योगदर्शनस्य विलक्षणं मोक्षस्वरूपम्

[rev_slider_vc alias=”about-3″]

योगदर्शनस्य विलक्षणं मोक्षस्वरूपम्

योगदर्शनस्य विलक्षणं मोक्षस्वरूपम्

सारांशः (Abstract)

धर्मार्थकाममोक्षेषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमपुरुषार्थः। बहवः दार्शनिकाः स्वमतानुसारं मोक्षस्वरूपं भेदेन उपपादितवन्तः। तस्यां सरणौ योगिनः अपि अन्यदार्शनिकानां मोक्षस्वरूपं खण्डयित्वा स्वमतानुसारं मोक्षस्वरूपम् उपपादयन्ति। अस्मिन् शोधपत्रे योगिनः अन्यदार्शनिकेषु दोषम् उद्भावयन्तः स्वमते तान् दोषान् वारयित्वा मोक्षस्वरूपं कथं वर्णयन्तीति प्रदर्श्यते।

उपक्रमः (Introduction)

अस्य दर्शनस्य प्रवर्तकाः पतञ्जलिमहर्षयः सूत्रकाराः। तस्मिन् सूत्रग्रन्थे व्यासमुनिभिः भाष्यम् आरचितम्। भोजदेवाचार्यैः अन्यैश्च सूत्रव्याख्यानानि आरचितानि।  एते स्वग्रन्थे अन्यदार्शनिकानां मतानुसारम् आत्मवादं मोक्षस्वरूपञ्च उपपाद्य तान् मतान् खण्डयन्ति। यतः तत्तन्मते आत्मवादानुरोधेनैव मोक्षस्वरूपम् निधार्यते।अतः आदौ आत्मवादम् उपपाद्य मोक्षस्वरूपम् उच्यते। अत्र पूर्वपक्षत्वेन बौद्धाः, नैय्यायिकाः, जैनाः, शैवाः, वेदान्तिनः च भवन्ति। एतान् खण्डयित्वा योगाचार्याः स्वमतानुसारं मोक्षस्वरूपम् उपपादयन्ति।

॥विज्ञानवादिबौद्धानां खण्डनम्॥

अत्र आदौ विज्ञानवादिबौद्धानां मतानुसारम् आत्मवादं मोक्षस्वरूपञ्च उपपाद्य तस्य खण्डनं क्रियते। तथा च विज्ञानवादिबौद्धाः संविदेव आत्मा इति अङ्गीकुर्वन्ति। सा च संवित् द्विप्रकारिका वर्तते[i]। ते च आलयसंवित्, प्रवृत्तिसंवित् इति। या अहमाकारिका संविद्धारा वर्तते, सा एव आलयसंवित् इत्युच्यते। आलयसंवित्तु स्वप्रकाशिका। एवञ्च तस्याः आलयसंविद्धारायाः उच्छेदः मोक्षः इति आत्मवादानुरोधेन मोक्षस्वरूपम् उपपादयन्ति।

अत्र भोजदेवाचार्याणाम् अयम् अभिप्रायः – यदि भवद्भिः आलयविज्ञानस्य आत्मत्वम् उच्यते तर्हि कश्चित् क्लेशो भवति। कः क्लेशः इति चेत्  –  उच्यते। भवद्भिः आलयविज्ञानं क्षणिकम् इत्यङ्गीक्रियते। तथा च क्षणिकस्य आलयविज्ञानस्य कथम् आत्मत्वं न युज्यते। तथाहि लोके यः कर्म कुरुते स एव फलभोक्ता। यदि एकः कर्म कुरुते अपरः फलं भुनक्ति इति उच्यते, तर्हि कर्मणः कर्मफलस्य च वैलक्षण्यं भवति। तेन च लोकव्यवहारस्य उच्छेदः भवति। प्रथमक्षणे उत्पन्नः आत्मा द्वितीयक्षणे नष्टो भवति। पूर्वक्षणे उत्पन्नं ज्ञानं [आत्मा] तस्मिन्नेव क्षणे कर्म कृत्वा नष्टो भवति। तस्मात् तेन कृतस्य कर्मणः फलं द्वितीयक्षणे उत्पन्नः आत्मा भुङ्क्ते इति स्यात्। किञ्च एवमुक्ते कर्मतत्फलव्यवस्थायाः भङ्गो भवति।

अपरोपि क्लेशः बोद्धमते। एकस्याम् एव व्यक्तौ अनुभवः तज्जन्यसंस्कारः ततः स्मृतिः भवितुमर्हति। तथा च अनुभवस्मृत्योः सामानाधिकरण्यात् एकेन अनुभूयते अपरेण स्मर्यते इति स्थितिः न दृश्यते। यदि क्षणिकज्ञानस्य आत्मत्वं स्वीक्रियते तर्हि एकेन अनुभूयते अपरेण स्मृर्यते इति स्यात्। तस्मात् क्षणिकविज्ञानम् आत्मा भवितुं नार्हति।

अपि च क्षणिकविज्ञानस्य आत्मत्वे, प्रथमक्षणीयाऽत्मा द्वितीयक्षणे नश्यति इति स्यात्। तथा सति आत्मनः परिणामित्वम् आयाति। यदि आत्मनः परिणामित्वं तर्हि आत्मनः अनित्यत्वप्रसङ्गो भवति। अपि च प्रथमक्षणे ज्ञानम् उत्पन्नम्, तस्य विषयः दुःखमिति स्वीकुर्मः।

अपि च क्षणिकविज्ञानस्य आत्मत्वे दुःखसमकालीनसुखानुभवः न शक्यः उपपादयितुम्। अपि च अवस्थाभेदेन अवस्थावतः भेदः वक्तव्यो भवति। तेन फलतः आत्मनः परिणामित्वम् एव पर्यवस्यति इति भोजदेवाचार्याः वदन्ति। तथा च आत्मनः परिणामित्वे अनित्यत्वे च अभ्युपगते सति तस्य चेतनत्वं वक्तुं न शक्यते। यतः परिणामित्वम् अनित्यत्वं च अन्योन्यतया जडेन सह संबद्धम्। यदि आत्मनः परिणामित्वम् अनित्यत्वं च उच्यते तर्हि आत्मनः जडत्वम् अभ्युपगन्तव्यं भवति। पुनश्च भवद्भिः संविदेव आत्मा इत्युच्यते। एवं सति संविदुच्छेदेन मोक्षः इति यः अभ्युपगमः वर्तते भवतां मते तस्य विरोधः स्यात्। यतोहि स्वात्मनः उच्छेदः केनचिदपि न इष्यते। आत्मनः उच्छेदः पुरुषार्थो भवितुं नार्हति। तथा च अपुरुषार्थः आत्मोच्छेदः मोक्षः भवितुं नार्हति। यतः सर्वेऽपि जन्तवः यत् इच्छति स एव मोक्षः। तस्मात् भवतां मते यः मोक्ष इत्यङ्गीक्रियते आत्मनः उच्छेदः तस्य मोक्षस्वरूपत्वेन कथनं न सम्भवति। इत्येवं विज्ञानवादिबौद्धानां मतं भोजदेवाचार्यैः खण्ड्यते[ii]

॥जैनमतखण्डनम्॥

एवमेव जैनमतानुसारम् आत्मवादं मोक्षस्वरूपमं च उपपाद्य खण्डयन्ति। तथा च जैनाः आत्मनः मध्यमपरिमाणत्वम् अभ्युपगच्छन्ति। एतेषां मते आत्मनः न अणुपरिमाणत्वं नापि विभुपरिमाणत्वम्। अपि च आत्मनः मध्यमपरिमाणत्वमेव स्वीक्रियते। कुतः आत्मनः अणुपरिमाणत्वं विभुपरिमाणत्वं च न स्वीक्रियते इत्यत्र कारणं प्रदर्श्यते। यदि आत्मा विभुपरिमाणः स्यात् तर्हि सर्ववस्तुसंयोगी भवेत्। एवं स्थिते एकस्य दुःखानुभवे सति सर्वेषामपि दुःखानुभवप्रसङ्गः। एकस्य सुखानुभवे सर्वस्यापि सुखानुभवप्रसङ्गः स्यात्। तथा च घटपटादिविषयसन्निकर्षे सति समेषां पदार्थानां युगपत् ज्ञानं स्यात्। इत्येवम् आत्मनः विभुपरिमाणाङ्गीकारे दोषाः सम्भवन्ति। तस्मात् आत्मनः विभुपरिमाणत्वं न स्वीक्रियते। किञ्च यदि आत्मनः अणुपरिमाणत्वस्वीकारः तर्हि के दोषाः भवन्ति इति दर्शयन्ति। लोके दीर्घचष्कुलीभक्षणन्यायवत् एकस्यैव आत्मनः दर्शनभक्षणश्रवणादिक्रियासु युगपत् तत्सामर्थ्यगत-इन्द्रियैः च संबन्धः दृश्यते। आत्मनः अणुपरिमाणत्वे अयम् अनुभवः उपपादयितुं न शक्यते। तस्मात् आत्मनः मध्यमपरिमाणत्वम्। एवं स्वीकृते एते दोषाः न सम्भवन्ति। यतः यावान्देहः वर्तते तावान् आत्मनः परिमाणत्वं भवति इत्युच्यते। तथाहि मषकस्य यावान्देहः तच्छरीरव्यापकः आत्मा अपि तावान् एव भवति। गजशरीरं यावत् वर्तते तच्छरीरव्यापकः आत्मा अपि तावत् परिमाणो भवति। इत्येवम् आत्मनः मध्यमपरिमाणत्वम् उपपादितम्। तथा च मोक्षोऽपि एतन्मतानुसारं कीदृशं भवतीति उच्यते। एतेषां मते अलोकाकाशगमनमेव मोक्षः इत्युच्यते। तत्र च प्रमाणम् –

गत्वागत्वानिवर्तन्ते चन्द्रसूर्यादयोग्रहाः।     अद्यापिननिवर्तन्तेत्वलोकाकाशमागताः[iii]इति।

अत्र उच्यते –

अलोकाकाशमागताः चन्द्रसूर्यादयः ये ग्रहाः ते यथा पुनः न निवर्तन्ते तद्वत् तत्रगताः अपि मनुष्याः न कदापि निवर्तन्ते। इति अस्याः कारिकायाः अर्थः।

  एवञ्च अलोकाकाशगमनमेव मोक्षः इति जैनाः अङ्गीकुर्वन्ति। अत्र भोजदेवाचार्याणां कः अभिप्रायः इति वक्ष्यते। जैनैः आत्मनः मध्यमपरिमाणत्वं स्वीक्रियते। यदि एवं स्वीक्रियते तर्हि शरीरनाशे सति तदवच्छिन्नस्य आत्मनः अपि नाशः स्यात्। कुतः इति चेत् – मध्यमपरिमाणः सर्वदा अनित्यः। यदि आत्मनः परिणामिता स्यात् तर्हि आत्मनः जडत्वम् अभ्युपगन्तव्यं स्यात्। तथा च पूर्वोक्तवत् परिमाणत्वम् अन्योन्यतया जडेन सह संबद्धम् इति। तस्मात् आत्मनः जडत्वं स्वीकर्तव्यं भवति। एवञ्च जैनानां मते आत्मस्वरूपत्वेन निगदितमेव सम्यक् नास्ति इति कृत्वा तदनुरोधेन मोक्षोऽपि स्पष्टमुपपादयितुं न शक्यते[iv]

॥अद्वैतमतखण्डनम्॥

इतः परं वेदान्तमतस्य खण्डनं भोजदेवाचार्यैः क्रियते। तथा च वेदान्तमतानुसारम् आत्मवादम् आपाततः दृष्ट्वा तदनन्तरं मोक्षस्वरूपम् उपपाद्यते।   वेदान्तमतानुसारं सच्चिदानन्दस्वरूपमेव आत्मनः स्वरूपम् इति उच्यते। तद्रूपेणावस्थानं मोक्षः इत्युच्यते। इदं न युक्तम्। कुतः इति चेत् –आत्मा न आनन्दस्वरूपः। यतः अत्मनः आनन्दः औपाधिकः। वस्तुतः पुरषस्य आनन्दस्वरूपत्वं नास्ति। तथा च आत्मा कीदृशः? अखण्डस्वगतभेदहीनः । अर्थात् आत्मनः सदृशम् अन्यत् किमपि नास्ति। एवम् एतादृशे आत्मनि चिद्रुपत्वं वा आनन्दस्वरूपत्वं वा नैव सम्भवति। कुतः इति चेत् उच्यते सांख्यमतानुसारं प्रकृत्या एव जगदिदं सृष्टम् इत्युच्यते। सा च प्रकृतिः इति कथ्यते। तस्याः प्रकृत्याः गुणत्रयं वर्तते। सत्वरजतमोगुणाः। किञ्च एतेभ्यः सत्वरजतमोगुणेभ्यः सृष्टिः जाता। तथा च सत्वगुणस्य आनन्दः कार्यं भवति। तस्मात् कारणात् अयम् आनन्दः आत्मनि भवितुं नार्हति। यतः या जडा प्रकृतिः वर्तते, तया विभिन्नः पुरुषः [आत्मा ] भवति। तथा च सत्वगुणः प्रकृतेः अंशः। एवं तस्मात् जायमानः आनन्दः प्रकृत्या सृष्टे जगति वर्तते। यदि सत्वगुणेन जायमानः आनन्दः आत्मनि वर्तते इत्युच्यते तर्हि निर्धर्मकः आत्मा, सधर्मको भवति। अर्थात् धर्मसहितः आत्मा इति वक्तव्यं भवति। वस्तुतस्तु आत्मनः निर्धर्मकत्वम् अभ्युपगम्यते अद्वैतिनापि।

अपि च अन्तःकरणे सुखं जायते। तदा “मयि सुखम् उत्पन्नम्” इति ज्ञानम् उत्पद्यते। तथा च ज्ञानविषयत्वात् सुखं ज्ञेयं भवति। ज्ञेयन्तु ज्ञानं विना न भवति। एवमुक्ते ज्ञानं भिन्नं, ज्ञेयं भिन्नम् इति भिन्नत्वेन अभ्युपगमः कर्तव्यः भवति। ज्ञेयव्यतिरिक्तस्त ज्ञानस्य अभ्युपगमे अद्वैतहानिः। अपि च अत्र अद्वैतिभिः अत्मा अज्ञानस्वरूपम् इति अङ्गीक्रियते। यत् स्वरूपं वर्तते तस्य नाशः न कदापि भवति। तथा च माया परब्रह्मणः स्वरूपम् इत्युच्यते। माया नाम अज्ञानम्। तदेव परब्रह्मणः स्वरूपम् इति उक्ते तस्य अज्ञानस्य नाशः न कदापि भवति। यदि भवद्भिः अज्ञानस्य निवृत्तिरेव मोक्षः इत्युच्यते तर्हि स्वरूपस्य निवृत्तिः एव मोक्षः इति स्यात्। तच्च न संभवति इत्यस्मात् भवद्भिः या अज्ञाननिवृत्तिः मोक्षस्वरूपत्वेन अङ्गीक्रियते तस्याः मोक्षस्वरूपत्वं भवितुं नार्हति इति अद्वैतीनामतमपि खण्डितम्[v]

॥नैय्यायिकानां खण्डनम्॥

इतः परं नैयायिकानाम् आत्मवादं मोक्षस्वरूपञ्च उपपाद्य तस्य खण्डनं क्रियते।न्यायदर्शनस्य सिद्धान्तानुरोधेन ज्ञानस्य अधिकरणम् आत्मा। तथा च आत्मनि समवायसंबन्धेन ज्ञानं जायते। अस्य कः अभिप्रायः इति चेत् आत्मा ज्ञानस्य अधिकरणं न तु ज्ञानस्वरूपमात्मा इति। आत्मा ज्ञानस्वरूपं न इत्यस्य कोऽभिप्रायः इति चेत् आत्मा जडस्वरूपः इति। तथा च एतैः आत्मनः चेतनत्वं न स्वीकृतम्। एवं स्थितौ आत्मनः चेतनत्वं कथम् इति चेत् आत्ममनस्संयोगेन जायते। इदमेव नैयायिकानाम् आत्मस्वरूपम्। इदानीम् एतेषां मतानुसारं किं मोक्षस्वरूपम् इति चेत् उच्यते। अत्र अविद्यामूलकमिथ्याज्ञानवशात् आत्मनि अष्टौ विशिष्टगुणाः संभवन्ति। यदा सम्यक् ज्ञानेन अज्ञानस्य निवृत्तिः भवति तदा आत्मनि आरोपिताः गुणाः अपि निवर्तन्ते। तथा च मिथ्याज्ञाननिवृत्तिरेव मोक्षः इति अभ्युपगम्यते।

अत्र भोजदेवाचार्याणां कः अभिप्रायः इति चेत्, यदि आत्मा जडः तर्हि कालदिगादयः अपि जडाः एव। इदानीम् उभयोः जडत्वात् तेभ्यः भिन्नः आत्मा इति निरूपणीयम्। तर्हि तत् कथं दर्श्यते इति चेत्, आत्मनि विद्यमानात् नित्यत्वात् व्यापकत्वाच्च। एतौ अंशौ तेभ्यः आत्मानं व्यावर्तयति। तस्मात् आत्मनः भेदः एताभ्यां न भवति। तर्हि कालदिगादिभ्यः आत्मा भिन्नः इति दर्शनीयः चेत् कः धर्मः वक्तुं श्क्यते इति स्थितौ चेतनत्वं वक्तव्यम् । तथा च इदं चेतनत्वम् आकाशदिगादिषु न वर्तते, तस्मात् चेतनत्वम् आत्मनः लक्षणम् इति उक्ते योगमतप्रवेशप्रसङ्गो भवति। नैयायिकैः तु आत्मनः जडत्वम् अभ्युपगम्यते इति कृत्वा तदाधारितमोक्षस्वरूपम् उपपादयितुं न शक्यते। तस्मात् भवतां मते मोक्षस्वरूपं सम्यक् नास्तीति इति नैयायिकानां मतमपि खण्डितम्[vi]

॥शैवमतखण्डनम्॥

इतः परं शैवमते आत्मवादं मोक्षस्वरूपञ्च उक्त्वा तन्मतस्य खण्डनं योगाचार्यैः क्रियते। तत्र एवमुच्यते सम्यग्ज्ञानेन विमर्शस्य उच्छेदो भवति। विपर्ययज्ञानं नाम मिथ्याज्ञानम् इत्यर्थः। सः विमर्शः कुत्र उत्पद्यते इति चेत् अन्तःकरणे उत्पद्यते। “इत्थं भूतः अहम्” इत्येवं भूतः विचारः एव विमर्शः। अत्र अन्तःकरणे यः विचारः उत्पद्यते तत्र यः “अहम्” प्रत्ययः जायते, तेन अभिन्नः आत्मा इति शैवाः वदन्ति। परन्तु “अहम् इत्थं भूतः” इति ज्ञानम् मिथ्या वर्तते। कुतः इति चेत्, अयं विमर्शः विपर्ययज्ञानेन उत्पन्नः। विपर्ययज्ञानं च अज्ञानस्वरूपम्। तेन अज्ञानेन उत्पन्नः विमर्शः इति कृत्वा तदपि मिथ्या एव भवति। तथा च यः विमर्शः सः बुद्धिगतः न तु  पुरुषगतः। एवञ्च या एषा निश्चयात्मिका वृत्तिः वर्तते सा बुद्धेः एव भवति न तु पुरुषस्य। तस्मात् विमर्शः बुद्धेः एव न आत्मनः भवति इत्युच्यते। अयञ्च यः विमर्शः सः चित्तस्य परिणामः। यदि परिणामित्वं पुरुषे अभ्युपगम्यते तर्हि पुरुषस्य जडत्वं वक्तव्यं भवति। एवञ्च पुरुषस्य जडत्वे उक्ते शैवाः तन्नाङ्गीकुर्वन्ति। तस्मात् विमर्शरूपः पुरुषः भवितुं नार्हति। तथा च आत्मस्वरूपमेव सम्यक् न उपपादितम् इति कृत्वा तदनुरोधेन मोक्षोऽपि निर्धारयितुं न शक्यते[vii]

उपसंहारः (Conclusion)

॥योगाचार्याणां स्वमतोपस्थापनम्॥

एतेषां मते आत्मनः चिद्रूपत्वम् उच्यते। चिद्रूपत्वं नाम चेतनत्वम् इत्यर्थः। आत्मनः चैतन्यत्वात् तस्य जडत्वं नोपपद्यते। तथा च जडस्य चिद्रूपत्वं नास्ति इति कृत्वा आत्मनि जडभेदः वर्तते। एवञ्च चिद्रूपेण अधिष्ठितस्य पुरुषस्य प्रतिबिम्बविधया बुद्धिः भोग्या भवति।  चित्ते अधिष्ठातुः पुरुषस्य प्रतिबिम्बः दृश्यते। तस्मिन् च चित्ते सुखदुःखादि धर्माः सन्ति। यतः आत्मनः प्रतिबिम्बः चित्ते जातः, अतः तत् चित्तं स्वयम् आत्मा इति भ्रमति। एवं चित्ते विद्यमानाः सुखदुःखादिधर्माः यदा पुरुषे आरोप्यन्ते तदा पुरुषः [आत्मा] चिन्तयति ,“अहम् एव सुखी” “अहम् एव दुःखी” “अहम् एव धर्मी” इति। वस्तुतस्तु आत्मनि एते धर्माः न सन्ति। अपि तु चित्ते विद्यमानाः धर्माः आत्मनि आरोप्यन्ते। तस्मात् सः आत्मा “अहं सुखदुःखादीनां भोक्ता” इति व्यवहरति। अर्थात् आत्मा बुद्धौ प्रतिबिम्बमानत्वात् “अहं कर्ता ,अहं भोक्ता” इति व्यवहरति। तथा च एते साङ्ख्यानुसारिणः इति कृत्वा, एतैरपि प्रकृतेः सकाशात् सान्तं जगदिदम् उत्पन्नम् इति अङ्गीक्रियते। एवम् एतस्याः त्रिगुणात्मिकायाः प्रकृतेः सृष्टेः प्रयोजनद्वयं विद्यते। एकः भोगः अपरः मोक्षः इति। तथा च प्रकृत्या सृष्टमिदं जगत् पुरुषस्य भोगार्थं वर्तते। कथं भोगमनुभवति आत्मा इति चेत्, बुद्ध्यहङ्कारचित्तादि-उपाधिद्वारा आत्मा बाह्यविषयान् भुङ्क्ते। भोगस्य उपस्थितेः परम्, एषा प्रकृतिः आत्मनः मोक्षसंपादनार्थम् उपस्थिता भवति। एवम् आत्मा चित्तवृत्या विषयान् भुङ्क्ते इति कृत्वा सः संसारे बद्धो भवति। एतस्य बन्धनस्य आत्यन्तिकनाशः एव मोक्षः इति यौगिकाः वदन्ति। एवं केवलस्य पुरुषस्य भावः एव कैवल्यम् इत्युच्यते। अर्थात् केवलस्य भावः कैवल्यम् इति व्युपत्त्यनुसारेण पुरुषस्य  उपाधिशून्येन अवस्थानमेव मोक्षः[viii] इति यौगिकाः स्वमतानुसारं मोक्षस्वरूपम् उपपादयन्ति।

ग्रन्थसूची (Bibliography)

ईश्वरकृष्णः, and शास्त्रीराकेशः. श्री ईश्वरकृष्णविरचिता साङ्ख्यकारिका, विस्तृतभूमिका, अन्वय, हिन्दी-अनुवाद, चन्द्रिका हिन्दी व्याख्या एवं गौडपादभाष्य सहित. प्रथम संस्करण, संस्कृत ग्रन्थागार, 1998.

कर्णाटकविमला. व्याख्याकारों की दृष्टि से पातञ्जल-योगसूत्र का समीक्षात्मक अध्ययन. 1st ed., बनारस् हिन्दू विश्वविद्यालयः, 1974.

पतञ्जलिः, et al. महर्षिप्रवरपतञ्जलिप्रणीतं योगसूत्रम्, पण्डितप्रवरधाराधिपतिभोजराजकृतेन राजमार्तण्डेन, दार्शनिकशिरोमणिभावागणेशविरचितेन प्रदीपेन, पं० नागोजी भट्टनिर्मितया वृत्त्या, यतिप्रवर-रामानन्दविहितया मणिप्रभया, विद्वद्वरानन्तदैव-सम्पादितया चन्द्रिकया, योगिराज पं० सदाशिवेन्द्र-सरस्वतीकृतेन योगसुधाकरेण च समन्वितम्. Edited by वारानन्तदैवः et al., पुनर्मुद्रितम्, चौखम्बा संस्कृत संस्थान.

सायणमाधवः. सर्वदर्शनसङ्ग्रहः, दर्शनाङ्कुरव्याख्यया समेतः. प्राच्यविद्यासंशोधनमन्दिरम्, 1924.

Authors

  1. Koushika Gayathri.G

Acharya Student

Karnataka Sanskrit University

Phone no: 9791292197

Email: koushikaganesan@gmail.com

  • Ramakrishna Venkatramana Bhat

Teaching assistant

Chanakya University

Phone No. 9481721183

Email: rvbhat1995@gmail.com


[i] सर्वदर्शनसङ्ग्रहः – 82

[ii] राजमार्ताण्डः – 4.34

[iii] सर्वदर्शनसङ्ग्रहः – 168

[iv] राजमार्ताण्डः – 4.34

[v] राजमार्ताण्डः – 4.34

[vi] राजमार्ताण्डः – 4.34

[vii] राजमार्ताण्डः – 4.34

[viii] योगसूत्रम् – 4.34