युक्तिमल्लिकायां युक्तिविलासः

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

युक्तिमल्लिकायां युक्तिविलासः

Dr.N.VENKATESHA RAO.
Associate prof., Dept. of Sanskrit
SRI SATHYA SAI INSTITUTE OF HIGHER LEARNING
BRINDAVAN CAMPUS.KADUGODI.  BENGALURU-560067
EMAIL-nvenkatesharao@sssihl.edu.in
MOB-No.6360200595

 

शॊधसारः—–

भारतीयसंस्कृतॆः हृदयं नाम वॆदसाहित्यम् ।वेदानां भावः एव स्मृतिषु,पुराणॆषु,इतिहासादि

ग्रन्थॆषु निरूपितः।तत्सारं उपजीव्य कवयः कृतीः व्यरचयन् ।परं तु शास्त्रसारं काव्यरीत्या, सतर्कं सरसं, सा्ह्लादं सहृदयान्  प्रतिबॊधयितुं प्रतिभा,विद्वत्ता च विशॆषतःआवश्यकी।

वादिराजयतॆः कृतिरियं ब्रह्मसूत्रसारभूतं शास्त्रप्रमॆयं  युक्तीः उपयुज्य प्रतिपादयति।मीमांसासम्मतः मार्गः ग्रन्थॆ अनुसृतः।तत्पॊषकयुक्तिसमूहः प्रमॆयप्रतिपादनावसरॆ बहु दृश्यतॆ। अत्र् तु प्रतिश्लॊकॆऽपि पण्डिताणां पामाराणां अपि प्रमॊदः जायतॆ। सरळा शैलिः,रसवत्तरं निरूपणं अस्य कारणम् । हरॆःसर्वगुणपूर्णत्वनिर्वहणार्थं दॊषराहित्यस्थापनार्थं,

भगवतः हरॆःजन्माभावः,दुःखाद्यभावः क्षुधाभावः,नित्यमुक्तत्वं, इत्यादिप्रमॆयसंचयं  प्रतिपदितम् ।

यथा मल्लिकाकुसुमं कॊमलम्,मनॊहरम्,एवं युक्तयःकॊमलाः,मनसः सन्तॊषदायिकाः।

मल्लिकानां सहजसौन्दर्यसौरभसूचकं श्वॆतवर्णमिव पूर्वाऽऽग्रहराहित्यात् सहजाः युक्तयः  सहृदायानां मुदमावहन्ति।अतः “युक्तिमल्लिका” इति नाम साधु संगच्छतॆ।कविरॆव ग्रन्थादौ इममशं निगदति-

  न स्नॆहात् न च विस्नॆहात् युक्त्याकृष्टॆन कॆवलम्।

यतः कृतासि तत्तत्र रसिकानां मुदॆ भव॥(१-२४)

नापि अहं एतन्मतीयः इति व्यामॊहात् ,अथवा परमतखण्डनॆ प्रमॊदः प्राद्य्र्भवतीति

 बुध्या   वा   ग्रन्थमिमं  विरचितवान् ।सहजाः सुन्दर्यः युक्तयः रसिकानां मुदमावहन्तीति

 ग्रन्थः मया विरचितः इति। एतासां युक्तीनां समवलॊकनॆ अल्पॊऽयं प्रयत्नः मया क्रियतॆ।

कूटशब्दाः

वक्तुं सुकरं न, संहारकर्ता न दॊषभाक् ,हरॆः उत्पत्तिः नास्ति,प्रलयॆ सत्वं सर्वस्य साधकम्,कर्मातीतःनिर्दुखः,बृहच्छरीरत्वादॆव  क्षुत्पीडितः न भवति,

गरुडवाहनः न गरुडाधीनः, अवतारः तर्हि कुतः?,नित्यमुक्तः, विपरीत ज्ञानं  विपरितफलदायकं ।

प्रस्तावना

सन्ति च कवयः बहवः यॆ दृष्टं   वस्तु दृष्टिशतैः वर्णयन्ति।अतः एव सूक्यिरियं साधु संगच्छतॆ “रविरपि यन्न पश्यति कविःतं कमनीयतया कथयतीति”।तदर्थं प्रयत्नशतैः विद्वत्तां प्राप्य विदुषां मनः,यॆ जिग्युः,तॆ  तु, विद्वत्कवयः,प्रतिभा चूडामणयः इति प्रशस्तिं प्राप्ताश्च।  तॆषां शैलिः विद्वद्भिः सम्म्मानिता।भट्टि,बाण,माघादिमहाकवयः अस्यां सरण्यां शॊभन्तॆ।परं तु सरलया

 शैल्या सुन्दरतया  निरूपकाः  निपुणमतयः  कविकुलॆ कॆचन एव सन्ति।तत्राऽपि षट्शास्त्रविचक्षणाः, शास्त्रसारमपि सरसवाण्या सलीलं वर्णयन्तः विद्वत्कवयः

 विरळाः एव।तत्र वादिराजयतिः अग्रॆसरः तिष्टति।कुम्भासिसमीपॆ हूविनकॆरॆ ग्रामॆ जातस्य अस्य कालावधिः१४८०-१६०० इति  निर्णीतः।अष्टमवषॆ स्वीकृतसन्यासः एषः विंशत्युत्तरशतवर्षपर्यन्तं सार्थकं जीवनं व्यधात्।वागीशतीर्थः  अस्य गुरुः।वादिराजयतिःशताधिककृतीः रचयित्वा महतीं क्रान्तिं व्यधात्।

स्तॊत्राणि,काव्यानि,पद्यानि,गद्यात्मककृतिरत्नानि,मन्डनात्मकग्रन्थाः,खण्डनात्मककाव्यानि,वादग्र्न्थाः,टीकाः,टिप्पणयः,चित्रकाव्यानि,जानपदगाथाः,एवं साहित्यप्रपन्चॆ  विद्यमानसर्वप्रकारॆषु प्रौडिमाप्रदर्शकःप्रतिभासंपन्नः,संयमी, सरस्वतीकृपापात्रः  विराजितः विद्वत्कविः नाम “वादिराजयतिः”। अस्य कृतिसमूहॆ “युक्तिमाल्लिका” विशॆषतः शॊभतॆ।

वॆदनिर्णायकानां  बादरायणप्रणीतानां ब्रह्मसूत्राणां  भावः मध्वाचार्येण विवृतः स्वीयकृतिषु।भगवतः गुणपूर्णत्वनिरूपणं,तत्पॊषकतया  दॊषरहितत्वसाधनमॆव ब्रह्मसूत्राणां उद्दॆशः।मध्वाचार्यस्य कृतिषु एतदॆव साधु, समग्रम्,प्रमाणपुरःस्सरम्,सरळया शैल्या प्रतिपादितम्।

तदॆव वादिराजकविना युक्तिमल्लिकायां युक्तिपुरःस्सरं निरूपितम् ।अत्र ५३७९ श्लॊकाः सन्ति।ग्रन्थःगुणसौरभः,शुद्धिसौरभः,भॆदसौरभः,विश्वसौरभः.फलसौरभः इति पन्चधा विभाजितः।शुद्धिसौरभॆ भगवतः दॊषरहितत्वं  युक्तिभिः कथं निरूपितमिति प्रस्तावनमॆव लेखनस्य  उद्दॆशः।

 युक्तिमल्लिक्याम् युक्तिविलासः

प्रायः लोके तावत् आभाणिका श्रूयते “वक्तुम् सुकरम्, कर्तुम् दुष्करम “इति।सा तु सत्यमिव प्रतिभाति।वक्तुम् सुलभम् सर्वेषाम् , तन्मार्गे गन्तुम् दुष्करम् इति।एषा आभाणिका पुनारचितव्या।श्रोतुम् सुकरम्।वक्तुम् दुष्करम् इति।

यःकोsपि श्रोता चेत्, तस्य प्रधानं कार्यम्, श्रवणम् ।तेन तस्य कार्यम् सुकरम् सार्थकं च।वक्तुः पुरुषस्य तथा न।यदि सभिकः, अन्यः ,प्रत्यर्थी, वा पृच्छकः वा प्रश्नान् पृच्छति चेत् ,तदा वक्तुः तस्य निरूपणम् नितराम् क्लिष्टकरम्।संगीतक्षेत्रे सभिकाः केवलम् श्रोतारः।तत्र नास्ति क्लेशः।वादप्रपंचे  वक्तुम्,प्रतिवक्तुम् ,प्रतिपादयितुं च वक्तुः प्राणाः, कण्ठगताः भविष्यन्ति.।अतः एव शास्त्रेषु निर्देशः श्रूयते|

”यस्तर्केणाsनुसधत्ते स वै वेद न चापरः”इति।तर्कम् यो वेद सः वेदार्थं जानीयात् इति।अतः शास्त्रार्थपर्यालोचने  तर्कशास्त्रज्ञानम् आवश्यकम्।तेन सह  शब्दज्ञानार्थम् व्याकरणशास्त्रज्ञानमावश्यकम् ।ताभ्याम् सह  मीमासां,ब्रह्मसूत्रादीनां ज्ञानम् अनपहायम्।यःज्योतिषं जानाति, शीक्षायामपि शिक्षितः, छन्दोकुशलः, निरुक्ते निपुणः, सः वेत्ति वेदार्थम् । सः वादग्रन्थरचने समर्थः  भवति। तदुक्तम्

शिक्षा व्याकरणम् छन्दः निरुक्तम् ज्यौतिषम् तथा ।

कल्पश्चेति षडंगानि वेदस्यार्हुर्मनीषिणः।।१

अतः षडंगनिपुणः पुरुषः वादग्रन्थम् निर्माति।तत्र वादिराजस्य “युक्तिमल्लिका” वादिनाम् मोदभूमरिति सुविदितम् ।गुरुभावप्रकाशिकानामकव्याख्याकारः नारायणाचार्यः विनम्रतया विदुषां पुरतः जिज्ञासूनां अग्रे निवेदयति।

वादिराजोक्तिचातुर्यमशक्यम् ज्ञातुमन्जसा।

तथापि वक्ष्ये तच्छिक्षामनुसार्येव लेशतः। इति २(1-8)

वादिराजगुरॊः युक्तिमल्लिकायां भगवतः निर्दॊषत्वनिरूपणार्थं शुद्धिसौरभः इति प्रत्यॆकं एकः भागः एव निरूपितः।तत्र आदिभागस्य अल्पतरनिरूपणॆ प्रयत्नॊऽयं कृतॊ मया इति सविनयं सहृदयानां पुरतः निवॆद्यतॆ।

१)हरिः संहारकर्ता  –तथापि  महान् सः,नैव दोषभाक्

लोके तावत् दोषयुक्तः पुरुषः निन्दितः भविष्यति। यदि सः कंचन पुरुषं ज्ञात्वा वा प्रमादादपि वा मारयति तदा जीवहन्तकः इति सः पापं अपकीर्तिं च प्राप्नोति।तं दूरे स्थापयित्वा जनाः तस्य नामापि श्रोतुं नॆच्छन्ति।भगवान् हरिः प्रळयकाले सर्वान्  संहरति नाम, निखिलमपि निष्करुणया  निःशेषम् नाशयति।एवं च भगवतः कुतो दोषः न,कुतः सः सर्वैः सर्वत्र पूज्यतॆ  इति प्रश्नः समुदेति। तदा कविः एवं विधया उत्तरं प्रतिपादयति।

योsसौ लघीयसो दोषः नासौ दोषो गरीयसः।

अपि संहृत्य  निखिलमपवादी किमच्युतः।।३

 सतु एवं व्याख्यायते ; पुनरपि लोकनीत्यैव हरेर्निर्लेपत्वं साधयति। लघीयसः संप्रज्ञातसमधिस्थयोगिनः योsसौ दोषः सन्ध्यापरित्यागादिः,असौ गरीयसः असंप्रज्ञातसमाधियोगिनः दोषः न। अल्पस्य यो दोषः सः महतः नेति यावत्। लोकेप्येवम चेत्, अलौकिकोsच्युतः ,”न कर्मणा लिप्यते नो पापकेन”इत्यादि श्रुतेः, क्रूरकर्मकरणेsपि पापलेपाख्यच्युतिरहितः।अत एव अच्युतनाम्नाभिधॆयः सः निखिलं संहृत्यापवादी  भवति किम्? नैवेत्यर्थः।

 प्रत्युत “सृजयस्यवस्यत्सि  न तत्र सज्जसे” (त्वमॆव जगतः सृष्टिं करॊषि,रक्षणमपि निर्वहसि,निलयमपि यापयसि इति) इत्यादिना स्तुत्य एवेति भावः। इदमपि

पूर्वार्धोक्तलोकनीतेरुदाहरणम्। एतेनैव रावणहनने रामस्य  ब्रह्महत्यादिकमपि  गर्भस्रावेणैव निरस्तमिति वेदितव्यम्।यतः रावणसंहारात् लॊकः  रक्षितः।रामश्च महानिति महर्षिभिरपि महितः।

 अल्पस्य दोषः  महतस्तु न भंगदायकः। यः कश्चन पुरुषः ग्रामान्तरादागतः धूलिधूसरितांगः भोजनात्पूर्वं  शुद्धिमिच्छति। तदर्थम् सः पादौ जलपूरितपात्रे निक्षिपति चेत् तदा तम् मूर्खमिति निन्दन्ति। पादौ जलपात्रॆ प्रक्षिपता तॆन सर्वं जलं कलुषितं अभूत् ।यदि स  पुरुषः एव  सम्पूर्णं शरीरमपि नद्याम् निमज्जति चेदपि तम् शुद्धमिति मन्त्रयन्ति। नदीमपि पावनीमिति पामराः पण्डिताश्च प्रशंसयन्ति।

 कुतः ? महतः दोषः नैव भवतीत्येव खलु। यः कश्चन परप्राणपरित्राणार्थमिति विषं पिबति चेत् तं मूढमिति मुहुर्मुहुःजल्पन्ति। समर्थः  शिवः सर्वपरित्रणार्थम् समेषां पुरतः विषं पीतवान् ।तं दृष्ट्वा आर्तजनपरित्राणपरायणः इति,”नीलकण्ठः”  इति निखिलाः निर्जराः शशंसुः। इदमिदानीं  स्पष्टतरम् ।अल्पस्य   यः दोषः भवति, महतः सः दॊषः नैव भवतीति। ब्रह्मारुद्रादिजनकस्यास्य हरॆः महत्वं सूर्यप्रकाशवत् सुस्पष्टम्।

हरिः दॊषभाक् न भवति महत्वात् असंप्र ज्ञातसमाधिस्थपुरुषवत्,इत्युक्तिरत्र ध्यॆया।

२)हरॆरुत्पत्तिरपि नास्ति- प्रागभावाभावः सर्वं साधयति.

कृतिर्न करणे यस्य  तस्य कार्यं  कुतो भवेत् ।

लये सतः प्रागभवाभावान्न हि हरेर्भवः।।४

अ)प्रकारान्तरेण हरेरनुत्पन्नत्वम् साधयितुं नीतिमाह। यस्य कारणे विषये कृतिः प्रयत्नो नास्ति, तस्य कार्यं कुतो  भवेत्।कारणविषयप्रयत्नमकुर्वतः कार्यं च न भवतीति लोकनीतिः।

यस्मादेवं तस्माल्लये प्रलये, सतः विद्यमानस्य नारायणस्य, प्रागभावाभावात् भवः उत्पत्तिर्न। हरेरुत्पन्नत्वं वदतः तदुत्पत्तिकारणीभूत-तत्प्रागभावेsपि कृतिः कर्तव्या । अशक्यत्वेन नास्ति  चेत् उत्पत्तिकथनम् व्याहतम्,इति भावः।अतः” हरिः कदा नासीत्” इति प्रश्नस्योत्तरं नस्ति। अतः प्रागभावः एव नास्ति। अतः हरेः गगनमिव  नास्त्युत्पत्तिः।अत्र खं दृष्टान्तीकृत्य ससुखं हरॆः जन्माभावः निरूपितः।

हरिः उत्पत्तिरहितः प्रागभावाभावात् गगनवत्, ।इत्युक्तिरत्र सूचिता।

आ)कृष्णः दौत्यं निर्वाहयितुं कुरुसभां प्रविवॆश।दुर्विनयान् तान् सभयं बॊधयितुं

आयुधाभरणादिभूषितं विश्वरूपं प्रदर्शयामास।अद्भुतं तं दॆहं न कॊऽपि निर्ममॆ इत्यत्र सभिकाः एव प्र्माणम् ।नाऽपि काचन स्त्री तं तदा सुषुवॆ।स तु कृष्णस्य दॆहः एव।एवं च पूर्वमपि शंकचक्रादिधारयितुः ,व्यवहारॆ मानुषवत् दर्शयतः तस्य दॆहं न कापी स्त्री सुषुवॆ खलु।

“हरिः  अनुत्पन्नः भूषणादिभिः बहुवारं व्यक्तबृहच्छरीरित्वात् व्यतिरॆकॆण दॆवदत्तवत्”इत्यनुमनम् ।

सवित्री तस्य दॆहस्य नादितिर्नापि दॆवकी।

यॊ दौत्यमाचरद्दॆहः स एवैतादृशः किल। ५

 इ)हरॆः दॆहसंबन्धार्थं दॆहॊत्पत्तिः वाच्या।असता संबन्धाऽयॊगात्।न च जनकं विना दॆहॊत्पत्तिः संभाविनी।जनकॊ भवन् विधिर्वा स्यात्, त्रिलॊचनः वा।अन्येषामनन्तरभाविनामशंक्यत्वात् ।न च तावुभावपि जनकौ संभवतः।हरॆः एव संभूतत्वात् ।“यस्य प्रसादजॊ ब्र्ह्मा रुद्रश्च क्रॊधसंभवः” इति भारतॊक्तॆः।“एकॊ नारायाण आसीन्न  ब्र्ह्मा न च शंकरः” इति शृतॆः।तथा च प्रयॊगः”नारायण जनिरहितः जनकरहितत्वात् ।न च अवताररूपॆष्वसिद्दिः।पूर्णमदः पूर्णमिदमिति शृतॆः तेषामपि मूलरूपॆणात्यन्ताभॆदात्।कविना काव्यभंग्या तदॆव कमनीयतया कथितम् ।

नाभिजन्मा विधिस्तस्य क्रॊधाज्जातॊ त्रिलॊचनः।

नारायणः मूलरूपी जातः कस्माद्विचार्यताम् ।।६.

३)प्रलयॆ सत्वं सर्वस्य साधकम्  

प्रलये प्रागभावाभावात् न जनिरित्युक्तम् ।अधुना प्रलये सत्वेन जन्ममरणयोरुभयोरप्यभावः सिध्यतीत्याह ।यस्मादीशिर्तुर्नारायाणस्य प्रलये सत्वम् अस्ति अतः, कल्पान्ते ब्रह्मकल्पान्ते  मरणं नास्ति,तथा ब्रह्मकल्पादौ प्रभोर्जन्म च  नास्तीति  संबन्धः।अतः देहलीदीपः गृहस्यान्तर्बहिः प्रकाशकदेहलीदीपोपमोsभूत् ।सर्वस्य लयेप्यलीनत्वात् ,सर्वोत्पत्तेः पूर्वम् विद्यमानत्वाच्च हरेर्जन्ममरणाभावः सिद्ध  इति फलितोsर्थः।यथा दीपकालंकारॆ विशॆषणॆन उभयं प्रयॊजनं,उररीकृतं भवति एवं प्रळयॆ सत्वात्  हरॆः जननमरणयॊः राहित्यं सिद्धम् ।

एवं सृष्टिपूर्वप्रलयेsपि विद्यमानः सः मम प्रागभावः नास्ति ,प्रध्वंसः अपि नास्ति,अतः जन्म नास्ति,मरणमपि नास्ति,इति सूचयन् अस्ति।एवम् हरिः जननमरणरहितः इति साधु निरुपितम् कविना वादिराजेन।

अतॊsभूद्देहलीदीपः प्रलये सत्वमीशितुः।

कल्पान्ते यल्लयं रुन्धे कल्पादौ जन्म च प्रभोः।॥७

हरिः कारणसामान्यशून्यः प्रागभावाभावात् गगनवत् ।

हरिः प्रागभावाभाववान् प्रलये सत्वात् गगनवत्।इति प्रयोगः

४)ईश्वरः  सुखपूर्णः-ज्ञानपूर्णश्च

तार्किकाः ईश्वरं   सुखी इत्यपि नांगीकुर्वन्ति।तॆषां वादॆन हरिरपि बद़्धः सन् मनॊहारी नैव भवति। तॆषां वादः एवं प्रचलति। लॊकॆ तावत् यस्तु सुखसहितः  सॊऽपि दुःखसहितः दृश्यतॆ। यदि ईश्वरं सुखीति भावयामः,तदा दॆव्ः लॊकन्यायॆन दुःखी  अपि भवितव्यः।अतःदॆवः निर्दुः ख्,सुखरहितश्च इति निर्णीतवन्तः।परं तु लॊकॆ इदमपि श्रूयतॆ।

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्।

चक्रवत् परिवर्तन्तॆ दुःखानि च सुखानि च॥८

अनॆन  सुखानन्तरमॆव दुःखमिति,दुःखानन्तरमॆव सुखमिति सुस्पष्टं ।चक्रं यथा परिवर्ततॆ तथा स्थानव्यत्ययः  सुखस्य दुःखस्य च इति  सूचितम् । यदा सुखं अनुभूयतॆ तदा दुःखं नैव भविष्यति।यद्यपि पादॆ  मॆ वॆदना ,शिरसि दुःखमित्यस्ति।तथापि यदवच़्छॆदॆन यदा सुखं तदवच्छॆदॆन तदा न दुःखमिति नियमस्य न भंगः।एवमॆव  यत्र प्रमा तस्य अन्यांशॆ भ्रमस्य संभावना अस्ति। तथापि यदंशॆ प्रमा तदंशॆ भ्रमः नैव भवति।हरिः नित्यसुखपूर्णः नाम नित्यनिर्दुःखः इति सिध्यति। हरिः नित्यपूर्णप्रमावान् नाम नित्यं भ्रमरहितः इति सिध्यति।तार्किकाः ईश्चरं सर्वज्ञानवानिति, इति प्रतिपादयन्ति।तद्विषयॆ तार्किकाः सत्यं ज्ञानमनन्तं ब्रह्म इति वॆदमपि प्रमाणत्वॆन उदाहरिष्यन्ति।तत्रैव वॆदॆ “आनन्दं ब्रह्मॆति व्याजानीत् “इति आनन्दस्वरूपमपि ईश्वरस्य निर्णीतम् । तथापि तॆ दुःखप्राप्तिभिया  सुखं नांगीकुर्वन्ति।एकं भागं स्वीकृत्य अपरं प्रमाणॆ सत्यपि नांगीकुर्वन्ति। यद्यंगीकुर्मः तदा ईश्वरः लॊकनियमॆन दुःखी भवॆत़् इति भयं तॆषां चित्तॆ भ्रमति। किन्तु पूर्णसुखमयॆ कदापि दुःखस्य नास्त्यवकाशः इति विवॆकः न प्रकाशतॆ प्रचण्डमतीनां  तॆषां चित्तॆ। चित्रमिदं खलु !

अत्र अनुमानप्रयॊगः एवमस्ति।१) परमात्मा नित्यनिर्दुःखः नित्यपूर्णसुखवत्वात् ।२)परमात्मा नित्यं भ्रमरहितः नित्यपूर्णप्रमावत्वात्  व्यतिरॆकॆण जीववत् ।इदमपि ध्यॆयम् ।३)परमात्मा नित्यनिर्दॊषः नित्यपूर्णगुणवत्वात् ।

सुखस्यानन्तरं दुःखं भ्रमॊ न प्रमया सह।

न हि पूर्णसुखज्ञानॊ दुःखभ्रान्त्यवकाशवान् ॥९

५)कर्मातीतः-अतः निर्दुःखः

अपि च दुःखं कस्य जायतॆ?निष्कारणं दुःखं भविष्यति इति कॊऽपि वक्तुं न प्रभवति।तत्रापि हॆतुवादी तार्किकः कारणं प्रमाणं च अन्विष्यत्यॆव। प्राक्तनकर्म दुःखस्य कारणं इति वक्तव्यम् ।अतः जीवाः सुखदुःखभागिनः इति संगच्छति।दॆवः प्रभुत्वादॆव कर्मातीतः।यदि कर्म नास्ति तर्हि कुतॊ  दॆवस्य दुःखं भविष्यति? ”न मां कर्माणि लिम्पन्ति” इति गीतायां कर्मातीतत्वं ईश्वरॆणोक्तम् ।आप्तवाक्यात् स्मृतिबलात् कर्मातीतत्वॆ सिद्धॆ निर्दुःखत्वं हरॆः निरायासॆन निर्णीतं भविष्यति।“न कर्मणा वर्धतॆ,नॊ कनीयान्” इति  प्रमाणत्वॆन प्रबला शृतिः परमात्मनः कर्मातीतत्वं कण्ठतः उ्घॊषयति च।सत्कर्मणा हरॆः वृद्धिरपि नास्ति, कर्मणा  पापकर्मणा च कनीयान्  दुःखभ्रान्त्यादिना नीचत्वं ,नाम  अधःपतनं  “न” न भविष्यतीति  तस्याः शृतॆः हृदयं खलु।अतः दॆवः दुःखरहितः।

प्राग्जन्मार्जितदुष्कर्म दुःखमूलं ध्रुवं नृणां।

न कर्मणा वर्धतॆ  यॊ नॊ कनीयन्कुतॊऽस्य तत् ॥१०

हरिः निर्दुखः कर्मातीतत्वात् मुक्तवत्  इत्यनुमानम् ।।अत्र कवॆः शास्त्रसम्मततार्किकालॊचनं, तॆन सह यमकालंकारचातुर्यं,अनुष्टुब् छन्दसा चॆतॊहारि निरूपणं तु  निपुणमतीनां मनांस्यपि मुष्णाति ।

६ ) परमात्मा पिपसाद्यभाववान् मुक्तत्वात्

कृष्णः नवनीतादिकं भक्षितवान्, पयः प्रतिगृहं गत्वा पीतवान्, अतः क्षुत्पिपासादि हरिं बाधतॆ इति शंका भवॆत् ।वादिराजस्तु तस्याप्युत्तरं  वक्ति—

क्षुत्पिपासादि मर्त्यानामप्यामुक्तॆर्न  तु सर्वदा।११

  1. यदा साधकः मॊक्षं प्राप्नॊति तदा क्षुत्  क्षयं गच्छति। पिपासा  पलायिता भविष्यति।मुक्तत्वं नाम कर्मचक्रान्निर्गमनम् ।कर्माभावॆ  कथं क्लॆशसरणिः?अपि च प्राकृतदॆहॆ पिपासादिपीडा भवॆत् ।प्राकृतातीतत्वं एव मुक्तत्वम् । अतः मुक्त्यनन्तरं मनुष्याणामपि तादृशी पीडा नास्ति ।एवं सति,नित्यमुक्तस्य लक्ष्मीनारायणस्य सा कथं साधु संगच्छति?अतः मुक्तत्वात् नास्ति पीडा क्षुत्पिपासादीनाम् ।

हरिः क्षुधाद्यभाववान् मुक्तत्वात्  मुक्तवत् ,इत्यनुमानम् । हरिः क्षुधाद्यभाववान् अप्राकृतशरिरित्वत्   मुक्तवत् इत्यनुमानम्।

  1. ईश्वरः नित्यमुक्तः

ईश्वरः नित्यमुक्तःइति निगमाः नितरां निनदन्ति। कॆचन तं मायावृतत्वॆन जीवः इति निरूपयन्ति।परं तु वादिराजः इममशं लॊकरीत्या स्थापयति।पंकॆ निमग्नः पुरुषः अन्यस्य तारकः नैव भवतीति सार्वजनीनः अनुभवः।यदि सः यततॆ सः अधस्तात् पतॆत् ।मुमुक्षवः सर्वॆ तं मुकुन्दः इति प्रार्थयन्तॆ।अतः सः मुक्तः एव भवॆत्।एवं च हरॆः नित्यमुक्तत्वं सिद्धम् । यदि सॊऽपि बद्धः तर्हि तारकः सर्वथा नास्त्यॆव।तदा मुमुक्षुः,मुक्तः,मॊचकः त्यादि प्रक्रिया नैव स्यात् ।अतः नित्य्ं निखिलैः प्रर्थितत्वात्  ईश्वरः नित्यमुक्तः इति सिद्धः।बद्धस्य मॊचकत्वायॊगात् ।—

अनुत्तीर्णः स्वयं पंकात़् किमन्यॊत्तरकॊ भवॆत्।

यदि बद्दं परं ब्रह्म कः स्यान्बन्धस्य मॊचकः॥१२

हरिः मुक्तः लॊकॆ मुमुक्षुवर्गसद्भावॆन सह मॊचकान्तराऽभावात्, बन्धमॊचनाभिलाषिजनॆन निरीक्ष्यमाणमॊचकजनवत् ।

७ ) बृहच्छरीरित्वात् क्षुदपि नास्ति नारायणस्य..

 अपि च पामरः परमान्नं  भुंक्तॆ। राजा भक्ष्यादिकं खादति। प्रॆतः महाक्षुत्पीडितः पर्वातानॆव ग्रसति। यस्य यादृशं शरीरं यादृशी क्षुत् तादृशं भॊजनं ।“यक्षाऽऽनुरूपॊ बलिः” इति शास्त्रवचनम् ।सः हरिः बृहच़्छरीरः। अखिलाण्डकॊटिब्रह्माण्डः  एव तस्य  रॊमसु विद्यतॆ  इति विदितं तत्वविदाम् ।एवं स्थितॆ बृहच़्छरीरस्य तस्य ब्रह्मण्डमपि भॊजनाय नाऽऽलम् ।हस्तगृहीतं नवनीतं नाशयति तस्य क्षुत्, इत्यॆतदॆव हास्यमयम् ।अतः बृहच्छरीरस्य  आहारॊ नैव लभ्यतॆ इति च स्पष्टम्।ननु तर्हि तत एव स्वयॊग्यान्नपानाद्यभावात् सर्वदा क्षुत्पिपासादीतिति चॆन्न।तथा सति  संपूर्णाहारस्य अभावॆन शरीरकार्श्यादॆरप्यावश्यकत्वॆन बृहच़्छरीरित्वं  नारायणस्य न स्यात् ।शृतिस्तु “बृहच्छरीरॊ विमिमान  ऋक्वभिर्युवा कुमारः प्रत्यॆत्याहवम्” इति बृहच्छरीरत्वं प्रतिपादयति।विमिमानः विशॆषॆण मिमानः इतिपदॆन सः हरिः विशॆषज्ञानवान् इति शृतिः सूचयति।युवॆत्युक्त्या  यौवनस्य ,आहवं प्रति धावतीति विशॆषणॆन  रणरंगधीरत्वस्य “ एकॊ दाधार भुवनानि विश्वा” इत्यनॆन  ब्रह्माण्दधारकशक्तॆश्चायॊगात्।अतः बृहच्छरीरित्वात् क्षुदपि नास्ति,पिपासाऽऽपि नास्ति, पीनता एवाऽस्ति,रणरंगधीरत्वात् इति सिद्धम् ।  अस्तु तर्हि मूलरूपस्य् हरॆः क्षुत्पिपासाद्यभावः,सूक्ष्मरूपस्य कृष्णस्य कथं तदभावः,?इति चॆत् ,न।विजृम्भितवदनस्य तस्याप्युदरॆ यशॊदया महीमहीधरादिसकलजगतॊदृष्टत्वॆन  बृहच्छरीरत्वस्यापरिहारात्। ।

क्षुत्पिपासादि मर्त्यानामप्यामुक्तॆर्न तु सर्वदा।

बृहच़्छरीरः किम् भुंक्तॆ ब्रह्माण्डं यस्य रॊमसु॥१३

हरिः क्षुधाद्यभाववान् बृहच्छरीरत्वात् ब्र्माण्डरक्षकत्वात् व्यतित्रॆकॆण दॆवदत्तवत् इत्युक्तिरत्राभिप्रॆता।

८) गरुडवाहनः-तथापि गरिष्ठत्वात् न गरुडाधीनः

अधुना गरुडगमनात् हरॆः अन्याधीनत्वशंकां निवारयितुं युक्तिमाह। नारायणः गरुडाधीनः अपि नैवॆति निगमाः नितरां निगदन्ति। महान् कृष्णः अल्पस्य गरुडादॆः रक्षकः।सः अल्पकःगरुडः कृष्णं  न रक्षति हि। हीत्यनॆन लॊकॆप्यल्पकस्यैव् महदधीनत्वं प्रसिद्धमिति सूचितम् ।

पामराणामपि इदं  तत्वं विदितप्रायमिति विवॆचयति।अन्तरगं दृष्टन्तमाह।वराहः जलमध्यगतां  एतां महीं सलीलं सलिलात् उद्धधार। तं वराहं कॊ दधार? न कॊऽपि?पर्वतादिपदार्थैः पृथुभूतां   महत्तरां महीमपि अनन्यापॆक्षया अनायासॆन दंष्ट्रया धारयितुः तस्य  च हरॆः, कॊ धारकः भवॆत् ? न कॊऽपीत्यॆव मन्तव्यम् !तर्हि गरुडाश्रयणं लीलार्थं,गरुडस्य गरिमाप्रसारणार्थं इत्य्ंगीकार्यम् ।

हरिः न पराधीनः महतां धारकत्वॆ सति  महीयत्वात् नृपवत् इति युक्तिः।

९)अवतारः तर्हि कुतः? सीतावियॊगः अपि न किम्?।

यथा मूलरूपिभगवतः नास्ति दुःखादिकं, एवमॆव अवतारॆष्वपि नास्ति द्ःखस्य लॆशॊऽपि लक्ष्मीनारायणस्य।महान्तः स्वचरितवर्णनरूपकथां विस्तृतां कर्तुं एवमॆव संचरन्ति। यथा राजा

रणरंगान्निवृत्य स्वविजयं प्रसारयितुं, जनाभिप्रायश्रवणकुतूहलमॊदी सन् एवमॆव एकाकी सन् अथवा परिवारजनैः परिवृतः सन् वा सन्चरन्ति।तथा चक्राधिपतिरपि स्वयं गमनसमर्थॊऽपि  भृत्यादीन् उपयुज्य शिबिकायां -उपविश्य  संचरति। तथागमनॆ कथा प्रचरिष्यति।जनाः नृपं वर्णयन्ति। एवमॆव हरिः प्रचारप्रियः, भूमावागत्य लीलाः प्रकुर्वन्,लीलाविनॊदनपटुर्भूत्वा  भ्रमति।यथा पुरुषः दुःखाभावॆऽपि  दुःखिवत्, परनिरपॆक्षत्वॆऽपि सापॆक्षवच्च्  सन्दर्शयति सकलजनसंग्रहाय।तथा रामॊऽपि सीताकृतॆ दुःखादिकं प्रदर्शितवान् ।न तु वस्तुतः दुःखीति भावः।महाभारतॆ कृष्णॆ यागदीक्षितॆ सति कश्चन विप्रः सद्योजातान् जन्ममात्रतः म्रियमाणान् शिशून्  दृष्ट्वा आर्तहृदयः सन् “हॆ नृपप्रिय, अर्जुन, त्वं मम  शिशून्  रक्षस्वॆति प्रार्थितवान् ।तदा सः पार्थं तत्र प्र्तिज्ञापूरणाऽसमर्थॊऽपि कृष्णं शरणं जगाम। सः कृष्णः पार्थकीर्तिरक्षणनिरतःसन्  निगूडान् लॊकान् आनीय,शिशून् प्रगृह्य  पार्थाय  प्रदाय तं परमसन्तुष्टं कृतवान्।

पृथिवीतः अनन्तासनं बहुकोटियॊजनदूरतममिति सर्वेषां विदितम् । कृष्णरूपॆणानन्तासनतः ब्राह्मणपुत्राऽऽनॆता  सः (रामरूपॆ) नीताबलः रावणॆनापह्रुतसीतापत्नीकः किम्? रावणॆन नीता अबला सीता यस्य सः नीताबलः किम्? किल इत्यस्वरसॆ।

पन्चविंशतिकॊटियॊजनन्तरितानन्तसनतः घटिकमात्रॆण एकाकितया विप्रपुत्रानयनसमर्थस्य  लीलया तीर्णसप्तसमुद्रासप्तद्वीपघनॊदकाख्यमहासमुद्रस्य च,शतयॊजनभ्यन्तरितलंकाप्रदॆशतः सीतानयनादॆःरशक्यतया ,दुःखकरणकपिसंग्रहसॆतुनिर्बन्धनादिनिर्बन्धः कथं सम्भवितः?

अतः  कपिसंग्रहणादिकं,सॆतुबन्धनादिकं लीलाया कृतवान् इति मन्तव्यम् ।अन्या लॊकनीतिरपि ग्राह्या।यस्तु पत्नीं सर्वस्वमिति मत्वा तत्रैव् मज्जति स तु तद्वियॊगॆ  चित्तभ्रान्तः सन् ऊनॊत्साहः  सन् उन्म्मत्तवत् विलपति ।अतः पत्नीपुत्रादिषु अतिस्नॆहः  न कर्तव्यः। अतिस्नॆहपरिष्वंगात़् वर्तिराद्रापि दह्यतॆ। अतः अतिप्रीतिः न कार्या,आपदि आगतॆऽपि मित्रान्तरं संगृह्य संकटात़् स्वयं विमॊचनमार्गः अन्वॆष्टव्यः,मैत्रिप्रापणॆऽपि सहदरयॊर्मध्यॆ एकः सहसा न वध्यः,अन्यथा जीवितस्य कलान्तरॆ परितापः भवॆत् , इति नीतिं सूचयितुं भार्यावियॊगात् विलपति,वनॆ संचरन् सः सुग्रीवमैत्रीं संपादयति।

धर्मं प्रदर्शयितुमॆव रवॆः सुतस्य्

 भावी न  ताप इति च विच्च न तं जघान॥१४

मर्त्यावतारस्त्विह  मर्त्य शिक्षणं।

रक्षॊवधायैव न कॆवलं विभॊः॥१५

भगवतः मानुषरूपॆणावतारस्य इदमॆव मुख्यप्रयॊजनं-भूमावावगतः मानवः कथं जीवॆत्?कदा किं कर्तव्यम् ?सर्वॆषां कथं मंगलं भवति? तॆन प्रकारेणैव जीवितव्यं इति बॊधयितुं भगवतः अवतारः,न कॆवलं रावणवधाय इति ।

महान्तॊ हि कथां कर्तुं सन्चरन्ति तथा तथा।

अनन्तासनतः पुत्राऽऽनॆता नीताबलः किल।।१६

 १०.सः सगुण इति सादरं स्वीकार्यम्

अ)परमात्मा  गुणपूर्णः इति अभ्युपगन्तव्यम् ।तत्रापि दयालुः इति स्वीकार्यमॆव।कॆवलं भगवद्दर्शनॆन मुक्तिरिति मतं न युक्तियुक्तम् ।कॆवलं धनिकस्य दर्शनॆन दरिद्रस्य क्लॆशः परिह्रुतः इति न शृतः। अपि च धनिकः स्वामी यदि दयावान् न, तदा मुर्हुर्मुहुः प्रार्थनॆऽपि व्यर्थमॆव।सदा प्रार्थयन्तं  तं दृष्ट्वा , विपरीततया क्रॊधः समुद्भवॆत् स्वामिनः।अतः सः दयापूर्णः इति सिद्धम् ।सः सर्वदॆशगः इति सहसा स्वीकार्यम् ।अन्यथा दूरस्थभक्तस्य प्रार्थना कथं श्रुता तॆन, इति प्रश्नः आपतति।

हरिः दयागुणपूर्णः,,भक्तक्लॆशनिवारकत्वात् ,दयाळुधनिकवत्।इति

हरिः समीपगः,समीपजनक्लॆशनिवारकत्वात्त्,प्राप्तजनदुःखनिवारकधनिकवत् ।

सकललॊकक्लॆशनिवारणात् सर्वसामीप्यतया सर्वगत्वं सुतरां सिध्यति।

दरिद्रदर्शनॆन स्यान्नैव दारिद्र्यनाशनम् ।

धनिनॊऽघृणिनॊ दूराद्वा दर्शनॆन किम् ?॥ १७

  1. विपरीत ज्ञानं- विपरितफलदायकम्

यदि दॆवं विपरीततया जानाति तदा विरुद्धफलमॆव भॊक्तव्यम् ।एकःबद्दः यदि मॊचकं स्वामिनं प्रति,त्वमपि अहमिव बद्धः इति अबद्धं वदति तदा राजा तं बन्धॆ एव स्थापयति।बन्धस्य निर्बन्धॆ सः निगृहीतॊ भवति। हरॆः मुकुन्दः इति नाम मॊचनसामर्थ्यादॆव संप्राप्तम् ।मुचं ददातीति मुकुन्दः इत्यॆव तस्य विग्रहः।तस्यैव बन्धं वदन्तं प्रति किम् वा वक्तव्यम् ?अतः यथार्थ ज्ञानॆ यथावत् प्रयत्नं कार्यम् ।

बद्धस्तु बद्ध एवस्याद्राज्ञा  बद्दत्वकीर्तनात् ।

यथा मुकुन्दबन्धॊक्त्या बन्धनिर्बन्धभुक् जनः॥ १८

उपसंहारः

अतः हरिः जननमरणक्षुदादिदॊषरहितः इति सिद्धम् ।एवं शास्त्रप्रमॆयं काव्यभंग्या

प्रतिपादकं  साहित्यं  संस्कृतप्रियैः  अवश्यं अध्यॆतव्यम् ।तॆन संस्कृतिः स्थिरा भवति।

परस्परसंवॆदनं,मीमांसादिकृतिषु नैपुण्यं च प्राप्तुं सुलभम् भविष्यति।

– ———————————————————————–

-पादटिप्पणीः—

१.मध्वविजयॆ-०६-०९-टिप्पण्यां उदह्रुतम् .

२.रुक्मिणीशविजयव्याख्यानम् -०१-०८.

३.युक्तिमल्लिका ०२- ०२.

४.   युक्तिमल्लिका—–०२-०४

५. युक्तिमल्लिका–  ०२-४४५

६.  युक्तिमल्लिका ०२-०५

०७. युक्तिमल्लिका ०२-०६

८.हितॊपदॆशॆ पाठान्तरॆण-मित्रलाभः-१३४

९ युक्तिमल्लिका.—०२-०८

१०. युक्तिमल्लिका ०२-०९

११ युक्तिमल्लिका.०२—१०

१२ युक्तिमल्लिका.०२-३१३    १०

१३. युक्तिमल्लिका ०२-१०

१४.महाभारततात्पर्यनिर्णयः-०६-१६

१५. महाभारततात्पर्यनिर्णयः -०२-१३०

१६. युक्तिमल्लिका ०२-१२

१७ युक्तिमल्लिका०२-३१४—

१८. युक्तिमल्लिका ०२-३११

———————————-ग्रन्थावलॊकनम्————————————————.

१.वादिराजयतिविरचितायुक्तिमल्लिका—सं=कृ, त, पाण्डुरंगी—द्वैत्वॆदान्तध्ययनसंशॊधनप्रतिष्ठानम्.बॆंगळूरु -२००७

२.मध्वाचार्यविरचितमहाभारततात्पर्यनिर्णयः- सं-हयवदनपुराणिकः-,अखिलभारतमाध्वमहमण्डलं- बॆंगळूरु.  २००१

३. वादिराजयतिविरचितायुक्तिमल्लिका—कन्नडानुवदसहितम् –सं-बि.भीमराव्-सर्वज्ञाचार्यसॆवासंघः

दावणगॆरॆ—१९८२.

४.रुक्मिणीशविजयः-सं-वसनकॆरॆप्रभंजनचार्यः-श्रीव्यासमध्वसंशॊधन प्रतिष्ठानम् –बॆंगळूरु-२०१६.

५. .नारायणपण्डितविरचितहितॊपदॆशः,सं-नारायणरामाचार्य,चौकम्बासंस्क्रुतसीरिस् ,वारणासि,-

——————————समाप्तम् ———————-

[/vc_column_text][/vc_column][/vc_row]