रघुवंशे षष्ठसर्गे व्याकरणविशेषाः।

सुविदितमेवैतत् समेषां विदुषां यत् महाकविः कालिदासः सर्वेषां कवीनामादर्शभूत इति। तेन प्रणीतानि त्रीणि काव्यानि पञ्चसु महाकाव्येषु स्थानमापन्नानीत्येव कवेः, तस्य काव्यानां च वैशिष्ट्यमवगाहयति। किन्तु तथा उत्कृष्टानां काव्यानामध्ययने, तत्र विद्यमानानां चमत्कृतीनामवगमने च सामर्थ्यम् उत्तमस्य आलङ्कारिकस्यैव स्यात्। अहं तु नालङ्कारिकः। तथा सति मम सम्बन्धः कथं वा अनेन काव्येन स्यादिति विचारे, यतः तस्य काव्यानां सर्वजनीनत्वं, ममापि सम्बद्धः कश्चन विषयो भवेदेवेति मत्वा रघुवंशे व्याकरणविशेषाः इति शीर्षकः प्रबन्धः उपस्थापनीय इति कश्चन प्रयासोयम्। यद्यपि “उपमा कालिदासस्य भारवेरर्थगौरवमि”त्याद्यभियुक्तोक्त्या कालिदासकाव्यानि उपमालङ्कार-विषये एव प्रसिद्धिं गतानि, माघकाव्यानि तावत् व्याकरणप्रयोगानां विषये सुप्रसिद्धानि सन्ति, तथापि रघुवंशेपि व्याकरणविशेषानां कृते न्यूनता तु नास्ति।

रघुवंशे व्याकरणविशेषा इति शीर्षकं सुश्राव्यं तु वर्तते, किन्तु तच्छीर्षकान्तर्गततया कोंशो वक्तव्य इत्येव महती संशीतिः। यतो हि लोके प्रयोगाः द्विविधाः – पाणिनीयाः अपाणिनीयाश्चेति। यदि कविना अपाणिनीयाः प्रयुक्ताश्चेत् तर्हि तत्र जनानामादरो नैव भवतीति ते अत्र विशेषत्वेन निरूपयितुं नैव शक्यन्ते। यदि पाणिनीयाः कविना प्रयुक्ताश्चेत् तर्हि सर्वैरपि पाणिनीयाः एव प्रयोगाः प्रयोक्तव्याः, तेषामेव साधुत्वात्। तथा सति कोत्र विशेषः इति प्रश्नो बाधते। तस्मात् व्याकरणविशेष इतिशब्दार्थ एव ग्रस्तोस्मि। तस्मात् सम्यग् विचिन्त्य प्रथमतः व्याकरणविशेषशब्दार्थं निर्धार्य अनन्तरं काव्यगतविशेषानधिकृत्य कथयाम इति प्रयासः कृतः।

सामान्यतया सर्वेपि जनाः पाणीनीयप्रयोगानेव प्रयुञ्जाना अपि, तेषां व्याकरणसम्मतिः कथमिति न जानन्ति। केषांचन प्रयोगानां विषये व्याकरणसम्मतिं जानन्ति, केषांचन विषये प्रयोगमात्रं जानन्ति, तस्य प्रयोगस्य व्याकरणसम्मतिः कथमिति तु न जानन्ति।  यथा इग्वर्णस्य अचि परे यणादेशः कर्तव्यः यथा “इत्याह” इत्याद्युदाहरणेषु इति जानन्तो जनाः “भू औ” इत्यत्रापि इग्वर्णस्य अच्परकत्वात् यणादेशेन भाव्यं खलु, कथं तर्हि भुवौ इति रूपं लोके प्रयुज्यते इति प्रश्ने लौकिकाः, पामराः अनधीतव्याकरणाः काव्यमात्राध्ययनतत्पराश्च अवश्यमत्र कश्चन विशेषोस्ति येन यणादेशो नागतः इति मन्यन्ते।

एवमेव कुम्भकारः  भारहारः इत्यादिप्रयोगान् प्रयुञ्जाना जनाः तत्र “कर्मणि उपपदे सति कुम्भं करोति इत्यर्थे धातोः अण् प्रत्ययेन कम्भकार इत्यादिरूपाणि सिद्ध्यन्ति” इति तु जानन्ति। किन्तु तुल्यया रीत्या गङ्गां धरतीत्यर्थे गङ्गाधार इति, भुवं धरतीत्यर्थे भूधार इति कुतो न भाव्यं, कथं वा लोके गङ्गाधरः, भूधर इत्येव प्रयुज्यते इति प्रश्ने अनधीतव्याकरणाः मौनं वहन्ते, अस्ति तत्र कश्चन व्याकरणविशेषो येन रूपे वैलक्षण्यमस्तीति च मन्यन्ते।

उपर्युक्तानि उदाहरणान्याश्रित्य  एवं निर्धारयितुं शक्यते यत् अत्र व्याकरणविशेषो नाम अनधीतव्याकरणैः सामान्यतया ज्ञातस्य विषयस्य यदि किञ्चित् अपवादसूत्रमस्ति, यत् लौकिकाः अनधीतव्याकरणाश्च न जानन्ति, तादृशसूत्रसिद्धप्रयोगा “व्याकरणविशेष” शब्देन विवक्षितुं शक्यते इति ममाभिप्रायः। तदनुसारेण रघुवंशे के प्रयोगाः सन्ति, ये च प्रयोगाः अपवादसूत्रैः सामान्यजनाज्ञातैश्च सिद्ध्यन्ति इति परिशील्य तादृशानामत्र लेखे सङ्ग्रहः क्रियते।

  1. तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्ष्यः।

        सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव।।[1]

मेघपङ्क्तिषु विद्युता तरणिरिव स्वयम्वरमञ्चेषु उपविष्टेषु प्रत्येकं राजसु  श्रियः स्वरूपं स्वप्रभया विभक्तमिव प्रकाशते इति श्लोकस्यार्थः। अत्र को विशेषः इत्युक्ते व्यरुचदिति कालिदासेन प्रयुक्तम्। वि इत्युपसर्गपूर्वकः “रुच दीप्ता”विति धातोः लुङ्न्तं रूपमेतत्। तस्य च धातोः आत्मनेपदित्वात् आत्मनेपदिनां च धातूनां लुङ्लकारे ऐधिष्ट इतिवत् अरोचिष्ट इति भाव्यम्। तथा सति कथमत्र अरुचदिति परस्मैपदप्रयोगः इति शङ्का जायते। अत्रैकेन “द्युद्भ्यो लुङि”[2] इत्यनेन पाणिनीयसूत्रेण द्युतादिगणे पठितेभ्यो धातुभ्यः विशिष्य लुङ्लकारे विकल्पेन परस्मैपदं विहितमस्ति। रुच दीप्याविति धातुश्च द्युतादिगणे पठित इति तस्य एतादृशमपि रूपं सिद्ध्यतीत्यमत्र विशेषः।

  1. मनुष्यवाह्यं चतुरस्रयानमध्यास्य कन्या परिवारशोभि।

      विवेश मञ्चान्तारराजमार्गं पतिंवरा क्लृप्तविवाहवेषा।।[3]

स्वयंवरा इन्दुमती विवाहयोग्यं वेषं विधाय सखीजनैः सह नरवाह्यं यानमारुह्य मञ्चमध्ये निर्मितं मार्गमाविशदित्यर्थः। आरम्भे मया प्रदर्शितोदाहरणरीत्या कम्भं करोतीति कुम्भकारवत् पतिं वृणोतीति पतिवार इत्येव प्रयोगः स्याद्। तथा सति कथमत्र पतिंवरेति रूपं प्रयुक्तमिति चेत् “संज्ञायां भृतृवृजिधारिसहितपिदमः”[4] इत्यनेन पाणिनीयसूत्रेण उत्सर्गतया प्राप्तमणं बाधित्वा विशेषेण खच्प्रत्ययो विहितः। तेनेदं रूपं सिद्धम्। खच्प्रत्ययमहिम्नैव पतिमिति मुमागमोपि सिद्ध्यति। अयमत्र विशेषः।

  1. कामं नृपाः सन्तु सहस्रशोन्ये राजन्वतीमाहुरनेन भूमिम्।

      नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः।।[5]

यथा नक्षत्रताराग्रहादिभिः युक्तापि रात्रिः चन्द्रमसैव ज्योतिष्मतीति कथ्यते तथैव भूमण्डले अनेकेषां राज्ञां विद्यमानत्वेपि अनेन राज्ञा परन्तपेणैव राजन्वतीति प्रोच्यते इति श्लोकार्थः। अत्र च श्लोके राजा अस्याः भूमेः अस्तीत्यर्थे मतुप्प्रत्ययं च कृत्वा राजन्वतीति प्रयोगः कृतः। किन्तु राजनिति शब्दः नकारान्तः। नकारान्तानां मतुपि कृते नलोपः प्रातिपदिकान्तस्येति[6] सूत्रेण नलोपः इष्यते। यथा “दण्डिमती यज्ञशाला” इत्यादिषु। तद्वत् अत्रापि राजवतीत्येव प्रयोक्तव्यम्। तत्कथं राजन्वतीति प्रयुक्तमिति चेत् केवलमस्याः भूमेः राजवत्त्वप्रतिपादने तात्पर्यं नास्ति। यतोयं उत्तमो राजा तस्मात् अस्याः भूमेः न केवलं

राजवत्त्वमपि तु सुराजवत्त्वं प्रतिपादनीयमस्ति। तथा चेत् “राजन्वान् सौराज्ये”[7] इति सूत्रेण तादृशार्थविवक्षणे नलोपाभावो निपातितः। तस्मात् अस्य प्रयोगस्य साधुत्वम्। व्याकरणसम्मतप्रयोगेण अर्थविशेषः प्रतिपादितः महाकविना।

  1. अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे।

      प्रासादवातायनसंश्रितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम्।।[8]

       विवाहयोग्येनानेन परन्तपेन साकं यदि विवाहं कर्तुमिच्छसि चेत् तर्हि नगरप्रवेशसमये पुष्पपुराट्टालिकासु प्रविश्य गवाक्षमार्गेण अवलोकयन्तीनां वनितानां लोचनोत्सवं कुरु इति श्लोकार्थः। अत्र च श्लोके “वरितुं योग्य” इत्यर्थे पाणिनीयेन सूत्रेण तावत् अनीयर् प्रत्यये सति “वरणीयः” इत्येव प्रसिद्धिः। कथं तर्हि वरेण्यः इति प्रयुक्तम्। तदनुसारिभिश्चास्मिभिरपि “विद्वद्वरेण्याः” इत्यादयः प्रयुज्यन्ते। पाणिनिव्याकरणरीत्या अस्य असाधुत्वेपि उणादिसूत्ररीत्या तावत् प्रयोगोयं सिद्ध्यति। तथा हि “वृञ एण्य”[9] इत्यौणिदिकेन सूत्रेण वृञ्धातोः एण्यप्रत्यये कृते रूपमिदं सिद्ध्यतीत्यत्र विशेषः।

  1. तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के।

      बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम्।।[10]

उत्कृष्टशरीरसौन्दर्यायाः तस्याः इन्दुमत्याः मनः बन्धुजनप्रसादके शत्रुनाशके तस्मिन्नवन्तिनाथे तथैव न संलग्नं यथा निशायां विकसनशीलायाः कुमुदिन्याः दिवा कमलविकासकं पङ्कशोषकं सूर्यं प्रति स्पृहा न जायते इति। अत्र च कुमुदिनी इत्यर्थे कुमुदा अस्यां सन्तीत्यर्थे कुमुदशब्दात् मतुपं कृत्वा कुमुद्वतीतिशब्दः साधनीयः। किन्तु कुमुदशब्दस्य अदन्तत्वात् धनवती इव अत्रापि कुमुदवतीति भाव्यम्। तत्कथमकारलोपं कृत्वा कुमुद्वतीति

 

 

प्रयोगः उपपद्यते इति चेत् अत्रापि “कुमुदनडवेतसेभ्यो ड्मतुप्”[11] इति सूत्रेण ड्मतुप् इति प्रत्ययः कृतः, न तु मतुप्। तस्मात् प्रत्ययस्य डित्वात् टिलोपे उक्तं रूपं सिद्ध्यति इति विशेषः।

  1. तावत् प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम्।

      वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम्।।[12]

नवविवाहितो रघुपुत्रो अजः स्वपत्न्या सह राजमार्गे प्रविष्टः। तदा सम्यगभिनवपुष्पाणां वर्षणं भवति स्म। इन्द्रधनुरिव विभिन्नरङ्गरञ्जितानि तोरणानि सुसज्जितानि आसन्। तथा पताकाच्छायया सूर्यातपः प्रच्छन्नो बभूवेति श्लोकस्यार्थः। अत्र च श्लोके ध्वजस्य छाया इत्यर्थे ध्वचछायमिति ह्रस्वान्तः शब्दः प्रयुक्तः। वस्तुतः अस्य षष्ठीतत्पुरुषत्वात् “परवल्लिंगं द्वन्द्वतत्पुरुषयोः”[13] इत्यनुशासनेन स्त्रीलिङ्गेन भाव्यम्। तथा सति दीर्घान्ततयैव श्राव्यं स्यात्। किन्तु श्रूयते चात्र ह्रस्वान्तता। तथा च कथमयं प्रयोग इति शङ्का जायते। अत्रापि “छाया बाहुल्ये”[14] इति पाणिनीयेन सूत्रेण छायान्ततत्परुषस्य नपुंसकत्वविधानात् ह्रस्वो नपुंसके प्रातिपदिकस्येति[15] सूत्रेण ह्रस्वश्च सिद्ध्यति।

अस्त्यत्र अन्यो व्याकरणविशेषः। तेन च सूत्रेण सर्वदा न नपुंसकत्वं विहितम्। अपि तु पूर्वपदार्थस्य बाहुल्ये गम्ये एव। एवं च प्रकृते नपुंसकलिङ्गस्य दर्शनात् “ध्वजानां छाया” इत्येव विग्रहः कार्यः। न तु “ध्वजस्य छाया” इति गम्यते। तस्मादेव हेतोः श्लोके छायया सूर्यातपस्य प्रच्छन्नत्वमुक्तं सङ्गच्छते। अन्यथा एकस्य ध्वजस्य छायया तावात् तदसंभवि एव।

  1. रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण।

      काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम्।।[16]

कामदहनान्तरं रतिप्रार्थनया भगवता शिवेन प्रदत्तशरीरं कामदेवमिव अतिसुन्दरावयवमुपस्थितं कुमारमजमवलोकयतां भूपालानां मनः इन्दुमतीवरणात् निराशं जातमिति श्लोकस्यार्थः। अत्र च श्लोके व्याकरणशास्त्रार्थ एव कर्तुं शक्यते। यतो हि अस्ति कश्चन नियमः “सापेक्षमसमर्थवदि”ति। पदार्थान्तरसापेक्षवाचकस्य समासघटकत्वं नास्तीति नियमस्यार्थः। यथा राज्ञः पुरुषः इति समासो भवति। किन्तु ऋद्धस्य राज्ञः पुरुष इत्यत्र तु राज्ञः ऋद्धपदार्थसापेक्षत्वात् न समास इति सिद्धान्तः। तथैव अनुभवश्च। इदमेव “समर्थः पदविधि”रि[17]ति सूत्रेण बोध्यते च।

एवं सति प्रकृते श्लोके गृहीतानुनयेन इत्यत्र गृहीतपदार्थस्य रतिपदार्थेन सह सापेक्षत्वात् कथं समासः कृतः इति प्रश्नो बाधते। किन्तु सापेक्षमसमर्थवत् इति नियमं स्वीकुर्वद्भिः वैयाकरणैरेव नित्यसापेक्षस्थलेषु तस्यापवादः स्वीकृतः। यथा “देवदत्तस्य गुरुकुलमि”त्यादिषु। तत्र च युक्तिः वर्तते अर्थगमकत्वाच्छब्दस्येति। एवं प्रकृतेपि सापेक्षत्वेपि गमकत्वात् समासः इति उपपादनीय इत्ययमन्यतमो व्याकरणविशेषः।

उपरि दर्शितरीत्या सम्पूर्णे रघुवंशे तु बहूनि उदहरणानि लभ्येरन्। मया तु यथामति यथाशक्ति च उदाहरणानां सङ्ग्रहः कृत इति विस्तरभयात् विरम्यते।

बी.वी.वेङ्कटरमणः

सह-प्राध्यापकः, कर्णानटकसंस्कृतविश्वविद्यालयः

 

 

 

 

[1] रघुवंशः – षष्ठः सर्गः- पञ्चमः श्लोकः।

[2] अष्टाध्यायी 1-3-91.

[3] रघुवंशः – षष्ठः सर्गः- दशमः  श्लोकः।

 

[4] अष्टाध्यायी- 3-2-46

 

[5] रघुवंशः – षष्ठः सर्गः- द्वाविंशः  श्लोकः।

 

[6] अष्टाध्यायी- 8-2-07

 

[7] अष्टाध्यायी- 8-2-14

 

[8] रघुवंशः – षष्ठः सर्गः- द्वाचत्वारिंशः  श्लोकः।

 

[9] उणादिसूत्रम्- 378

 

[10] रघुवंशः – षष्ठः सर्गः- षट्त्रिंशः  श्लोकः।

 

[11] अष्टाध्यायी- 4-2-87।

 

[12] रघुवंशः – सप्तमः सर्गः- चतुर्थः  श्लोकः।

 

[13] अष्टाध्यायी- 2-4-26।

 

[14] अष्टाध्यायी- 2-4-22।

 

[15] अष्टाध्यायी- 1-2-47।

 

[16] रघुवंशः – षष्ठः सर्गः- द्वितीयः  श्लोकः।

 

[17] अष्टाध्यायी- 1-2-47।