभुं सर्वगतं सुसूक्षं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः॥

यथोर्णनाभिस्सृजते गृह्णते च   यथा पृथिव्यामोषधयः सम्भवन्ति।   

यथा सतः पुरुषात् केशलोमानि  तथाक्षरात् सम्भवतीह विश्वम्॥१-१-७

     अत्र विष्णोः जगत्कर्तृत्वमुक्तम् ।अद्रेश्यम्-चक्षुषाअदृश्यम्,मनसा अग्राह्यम्,अगोत्रवर्णम् अनामरूपम्, अचक्षुश्श्रोत्रम्-ज्ञानेन्द्रियवर्जितम्,तत्‌अपाणिपादम्-कर्मेन्द्रियवर्जितम्, नित्यम्,सर्वगतम्,सुसूक्ष्मम्  तदव्ययं तत् यत् भूतयोनिं सर्वजगत्कारणं परिपश्यन्ति-ज्ञानिनःपश्यन्ति। यत् तद् परविद्यावेद्यमक्षरं यद्भूतयोनिमिति सर्वकारणत्वेन उक्तं,तत् दृष्टान्तेन निरूपयतिअग्रिमे मन्त्रे।अक्षरशब्दोक्तं कारणं विष्णुरेव। तच्च निमित्तकारणम्।नोपादानकारणं प्रधानमत्र निरूप्यते।

तत्रैवाथर्वणोपनिषदि

यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः  सहस्रशः प्रभवन्ति सरूपाः।

तथाक्षराद् विविधाःसोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति॥

   अयं मन्त्रो?पि भगवतो विष्णोःसृष्टिकर्तृत्वमहिमानं वर्णयति। सत्याख्यस्य विष्णोःस्वरूपसामर्थ्यादेव सर्वसृष्टृत्वादिकमुपदिशति।यथा विविधाःस्फुलिङ्गाःअग्निना संवलिताःप्रभवन्ति प्रजायन्ते तथा अक्षरात् परमपुरुषात् विविधाःभावाःचिदचित्पदार्थाःप्रजायन्ते इति जीवादिसर्वसृष्टृत्वं विष्णोः प्रतिपादितम्।

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापःपृथिवी विश्वस्य धारिणी॥

  अत्र सृष्टेःक्रमो निरूपितः।आदौ मुख्यप्राणस्य, ततो मनोमानिनः रुद्रस्य,ततः इन्द्रियाभिमानिनामिन्द्रादीनाम्,ततो भूताभिमानिनां विनायकादीनां सृष्टिःइत्येवं सृष्टिक्रमः।

  विष्णोस्तदङ्गेभ्यःदेवानां जननक्रमःअग्रिममन्त्रे अपि निरूपितः-

अग्निमूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः।

वायुःप्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येषसर्वभूतान्तरात्मा॥ २-१-४

भगवान् स्वाङ्गेभ्यःएवं सृष्ट्वा स्वसृष्टानां सर्वेषां भूतानामन्तः प्रविशति।तत् सृष्ट्वा तदेवानुप्रविशत् इति श्रुतिरपि तदेवाह।

माण्डूक्योपनिषदि-

प्रभवः सर्वभूतानां सतामिति विनिश्चयः। 

सर्वं जनयति प्राणश्चेतोंशून् पुरुषः पृथक्॥१-१२

श्रीहरिरेव सर्वभूतानां प्रभवः सृष्टिकर्ता इति सज्जनानां निश्चिताभिप्रायः।सर्वस्य हि प्रणेतृत्वात् प्राणशब्दवच्यो नारायण एवसर्वं जनयतीति स एव सृष्टिकर्ता इति अस्यार्थः।विश्वस्यास्य सृष्टिं भगवान् इच्छामात्रेण करोति।तस्याविकारस्य विष्णोःचिन्मात्रस्वेच्छयैवाखिलं जगदुत्पद्यते इति ब्रह्मादयो?खिलाः प्राहुः। परन्तु केचिदनिपुणाःअतृप्तस्यैव भोगार्थं क्रीडार्थमिति इयं सृष्टिरिति प्राहुः। परन्तु उपनिषदेव-

    भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति  चापरे।देवस्यैष स्वभावो?यमाप्तकामस्य का स्पृहा॥१-१५

इत्येव द्वौ वादौ प्रस्तूय,सृष्ट्यादिचेष्टा देवस्य स्वभावःइति तस्यां न कापि  प्रयोजनापेक्षा इति वदति।माण्डूक्यभाष्ये?पि आचार्यैः

तस्यापि विष्णोः सृष्टिं तुकेचिदाहुरनैपुणाः।

अतृप्तस्यैव भोगार्थं क्रीडार्थं तु विपश्चितः॥ 

सा च क्रीडा स्वभावो?स्य कुतोऽतृप्त्यास्पृहा विभोः॥

इति हरिवंशवचनं प्रमाणतयोपन्यस्तम्।

    तैत्तिरीयोपनिषदि-

सत्यं ज्ञानमनन्तं ब्रह्म ।तस्माद्वा एतस्मात् आत्मन आकाशः सम्भूतः, 

आकाशाद्वायुः, वायोरग्निः,अग्नेरापः,अद्भ्यः पृथिवी,पृथिव्या ओषधयः,ओषधीभ्योऽन्नम्,अन्नात् पुरुषः।

अन्नाद्वै प्रजाः प्रजायन्ते।याः काश्च पृथिवीं श्रिताः।

अन्नाद् भूतानि जायन्ते।इदं सर्वमसृजत,यदिदंकिञ्च,तत्सृष्ट्वा तदेवानुप्राविशत्, 

ऐतरेयोपनिषदि-स इमान् लोकान् असृजत,इत्यादिवाक्येषु विष्णोरेव सृष्ट्यादि निरूपितम्।

तैत्तिरीयभाष्ये-

सृष्ट्वा जगदिदं सर्वं नियामकतयास्य तु।

 बहुरूपो भवानीति स्याज्जगच्चेत्यचिन्तयत् ॥

 स्यादित्यालोचनान्नान्यत् तपो विष्णोः कदाचन।

 अवतारेष्वनुकृतिःबाह्यवृत्या तपस्विनाम्॥

 सृष्टिर्नाम स्वरूपा तु बहिर्निष्क्रमणं स्मृतम्।

यद्यपीदं जगत्सर्वंस्वोदरस्थं महात्मनः॥

तथाप्येष द्वितीयेनरूपेण बहिराक्षिपेत्।

रूपान्तरेणाविशच्च जगत्सर्वं जनार्दनः॥

इत्यादिना  श्रीमदाचार्यैःअर्थः उपवर्णितः।

    भागवतेऽपि-

जगृहे पौरुषं रूपं भगवान् महदादिभिः।

सम्भूतं षोडशकलमादौ लोकसिसृक्षया॥

नामरूपात्मकमिदं विश्वं प्रकृत्यात्मना निलीनं प्रलये भगवदुदरेनिष्क्रियमेव अवतिष्टते।सृष्टिकाले भगवान् नारायण ः

स्वोदरस्थां प्रकृतिंबहिर्निधाय महत्तत्वाद्यात्मना परिणमय्य अन्ते पञ्च महाभूतानि ससर्ज।तदुपयोगेन ब्रह्माण्डं निर्ममे।एवं च अत्र सोदरे विद्यमानस्य जडवस्तुनःबहिर्निक्षेपः तस्यैव विकसनंच सृष्टिरिति स्फुटं विज्ञायते। एवं द्वैतवेदान्ते बहूनि प्रमाणानि उदाहृत्य विष्णोरेव जगत्कर्तृत्वं प्रतिपादितम्। एवं श्रुतीः अवगम्यैतिहासपुराणानां दृष्टिमास्थायमिथ्यादृष्टिं परित्यज्यसर्वमङ्गीकर्तुमुचितम् इति भाति । अयमेव विचारः सार्वकालिकःइति निश्चयेन वक्तुं शक्नुमः। विचारोऽयं मया यथामति प्रबन्धेऽस्मिन् निरूपितः।

*********

 

ऊoot notes

१.य उ त्रिधातु पृथिवीमुत  द्याम् एको दधार भुवनानि विश्वा॥१-१५४-४

२.यो नपिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा॥ऋग्वेद १०-८२-३

३.रक्षया वाथ सृष्ट्या वा संहृत्यादेर्न तु क्वचित्।  अर्थो विष्णोस्तथाप्येष स्वभावात् सर्वकर्मकृत्॥-बर्कश्रुतिः।

४.सृष्टत्वादि स्वभावत्वात् स्वेच्छया विष्णुरव्ययः। सृष्ट्यादिकं करोत्यद्धा स्वयं च बहुधा भवेत्।-नारायणश्रुतिः।

५.यमन्तस्समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजाः। यतः प्रसूता जगतः प्रसूतिः तोयेन जीवान् व्यससर्ज भूम्याम्॥

६.यदोषदीभिःपुरुषान् पशूंश्च विवेश भूतानि चराचराणि। अतः परं नान्यदणीयसं हि परात्परं यन्महतो महान्तम्॥

यदॆकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात्। तदेवर्तं तदु सत्यमाहुः तदेव ब्रह्म परमं कवीनाम्॥-महानारायणोपनिषत्

७.उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः। बन्धमोक्षौ च पुरुषात् यस्मात् स हरिरेकराट्॥-स्कान्दपुराणम्।

८.सृष्टा पाता तथैवात्ता निखिलस्यैक एव तु। वासुदेवः परं पुंसामितरेऽल्पस्य वा न वा॥ स्कान्दपुराणम्।

९.नेहासीत् किञ्चनाप्यादौ मृत्युरासीद्धरिस्तदा। सोऽत्मनोमनसोऽस्राक्षीदप एव जनार्दनः॥

शयानस्तासु भगवान् निर्ममेऽण्डं महत्तरम्। तत्र संवत्सरं नाम ब्रह्माणमसृजत् प्रभुः॥

तमत्तुं व्याददादास्यं तदासौ विरुराव ह।अतस्तं कृपया विष्णुःसृष्टिकर्ता व्ययोजयत्।

सोऽसृजद्भवनं विश्वमद्यार्थंहरये विभुः॥-ब्रह्मवैवर्तपुराणम्

१०.कर्ता सर्वस्य वै विष्णुःएक एव न संशयः।  इतरेषां तु सत्ताद्याःयत एव तदाज्ञया॥ -भविष्योत्तरपुराणम्

११.तत्र तत्र स्थितो विष्णुः तत्तच्छक्तीः प्रबोधयन्। एक एव महाशक्तिःकुरुते सर्वमञ्जसा॥-वामनपुराणम्।

१२.सृष्टा पाता तथैवात्ता स एको हरिरीश्वरः। सृष्टत्वादिकमन्येषां दारु योषवदुच्यते॥

एकदेशक्रिया चात्र न तु सर्वात्मनेरितम्। सृष्ट्यादिकं समस्तं तु विष्णोरेव पराद्भवेत्॥ -स्कान्दपुराणम्।

१३.निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः। हिरण्यगर्भश्शर्वश्च कालाख्यारूपिणस्तव॥ भागवतपुराणम्

१४.एते त्रिपुरुषाः प्रोक्ताः  सृष्टिस्थित्यन्तकारिणः। निमित्तमात्रं तौ देवौ विष्णु सर्वस्य कारणम्॥ स्कान्दपुराणम्।

१५.एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम्।  अनाद्यनन्तकालीनं ससर्जात्मेच्छया प्रभुः॥ वराहपुराणम्

१६.यद्रूपं यदधिष्ठानंयतः सृष्टमिदं विभोः। यत्संस्थं यत्परं यच्च तत् तत्तत्वं वेद तत्वतः॥ 

१७.यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम्। योऽस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम्॥४-३-३

१८.जाने त्वामीश विश्वस्य जगतो योनिबीजयोः।४-८-४२

१९.विश्वं सृजसि पात्स्यत्सि क्रीडयोर्णपदो यथा।४-८-४३

२०.विश्वोद्भवस्थाननिरोध कर्म तेह्यकर्तुरङ्गीकृतमप्यपावृतम्। युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुनि॥५-१८-५

२१.परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद् यत्र विश्वम्।

यदंशतोऽस्य स्थितिजन्मनाशा न स्योतवद् यस्य वशे च लोकः॥६-३-१२

२२.त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो वहन्त्यनीहादगुणादविक्रियात्।-१०-४-११

त्वयीश्वरे ब्रह्मणी नो विरुद्ध्यते इत्यादिवचनेषु विष्णोः सृष्टिकर्तृत्वमुक्तम्

२३.स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयात्।

गृहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः॥४-४-७

२४.स यथा शङ्खस्य ध्मायमानस्य  न बाह्यान् शब्दान् शक्नुयात्।

ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः।४-४-८

२५.स यद्यदेवासृजत तत्तदत्तुमध्रियत। सर्वं वा अत्तीति तददितेरदितित्वम्॥बृह.३-२-५

२६.यद्यद् ब्रह्मासृजत् पूर्वं तत्तदत्ति जनार्दनः। अदितिर्नाम तेनासौ  भगवान् पुरुषोत्तमः॥

इति मान्यसंहितावचनेन,

२६.सृष्टा पाता तथैवात्ता निखिलस्यैक एव तु। वासुदेवः परः पुंसाम् इतरेऽल्पस्य वा न वा॥  इति स्कान्दवचनेन,

२७.एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः। यमप्येति भुवनं साम्पराये स नो हरिर्घृतमिहायुषेऽत्तु देवः॥

२८.सोऽसृजद् भुवनं विश्वमद्यार्थंहरये विभुः इति ब्रह्मवैवर्तवचनेन च,

२९.त्वया सृष्टं जगत्सर्वं न सृष्टाहम् -इति भागवतवचनेन च भगवान् विष्णुरेव सृष्टिकर्ता इति ज्ञायते।

३०.स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् ।

कविर्मनीषी  परिभू स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः॥८॥ 

३१.ब्रह्मादिसर्वमनसां प्रकृत्या मनसोऽपि च।

ईशितृत्वान्मनीषी सः परिभू सर्वतो वरः॥ 

सदानन्याश्रयत्वाच्च स्वयम्भू परिकीर्तितः

स सत्यं जगदेतादृक नित्यमेव प्रवाहतः॥ ईशावस्योपनिषदि-

३२.अनाद्यनन्तकालेषु  प्रवाहैकप्रकारकम्।

नियमेनैव ससृजेभगवान् पुरुषोत्तमः॥

एवम्भूतो महाविष्णुर्यथार्थं जगदीदृशम्।

अनाद्यनन्तकालीनंससर्जात्मेच्छया प्रभुः॥

इति वराहपुराणवचनान्युद्धृत्य विष्णुरेव जगत्कर्ता इति निर्णीतः।किञ्च

३३.अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते। ततो भूय इव ते तमो य उ सम्भूत्यां रताः॥

अत्र असम्भूतिं=सृष्टृत्वाभावं हरेः य उपासते तेऽपि तमःप्रविशन्ति इत्युक्तत्वात्जगत्कर्ता विष्णुरित्यङीकार्यः एव।भाष्येऽपि आचार्यैः-

३४.यान्त्येव सृष्टिकर्तृत्वं नाङ्गीकुर्वन्ति ये हरेः। तेऽपि यान्ति तमो घोरं तथा संहारकर्तृताम्॥ 

नाङ्गीकुर्वन्ति तेऽप्येवं तस्मात्सर्वगुणात्मकम्। सर्वकर्तारमीशेशं सर्वसंहारकारकम्॥  इत्यादि कूर्मपुराणवचनेनसमर्थितम्।

३५.ऊर्ध्वमूलोऽर्वाक्शाखःएषोऽश्वत्थः सनातनः।

तदेव शुक्रं तद् ब्रह्मतदेवामृतमुच्यते।

तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन॥२-३-१

३६.सर्वोच्चो भगवान् विष्णुः मूलं भूमिवदस्य तु।

जगदाख्यस्य वृक्षस्य शाखाः देवा स्ततोऽवमाः॥

वृक्षमूलं रमादेवी सोऽश्व आशुगतेर्हरिः। 

व्याप्तत्वात् तदन्नत्वातश्वत्थोऽयम् प्रकीर्तितः॥

प्रवाहतस्त्वनादिश्च मुख्यतस्त्वमृतो हरिः।मुख्यामृतस्स एवैको जगन्नित्यं प्रवाहतः॥श्रीहरिणा व्याप्तत्वात् ,तदन्नत्वात्, जगत्प्रवाहतोऽनादिनित्यम्।तस्य मूलं भगवान् हरिः इति निरूपितम्। अत्रै व उपनिषदि अग्रे,

३७.’यदिदं किञ्च जगत्सर्वं प्राण एजति निसृतम्। महद्भयं वज्रमुद्यतं य एतद् विदुरमृतास्ते भवन्ति॥’

सृष्ट्यादिकं हरेर्नैवप्रयोजमपेक्ष्य तु।कुरुते केवलानन्दात् यथा मत्तस्य नर्तनम्॥

पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः।मुक्ता अप्याप्तकामाःस्युःकिमु तस्याखिलत्मनः॥

  ईr.ढअकअइॠअछईढअ ठरढटॠऌफ,

  ळidwan,क.अ.ठh.ई.

[/vc_column_text][/vc_column][/vc_row]