वत्सलरसविमर्शः

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

वत्सलरसविमर्शः

डा.पुष्कर आनन्दः

 कुञ्जिशब्दाः

रसविमर्शः,रससिद्धिः, रससंख्याविमर्शः, रससंख्याविस्तारः,वत्सलरसत्वनिषेधः, वत्सलरसत्वग्रहणम्, प्राक्तनानामर्वाचीनानाञ्च विचाराः।

सारांशः

प्रायशो रससूत्रव्याख्यायां यथा हि विमतिर्दृश्यते तथैव  अधिकमेव रसानां संख्यानिर्धारणे विचारवैविध्यं दरीदृश्यते । प्राचीनाचार्यैः, वत्सलरसत्वं कथमपि नाङ्गीकृतम्परंसूरदासप्रभृतिभिः कृष्णभक्तकविभिःवत्सलरसःपूर्णरूपेण प्रतिष्ठापितः। वात्सल्यस्य रसत्वप्राप्तये कृष्णबाललीलावर्णनं तथा सहृदयतया कृतं यत् वात्सल्यस्य स्वरूपं स्वतःरसरूपतामगात् । किञ्च कालिदाससाहित्येऽपि वत्सलरसस्य साक्षात्प्रयोगः बहुधा हि लभ्यते। रूपगोस्वामी-अल्लराज-भानुदत्ताचार्य-विश्वनाथप्रभृतिभिः बहुभिर्प्रसिद्धालङ्कारिकैः यथा हि वत्सलरसः अङ्गीकृतः किञ्चास्य समर्थने स्थापने च यथा हि विविधाः विचाराः प्रस्तुताः ते नूनं वत्सलरसस्य रसत्वं साधयन्तीति ।

प्राक्कथनम्-

नाट्यशास्त्रानुसारेण काव्ये नाट्ये च रसं विना नहि कस्याप्यर्थस्य प्रवर्तनंभवति।[1]काव्यस्यात्मा रस एवात्र नास्ति कश्चिद्विसम्वादः । उपनिषत्सु “रसो वै सः किञ्च रस ह्येवायं लब्ध्वाऽनन्दीभवति” [2]इत्युक्त्वा यस्यास्वादनं परामृष्टं स एव काव्यस्य सकलप्रयोजनमौलिभूतं प्रयोजनमिति यथाहि काव्यप्रकाशकारेण स्पष्टं विनिर्दिष्टम्- सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमानन्दं……..। [3]रससन्दर्भे अग्निपुराणस्य तन्मतमप्युल्लेखनीयं वर्तते यदाचार्यविश्वनाथोऽपि अनुस्मरति- “वाग्वैदग्ध्यप्रधानेऽपिरसएवात्रजीवितम्।[4]

अस्य काव्यत्मतत्त्वसिद्धये प्रथमं तावदाचार्यभरतमुनिना यद्धि सूत्रं प्रदत्तं तन्मूलरूपेणेत्थं प्राप्यते- “विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः”।[5] विविधैः परवर्तिभिराचार्यैः स्वस्वशास्त्रानुसारेण स्वस्वमतानुसारेण च  सूत्रस्यास्य व्याख्याः प्रावर्त्तिषत । व्याख्याकर्तृषु भट्टलोल्लटशंकुकभट्टनायकाऽभिनवगुप्तानां रससूत्रव्याख्याः प्रसिद्धाः वर्तन्ते। यत्र हि भट्टलोल्लटानुसारेण रसस्योत्पत्तिर्जायते तत्रैव शंकुकमतनुसारेण रसस्याऽनुमितिर्भवतीति । रससूत्रव्याख्याप्रसङ्गे भट्टनायकः नूत्नोद्भावकः। स च भावकत्वभोजकत्वव्यापारद्वयमुद्भावयति । अनेन उभयोरपि विचारः विखण्डितः। रसः नोत्पद्यते नानुमीयते अपितु भुज्यते। आचार्याभिनवगुप्तेन काचिद्विशिष्टा व्यावहारिकी किञ्च प्रामाणिकी व्याख्याकारि । अनेनोक्तं –“साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको……..ब्रह्मास्वादमिवानुभावयन् अलौकिकचमत्कारकारी शृङ्गारादिको रसः।[6] रसानामभिव्यक्तिर्भवतीति न तु उत्पत्ति न चानुमितिरित्येवाभिप्रायो अभिनवगुप्तस्य।

विषयनिचायः

यथा रससूत्रव्याख्यायां विमतिर्दृश्यते तथैव अधिकमेव रसानां संख्यानिर्धारणे विचारवैविध्यं दरीदृश्यते । पूर्वन्तु आद्यनाट्याचार्येण भरतेन नाट्येषु अष्टावेव रसाः अङ्ग्यकारिषत -“ शृङ्गारहास्यकरुणरौद्रवीरभयानकाः वीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः[7]किञ्चास्मिन्क्रमे इदमप्यवधेयं यदष्टावेव रसाः स्युरिति केनचिन्महात्मना द्रुहिणेन प्रवर्तिताः यथा हि भरतमुनिः न्यगदत्-“ एते चाष्टौ रसाः प्रोक्ताः द्रुहिणेन महात्मना।”[8]‌ अनेन सिद्ध्यति यत् रसानामियं संख्या पुरातनपरम्परया प्रसिद्धा आसीत्। भरतादनन्तरं भामहवामनदण्ड्यादिभिरनेकैराचार्यैः अष्टावेव रसाः ऊररीकृताः परं च उद्भटेन रसस्य नवविधत्वमङ्ग्यकारि – “शृङ्गारहास्यकरुणरौद्रवीरभयानकाः वीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः।” आनन्दवर्धनेनाऽपि शान्तरसः विषयीकृतः। आचार्यमम्मटोऽपि “शान्तोऽपि नवमो रसः[9] इत्युक्त्वा नवरसत्वं समर्थयति। इत्थं रससंख्यासु अभिवृद्धये कश्चिन्नूतनः अवसरः सम्प्राप्तः।

कालान्तरे भोजराजः नवरसेभ्योऽतिरिक्तान् काँश्चन अभिनवान् रसानपि न्ययुङ्क्त  । ते च “प्रेयांसः शान्तोदात्तोद्धताः”। अनेनैते रसाः नायकभेदाश्रयत्वेन प्रकल्पिताः। इत्थं रससंख्या विस्तृता । प्रसङ्गेऽस्मिन् उल्लेखनीयं वर्तते यत् ये च रसाः नवीनत्वेनोद्भाविताः तेषु भक्तिमधुरप्रेयलौल्यगर्धमृगयावत्सलादिकाः प्रमुखाः वर्तन्ते । रसप्रसङ्गे कदाचिच्चरमः प्रयासो वैष्णवाचार्यैः रूपगोस्वामिप्रभृतिभिः कृतः। भक्तिमधुरवत्सलादिकाः केवलं भावाः रसाः नैव भवितुमर्हन्तीति निर्णयः अनेन सर्वथा निराकृतः। पूर्णया व्यवस्थया भक्तेः प्रधानरसत्वं शास्त्रीयरसानां च गौणरसत्वमुदघोषि । रूपगोस्वामिमतानुसारेण रसः द्विविधः- मुख्यरसो गौणरसश्चेति। तत्र मुख्यो रसः-“शान्तभक्ति-प्रीतभक्ति-प्रेयान्भक्ति-वत्सलभक्ति-मधुरभक्तिश्च । पुनश्च गौणरसाः- हास्याद्भुत-वीर-करुण-रौद्र-भयानक-बीभत्सरसाः|” परञ्च प्राचीनाचार्यैः एतेषां रसानां रसत्वं कथमपि नाङ्गीकृतम् । अस्य कारणम् आचार्यरामसागरत्रिपाठिमहोदयेन काव्यप्रकाशस्य ज्योतिष्मत्यां हिन्दीटीकायां सहजतया स्पष्टीकृतम्-“हमारे चिर अतीत के साहित्य में बाल विनोद तथा वात्सल्य को प्रधानता देकर काव्यरचना इस परिमाण में हुई नहीं थी कि उसको रस के रूप में प्रतिष्ठित किया जा सके [10] अनेनोक्तं यत्कालान्तरे मुख्यतया सूरदासप्रभृतिभिः कृष्णभक्तकविभिः वत्सलरसः पूर्णरूपेण प्रतिष्ठापितः । वात्सल्यस्य रसत्वप्राप्तये अपेक्षितानि समस्तान्यङ्गानि कृष्णभक्तैः प्रस्तुतानि किंच कृष्णबाललीलावर्णनं तथा सहृदयतयाकृतं यत् वात्सल्यस्य स्वरूपं स्वतः रसरूपतामगात्।

अस्मिन्क्रमे डा० नगेन्द्रस्य विचारोऽपि ध्यातव्यो वर्तते । वत्सलस्य अरसत्वकारणं स्पष्ट्यन् स ब्रूते-“अस्य बहूनि कारणानि सम्भवन्ति-एकमिदमनुमितं कारणम्-यद्भरतस्य रसेन सह सम्बन्धः नाट्यस्यास्ति।नाट्ये च वात्सल्यप्रमुखालम्बनस्य बालकस्योद्दीपनानां च तत्क्रीडादीनामायोजनं दुष्करमभूत्,अद्यापि तत्तथास्ति। अतो नाट्यरसेभ्यो वात्सल्यस्य व्यावहारिकदृष्टया तथैव बहिष्कारोऽभूत् यथा युद्धाभिनयादिप्रसंगानां नाट्यदृश्येभ्यः।” स च कथयति- वात्सल्यपक्षोऽवश्यं बलीयान्। वत्सलभावो मातृवृत्तेर्मनोमयोऽनुभवः,मातृवृत्तिर्नूनं जीवनस्य मौलिकी वृत्तिः,पुत्रैषणा जीवनस्य बलिष्ठा खल्वेषणा,यस्या जीवनस्य धर्मकामाभ्यां पुरुषार्थाभ्यां सह घनिष्ठः सम्बन्धः।प्रभावोऽप्यस्य स्थायितरः सार्वभौमश्च।तथास्यानुभवोऽप्यत्यन्तमुत्कटः।अतो वात्सल्यस्य रसत्वं निषेद्धुं न शक्यते,नाप्यस्य शृङ्गारादिरसेष्वन्तर्भावः समुचितः[11]वत्सलविमर्शे लब्धप्रसङ्गे एतच्चिन्त्यं यदयं रसः कैश्चिदपि रसरूपेण स्वीकृतः न वा? किञ्च काव्येषु प्रयोगो दृश्यते न वा? अथ तावत् वत्सलरसस्योद्भावनं स्थापनं प्रयोगमुदाहरणञ्च विमृशामः।

वत्सलस्योल्लेखः भरतेनापि कृतं पूर्वमिति प्रमाणयति डा०वी०राघवन् महोदयः- “Strangely we find vaatsalya introduced as a rasa  of course in midst of other rasas in the text Bharat itself-in chapter-17,second section dealing with Pathyagunas-The Text as it is- तत्र हास्यशृङ्गारयोः स्वरितोदात्तेः वीररौद्राद्भुतेषु उदात्तकम्पितैः करुणवात्सल्यभयानकेषु अनुदात्तस्वरितकम्पितैर्वर्णैः पाठ्यमुपपादयति”।[12]यैश्चापरैः संस्कृताचार्यैः स्वतन्त्ररूपेण वत्सलः स्वीकृतः  तेषु अल्लराजरूपगोस्वामिकविकर्णपूरभानुदत्तविश्वनाथादयस्सन्ति।

रसरत्नप्रदीपिकायामल्लराजः वत्सलमित्थं विवृणोति- “वत्सलं तु रसं प्राहुरन्ये सा रतिरेव सा अपत्यालिङ्गनेभावो यः पित्रोरुपजायते , सा रतिः कथिता तज्ज्ञैर्वात्सल्यं तच्च प्रकीर्तिताः”[13]हेमचन्द्रस्य काव्यानुशासनेऽपि रसोऽयं स्वतन्त्ररूपेण प्रकीर्तितः- “स्नेहो भक्तिर्वात्सल्यमिति हि रतेरेव विशेषाः। तुल्ययोः या परस्परं रतिः स स्नेहः। अनुत्तमस्य उत्तमे रतिः प्रसक्तिः,सैव भक्तिपदवाच्या।उत्तमस्य अनुत्तमे रतिः वात्सल्यम् ।”[14]

संस्कृताचार्येषु स्वतन्त्ररूपेण वत्सलरसः येन मुक्तकण्ठेनाङ्गीकृतः किञ्च तस्य सविस्तरं वर्णनं कृतं स च साहित्यदर्पणकारः आचार्यविश्वनाथ इति। यद्यपि रूपगोस्वमिना भक्तिरसभेदेषु पूर्वं प्रकीर्तितः तथापि यथा हि आचार्यविश्वनाथेन वत्सलः उपस्थापितः तथा न कैश्चिदपि। अनेन “मुनीन्द्र सम्मतो वत्सलः[15] इत्युक्त्वा इदं स्पष्टीकृतं यत् नाऽयं  केवलं तस्यैव विचारः अपितु आद्यनाट्याचार्यभरतस्य एव । साहित्यदर्पणकारः वत्सलरसं सविस्तरमित्थं परिभाषयति-

स्फ़ुटं चमत्कारितया वत्सलं च रसं विदुः।

स्थायी वत्सलता स्नेहः पुत्राद्यालम्बनं मतम्।

उद्दीपनानि तच्चेष्टा विद्याशौर्यदयादयः।

आलीङ्गनाङ्गसंस्पर्शशिरश्चुम्बनमीक्षणम्॥

पुलकानन्दवाष्पाद्या अनुभावाः प्रकीर्तिताः।

सञ्चारिणोऽनिष्टशङ्काहर्षगर्वादयो मताः।

पद्मगर्भच्छविर्वर्णो दैवतं लोकमातरः...॥”[16]

आचार्यविश्वनाथः वत्सलं स्पष्टयन् विवृणोति- वत्सलता वत्सलस्य स्थायीभावः,पुत्राद्याः आलम्बनं, तेषां क्रीडनं कूर्दनं शौर्यप्रदर्शनं शास्त्रादिज्ञानप्रदर्शनञ्चानुभावाः किञ्च अनिष्टशङ्कागर्वहर्षादयः सञ्चारिभावाः वर्तन्त इति। उदाहरणाय  काव्यप्रयोगान् प्रदर्शयन्  कालिदासप्रणीतरघुवंशमहाकाव्यस्य तद्वृत्तान्तं स्मरति यत्र हि पुत्ररघोः बाललीलां दर्शं दर्शं राजादिलीपः कञ्चिदपूर्वमानन्दमनुभवति-

यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलीम्

अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः॥”[17]

रघोः शैशवावस्थावर्णनमिदम्। धात्र्या शिक्षितः स शिशुः यदा हि अस्पष्टमक्षरं “मा”इत्यादिकं प्रथमं वचनमुवाच तच्छ्रुत्वा दिलीपः भूयो भूयो आह्लादितः भवति किञ्च धात्र्याः अङ्गुलीमवलम्ब्य यदा हि प्रथममचलत् तदा राज्ञा दिलीपेन कश्चिदपूर्वो आनन्दः अन्वभावि । अपि च यदा हि प्रणिपातशिक्षया स शिशुः श्रेष्ठान्प्रति आदौ नम्रोऽभूत् तदा  शिशोः नमनक्रियामवलोक्य राज्ञि अप्रतिमाह्लादस्य सञ्चारः सद्योऽभूत्। अत्र रघुः आलम्बन- विभावः, तथोक्तभाषणादिकमुद्दीपनविभावः, अध्याहारलभ्याऽलिङ्गनादयोऽनुभावाः, हर्षादयश्च व्यभिचारिभावाः। एतैः समुदितैः अध्याहारलभ्यो दिलीपस्य स्नेहः स्थायिभावः, सभ्येषु वत्सलरसतामापद्यते।

पुनश्चोदाहरत्याचार्यविश्वनाथः वात्सल्ये अनुजालम्बनम्-

देशे देशे कलत्राणि देशे देशे च बान्धवाः ।

तं तु देशं न पश्यामि यत्र भ्राता सहोदरः॥”

अन्यत्रापि बहूनि उदाहरणानि दरीदृश्यन्ते यत्र वत्सलरसस्य साक्षादनुभूतिर्भवति । कुमारसम्भवे पार्वत्याः कार्तिकं प्रति आत्यन्तिकः वात्सल्यपूर्णस्नेहः निश्चप्रचमवलोकनीयः–

“निसर्गवात्सल्यसौधसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा

तमेक पुत्रं जगदेक माताभ्युत्सङ्गिनं प्रस्रविणी बभूव॥”[18]

एवमेव कुमारसम्भवस्य एकादशसर्गे बहूनि पद्यानि दृश्यन्ते यानि च वत्सलमभिव्यनक्ति-

सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्वाष्पतरङ्गितायाः

विवृद्धवात्सल्यरसोत्तरायाः देव्यादशोर्गोचरतां जगाम॥[19]

इत्थं कालिदाससाहित्ये वत्सलरसस्य साक्षात्प्रयोगः बहुधा हि लभ्यते एवञ्च बहुभिर्प्रसिद्धालङ्कारिकैः यथा हि वत्सलरसः ऊरर्यकारि किञ्चास्य समर्थने स्थापने च यथा हि विविधाः विचाराः प्रस्तुताः ते नूनमिह वत्सलरसस्य रसत्वं साधयन्ति ।

परामृष्टाः ग्रन्थाः –

१.नाट्यशास्त्रम्-भरतमुनिः,सम्पादकः-पं०पारसनाथ द्विवेदी,सम्पूर्णानन्द सं०वि०वि०

२.काव्यप्रकाशः-आचार्यमम्मटः,हिन्दी व्याख्याकारः रामसागरत्रिपाठी मोतीलाल बनारसीदास

३.साहित्यदर्पणः- आचार्य विश्वनाथः, व्याख्याकारः आ० कृष्णमोहन शास्त्री,चौखम्भा सं० भवन

४.काव्यानुशासनम्- हेमचन्द्रः, मेहरचन्द लक्ष्मणदास प्रकाशन, नई दिल्ली

५.रसरत्नप्रदीपिका-अल्लराज,सम्पादकः- श्री रा०ना० दाण्डेकर, भारतीय विद्याभवन मुम्बई

६.नम्बर आफ़् रसाज्- वी०राघवन् – वसन्त प्रेस अड्यार लाइब्रेरी

७.रस सिद्धान्त- डा० नगेन्द्र –संस्कृतानुवादकः- अमीरचन्द्र शस्त्री, श्री लालबहादुर शास्त्री विद्यापीठम्

८.कालिदास ग्रन्थावली- सम्पादकः- पं०सीताराम चतुर्वेदी, उत्तरप्रदेश संस्कृत संस्थान,लखनऊ

 

——- सहायकाचार्यः (साहित्यविभागः)

श्रीरामसुन्दर संस्कृत विश्व विद्या प्रतिष्ठानम्,

( आदर्श संस्कृत महाविद्यालयः)

रमौली,दरभङ्गा, बिहार ,८४७२०१,

दूरभाषः-95259568787   panandjha1979@gmail.com

[1]नहि रसादृते कश्चिदर्थः प्रवर्तते-नाट्यशास्त्रम्-षष्ठ अध्यायः

[2]तैत्तिरीयोपनिषद्-२.७

[3]काव्यप्रकाशः- प्रथमोल्लासः

[4]साहित्यदर्पणम्- षष्ठ अध्यायः-पृष्ठ-३४

[5]नाट्यशास्त्रम्-षष्ठ अध्यायःपृष्ठ-३४

[6]काव्यप्रकाशः- चतुर्थोल्लासः–रसप्रसङ्गे

[7]नाट्यशास्त्रम्-षष्ठ अध्यायःश्लोक-१६

[8]नाट्यशास्त्रम्-षष्ठ अध्यायःश्लोक-१७

[9]काव्यप्रकाशः-४.३५

[10]काव्यप्रकाशः-पृष्ठ-२९१

[11]रससिद्धान्तः-रससंख्यानम्-पृष्ठ-२३५

[12]नम्बर आफ़् रसाज्- वात्सल्यप्रसङ्गे-पृष्ठ-११२

[13]रसरत्नप्रदीपिका-श्लोकस्ंख्या-५८

[14]काव्यानुशासनम्- द्वितीय परिच्छेदः- व्याख्या भागः-पृष्ठ-६८

[15]साहित्यदर्पणः- तृतीय परिच्छेदः

[16]साहित्यदर्पणः- तृतीय परिच्छेदः श्लोक-२५१-५२-५३

[17]रघुवंशम्-तृतीय सर्गः-श्लोक-२५

[18]कुमारसम्भवम्- ११ .२३

[19]कुमारसम्भवम्- ११ .१९[/vc_column_text][/vc_column][/vc_row]