भीष्मोक्तप्रजापालननीतिः तस्याः प्रासङ्गिकता च।

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

भीष्मोक्तप्रजापालननीतिः तस्याः प्रासङ्गिकता च।

डा.मञ्जुनाथभट्टः

सहायकप्राध्यापकः, शास्त्रनिकायः,

कर्नाटकसंस्कृतविश्वविद्यालयः, चामराजपेटे, बेङ्गलूर्, कर्णाटकम्।

mgbhatherur@gmail.com

 

लेखसारः

(प्रवृत्तिनिवृत्तिबोधकत्वेन सकललोकहितायोद्यतः सर्वतः सर्वदा श्रेयोमार्गप्रदर्शकः वेद इव  “भारतं पञ्चमो वेदः” इति महतीं प्रथामश्नुते महाभारतम्। एतस्मिन् महाभारते शान्तिपर्वणि राजधर्मानुशासनभागे राज्ञः धर्मः विशेषतया निरूपितः। युधिष्ठिरं प्रति भीष्मस्योपदेशम् अत्यन्तं रमणीयतयात्र सञ्जग्राह भगवान् वेदव्यासः।  गङ्गायां शन्तनुना सम्प्राप्ततनुः वसिष्ठमुनिशापात् वररूपेण भीष्मनाम्नावततारावनौ। सोऽयं भीष्मः युद्धभूमौ विद्धशरशतशरीरोऽपि धर्मराजान्तःकरणनिष्ठान् प्रश्नशरान् प्रति विद्यासम्पादितान् अनुभवतपःप्राप्तान् शरान् समाधानरूपेण ववर्ष। जीवनोपयुक्तासु अनेकासु नीतिषु सतीष्वपि प्रजापालननीतिरत्र कटाक्षमर्हति। इयं च नीतिः अद्यतनराजकीयक्षेत्रे धर्ममार्गविमुखानां राजपदे वर्तमानानां केषाञ्चित् सचिवानां कृते प्रजापालनविषये कथमुपकरोतीति प्रतिपिपादयिषयायं लेखनव्यापारः।)

उपक्रमः

इह खलु भरतभूमौ कृतयुगालङ्कारभूत  इति ख्यातनामा राजा मान्धाता, मर्यादापुरुषोत्तम इत्याख्यया व्याख्यया ख्यातो रामः, प्रेमरूपेणास्त्रेणैव सहृदयहृदयापहारी श्रीकृष्णः, धर्मकर्ममर्मवित् धर्मराज इत्येवं बहवः राजानः स्वप्रजाः औरसान् पुत्रानिव पालयन्तः सन्तः सन्तः धर्ममार्गेण प्रजापालनमेव राजकृत्यमिति तदेव निजवृत्तमिति प्रवृत्तं प्रत्यपीपदन्। धर्मसन्दर्शकेषु मार्गदर्शकेष्वेतेषु सत्सु आदर्शरुपेण, आसमन्तात् दर्शः अद्यतनराजकीयक्षेत्रे मन्त्रिरूपेण वर्तमानस्य दिनकरस्य मा भूदित्याबालगोपालाविपालान्तःकरणनिस्सृतेयमाशा  शान्ता स्यात् शान्तनवस्य शान्तिपर्वगतवाण्या इति। श्रुतिस्मृतिपुराणादिषु समस्तजनिमताम् आचारविचारसञ्चारसहचारप्रचारक्रमः निर्दुष्टः निर्दिष्टो वर्तते । “चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः[1] इति भगवता कृष्णेनोपदिष्टप्रकारेण बहोः कालादियं वर्णाश्रमव्यवस्था स्वस्वकर्मानगुण्येन  समस्ति लोके । चतुर्षु वर्णेषु द्वितीयः क्षत्रिय इति ख्यातः । क्षत्रियवंशोत्पन्नः आहोस्वित्  क्षात्रधर्मनिरतः एव राजा इति जोघुष्यते स्म । कस्यचित् देशस्य   सर्वतोमुखेन अभिवृद्धिरपेक्षिता चेत्  तत्रत्यः शासकः समर्थो भवेदित्यत्र नास्ति विशयलेशः। श्रुतिरपि वदति “राजन्यः इषव्यः शूरो महारथो जायताम्[2]” इति । एवं सति राष्ट्रस्य शासकः राजपदसमभिव्याहृतः कः? स कथं प्रजाः परिपालयेदिति शेमुषीततयः मतिमन्तं व्याप्नुवन्ति । एतेषां समेषामनुयोगानां समुचितं समाधत्ते भीष्मनीतिः।

कोऽयं राजा काश्च प्रजाः?

’राजृ’ दीप्तावित्यत्यस्माद्धातोः निष्पन्नस्य राजन्निति शब्दस्य क्षत्रियापरपर्यायत्वेन प्रयोगो दृष्टः।  “राजा राजसूयेन स्वाराज्यकामो यजेत” इत्यादिश्रुतिवाक्येषु राजन्निति शब्दस्य विवक्षितोऽर्थः क्षत्रिय एव। राजा राष्ट्रस्य नियामको भवतीति सार्वजनीनः। ’प्रजा’ इत्युक्ते प्र जायन्त इति प्रजाः। उपसर्गे च संज्ञायाम्[3] इत्यनेन पाणिनीयसूत्रेणात्र डप्रत्ययः विहितः। प्रजा स्यात् सन्ततौ जने इति अमरकोशकारः[4]। यस्मिन् राज्ये वर्तमानाः सर्वे जनाः  नियमान् स्वयमेव पालयन्ति तत्र नियामकस्य कस्यचिदवसर एव नास्ति। देशे रुग्णाः जनाः न भवन्ति चेत् वैद्यस्य इतिकर्तव्यता केन शान्ता स्यात् ? राष्ट्रे तस्करा न भवन्ति चेत् आरक्षकस्य नियुक्तिर्वितथमनोरथा स्यात्। पूर्वं तावत् कृतयुगकाले राजा एव नासीदिति वदति शान्तनवः। प्रजाः सर्वा अपि ज्ञानविज्ञानसम्पन्नाः सत्वगुणप्रधानाः सन्तः धर्मनिष्ठा आसन्[5] इति। गच्छता कालेन सत्वगुणस्य ह्रासात् रजस्तमसोराविर्भावात् वैदिकधर्मनाशाच्च नियामकस्य अनिवार्यता सञ्जाता। राजशब्दस्य समुत्पत्तिः महाभारते समुपवर्णितेवं भीष्मेण धर्मराजाय-

तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च।

यक्षराक्षसनागानामीप्सितं यस्य यस्य य़त्॥

तेन धर्मोत्तरश्चायं कृतो लोको महात्मना।

रञ्जिताश्च प्रजाः सर्वास्तेन राजेति शब्द्यते।।[6]

देशे वर्तमानाः प्रजाः सर्वा अपि रञ्जिता भवन्ति चेत् तदानीमेव राजशब्दवाचत्वं नियामकस्य। इत्थमेव कलिप्रभावात् साम्प्रतिके युगेऽपि नियामकस्य अनिवार्यता जाता।

नियम्यनियामकयोः कः सम्बन्धः ?

पाञ्चभौतिकशरीरविशिष्टस्य मनुष्यस्यायं स्वभावः यत् किमपि अन्यस्य कृते हितमाचरणीयं चेत् यः कोऽपि सम्बन्धः भवेत्। राजा तथा देशस्य प्रजाः, परस्परं सम्बन्धिनो वा न वेति विवक्षायां सम्बन्धः कः इति विचारणीयोऽयमंशः। अनयोः सम्बन्धः कीदृश इति प्रत्यपादि भीष्माचार्येण-

राजा प्रजानां प्रथमं शरीरं प्रजाश्च राज्ञोऽप्रतिमं शरीरम्।

राज्ञा विहीना न भवन्ति देशा देशैर्विहीना न नृपा भवन्ति॥

राजा प्रजानां प्रथमं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च।

समाश्रिता लोकमिमं परं च जयन्ति सम्यक् पुरुषा नरेन्द्र[7]

एवं चानयोर्विद्यत अविनाभावः कश्चन सम्बन्धः। पुरातनराज्ञां स्वप्रजाभिः सह विद्यमानसम्बन्धं मनसीकृत्य कालिदासः एवमुवाद निजनिर्मितमहाकाव्ये रघुवंशाख्ये-

प्रजानां विनयधानाद्रक्षणाद्भरणादपि।

स पिता पितरस्तासां केवलं जन्महेतवः[8]

दिलीपो नाम राजा स्वप्रजाः स्वपुत्ररूपेण पर्यपालयत्। एतादृशा एव राजानः अस्माकं मन्त्रिवर्यैरवश्यमनुकरणीयाः अनुसरणीयाश्च। प्रजानां सेवा अस्माकं कर्तव्यम्, स्वप्राणत्यागेनापि तासां प्रजानां रक्षणं कर्तव्यं, तदेवास्माकं कर्तव्यमिति मनीषा भवेत् सर्वेषामद्यतनसचिवानाम्। राजपदे वर्तमानः पितृतुल्य इति वदन् तत्रभवान् कालिदासः राज्ञः कृते उन्नतमेव स्थानं स्वोक्तिभिः प्रदर्शितवान्। राजा पिता चेत् तस्य प्रजाः पुत्रतुल्या एव भवेयुः पिता पुत्रेण पितृमान् योनियोनौ इति श्रुतेः। सामान्यतः लोके जन्मदाता एव पितृशब्दवाच्यः भवति। तथापि राजा कथं पिता जात इत्यत्र बहवः हेतवः समुपलभ्यन्ते स्वप्रजारक्षणात् विद्याप्रदानात् शरीररक्षणाच्च इति । स्वस्वपितरः प्रजानां कृते केवलं जन्महेतवो बभूवुः।

अद्यतनराजकीयस्थितिः

राजकीयशब्दस्य  व्याख्यानमेवं जनमनस्सु राराजते  यत् “रा-रावणः, ज-जरासन्धः, की-कीचकः, य-यमः” इति  प्रत्यक्षरं अद्यतनराजकीयस्थितिमुपवर्णयति। अतिगर्वाविष्टाः रावणतुल्याः, आसुरीवृत्तिमापन्नाः जरासन्धसदृशाः, ललनालोलुपाः कीचकतुल्याः, देशनाशकार्यरताः यमसमानाः बहवो विद्यन्ते राजकीयक्षेत्रे। धर्मयुक्तराजकारणेनैव राष्ट्रस्य प्रगतिः साध्या इति न ते जानन्ति। साम्प्रतिके जगति प्रायशः सर्वे राजानः मन्त्रिपदेन व्यवह्रियमाणाः स्वार्थपरवशाः सन्तोऽपि विराजन्ते। किं कर्तव्यं किं न कर्तव्यमित्यजानन्तः राष्ट्रसम्पदम् आकण्ठं भुक्त्वा स्वस्वजनसम्पोषणतोषणकार्यमग्नाः प्रजाशोषणे नितान्तं निरताः सन्तीति विषतुल्योऽयं विषयः। प्रमोदावहोपि विषयः वर्तते सम्प्रति भारते रामयुधिष्ठिरसमाना अपि मन्त्रिणः सन्तीति।

परमचरमश्वासपर्यन्तमपि प्रजानां विश्वासं सम्पादयितुं राजा काञ्चन नीतिमनुसरेत् इत्ययं सामान्योंऽशः किन्तु मान्य इत्यवश्यं स्मर्तव्यम्। अत एव धर्मराजेन प्रजापालानविषये पृष्टः भीष्माचार्यः वसुमनसाङिरससंवादमप्यनुवदन् प्रजापालननीतिम् उपदिदेश।

प्रजारक्षणम्

क्षतात् त्रायत इति क्षत्रिय इति व्युत्पत्त्या वर्णाश्रमेषु अनितरसाधारणस्य महाराजस्य  आद्यं कर्तव्यम् भवति प्रजानां सर्वप्राणिनां च रक्षणम्। प्रजाः प्राणिनश्च अरक्षिताश्चेत् अन्यत् किमपि कर्म कृत्वा प्रयोजनमेव नास्ति राज्ञः। न केवलं क्षुद्रपशुभ्यः प्रजारक्षणं किन्तु परस्परकलहवारणेनापि राजा स्वकर्म निर्वर्तयेदिति।

राजमूलो महाप्राज्ञ धर्मो लोकस्य लक्ष्यते।

प्रजा राजभयादेव न खादन्ति परस्परम्[9]

एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः।

अन्धे तमसि मज्जेयुरगोपाः पशवो यथा॥

नियामकाभावे सकलविधविपदामाश्रयः स्यात् यः कोऽपि देशः। यथा एकस्मिन् कुटुम्बे स्वजीवननिर्वहणे स्वात्मानं व्यापारयति सति एक एव यजमानः कुटुम्बिनां कृते सन्मार्गदर्शको भवति। सर्वेऽपि यजमाना भवन्ति चेत् कुटुम्बपालनं दुःशकं स्यात्। तद्वत् धर्ममार्गानुसारी अधीतिबोधाचरणप्रचारणसम्पन्नः शूरश्च एक एव राजा स्वप्रजाः पालयितुं शक्नोति। यथा शशिसूर्यानुदये सति लोकः अन्धे तमसि पतति तद्वत् राजानुदये प्रजा अप्यन्धे तमसि मज्जेयुरिति भीष्मः नियामकस्य अनिवार्यतां प्रतिपादयामास।

धर्मकर्मरक्षणेन प्रजापालनम्

राज्ञां न केवलं प्रजानां शरीररक्षणं कर्तव्यं भवति। किन्तु अधर्मप्रवृत्तानां धर्ममार्गप्रदर्शकत्वेनापि प्रजापालनं कर्तव्यमिति भीष्मोक्तिः स्पष्टयत्यत्र-

धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम्।

अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः॥

यजन्ते च महायज्ञैस्त्रयो वर्णाः पृथग्जनैः।

युक्ताश्चाधीयते विद्यां यदा रक्षति भूमिपः[10]

स्वस्वधर्माचरणे प्रवृत्तिमुत्पाद्य तत्रागमिष्यमाणानान्तरायांश्च नाशयित्वा धर्मस्यापि परिरक्षणं राज्ञः कर्तव्यम्। अद्यतनकालेऽपि मन्त्रिभिः अयं विचारः अवश्यमनुसन्धेयः।

संस्कृतिरक्षणम्

देशे वर्तमानाः जनाः सुसंस्कृताश्चेदेव सः देशः पूज्यतमो भवति। जनाः सुसंस्कृताः भवेयुश्चेत् तत्रत्या संस्कृतिः विशिष्टा भवेत् शिष्टपरिगृहीता च। मातापित्रोश्च आदरः, गुरुषु भक्तिः, वृद्धानां सेवा, अतिथिपूजनमित्यादिकं संस्कृतावन्तर्भवति। अनेन संस्कृतिरक्षणेन परम्परया प्रजानामपि रक्षणं भवतीति भीष्ममतिः-

मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्।

क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत्॥ इति।

प्रजापालनतत्परस्य राज्ञः किं फलं स्यात् ?

यत्किमपि कर्म कर्तव्यं चेत् तत्र फलं किमित्यधिजिगमिषा बाधते सर्वान् प्रवृत्त्यवच्छिन्नं प्रति फलस्य कारणत्वात्। अतः प्रजापालनेन मम किं प्रयोजनमित्याकाङ्क्षा स्यात् कदाचित् महाराजस्यापि। अतः प्रजापालनेन किं फलमिति भीष्माचार्यः प्रोवाच।

कृत्वा सर्वाणि कार्याणि सम्यक् सम्पाल्य मेदिनीम्।

पालयित्वा तथा पौरान् परत्र सुखमेधते॥

किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि।

सुपालितप्रजो यः स्यात् सर्वधर्मविदेव सः[11]

स्वप्रजारक्षणमेव आद्यं कर्तव्यं भवति राज्ञाम्। वस्तुतः राज्ञः कृते किमपि जपानुष्ठानं वा यज्ञानुष्ठानं वा प्रधानपात्रं नावहति। केवलं प्रजारक्षणेनैव इहामुत्रफलप्राप्तिः भवतीति अत्र तात्पर्यम्।

स्त्रीरक्षणनीतिः

समाजे विद्यमानाः स्त्रिय अपि प्रजावर्गे एव अन्तर्भवन्ति। तासामपि विशेषतया परिरक्षणं कर्तव्यं राज्ञा इति भीष्माचार्यः वसुमनसाङ्गिरसयोः संवादमनुवदन् अब्रवीद्यथा-

स्त्रियश्चापुरुषा मार्गं सर्वालङ्कारभूषिताः।

निर्भयाः प्रतिपद्यन्ते यदि रक्षति भूमिपः[12]

साम्प्रतिके काले अस्य महत्वं वर्तते। पत्या सहिता वा पुत्रसहिता वा स्त्रियः भयं विना मार्गे सञ्चरणं कर्तुं कदाचित् नैव शक्नुवन्ति। केवलं पुरुषैर्विना स्त्रीणां गमनं चेत् का वा गतिरित्यस्माभिः विचारणीया। राजा यदि समीचीनतया पालयति चेत् तदानीं अद्यननकालेऽपि निर्भयाः प्रतिपद्येरन् स्त्रियः। एवं च स्त्रीरक्षणमपि राज्ञः कर्तव्यमिति तस्य प्रासङ्गिकता।

धर्मसम्मतेन करग्रहणेन प्रजापालनम्

करनीतिरिति पृथक्ततया परिगण्यमानापि प्रजापालनप्रक्रियायामियमपि महत् स्थानं भजते। धर्मोक्तकरविधानेनैव राजा स्वप्रजाः पालयेत्। यथेच्छं करः स्वीकियते चेत् प्रजानां कृते जीवननिर्वहणं कष्टाय स्यात्।  षष्ठांशवृत्तिरित्येव व्यवहृतो राजा स्वप्रजासम्पादितसम्पदः षष्ठांशमेव स्वीकुर्यात्। तदुक्तं भीष्माचार्येण-

बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्।

शास्त्रानीतेन लिप्सेथा वेतनेन धनागमम्॥

दापयित्वा करं धर्म्यं राष्ट्रं नीत्या यथाविधि।

तथैतं कल्पयेद् राजा योगक्षेममतन्द्रितः[13]

करग्रहणेन राजा स्वप्रजाकरं गृह्णाति। अस्य अर्थं स्पष्टयति करग्रहणस्य उद्देश्यम्। प्रजाकरगृहीतकरः राजा स्वस्य हेतोः तत्तत् धनं नोपयुङ्क्ते किन्तु प्रजानामेव हितार्थं सः ताम् सम्पदं विनियोजयेत्। अवश्यं स्मृतिपथमागच्छत्यत्र रघुवंशमहाकाव्ये चित्रितः दिलीपः यथा-

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्।

सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः[14]॥ इति।

जलमादाय सूर्यो यथा सहस्रगुणभूयिष्ठं जलं वर्षति तद्वत् राजापि करं गृहीत्वा सहस्रगुणितं कृत्वा जनहितायैव उपयोजयेदिति। करग्रहणे यदि धर्मः पाल्यते चेत् गृहीतप्रजाकरोऽपि सः राजा अवश्यं प्रियकर एव भवेत्। अन्यथा यमकिङ्करवत् प्रजाः राजानं परिभावयेयुः।किञ्च ब्राह्मणानां प्रतिग्रहादिना द्रव्यार्जनं कुर्वतां प्राचीनकालेऽपि करग्रहणं प्रायः नासीत्। ब्राह्मणानां पक्षतः न कदापि धनं राजा स्वीकुर्यात् इति ब्राह्मणसम्पद्ग्रहणं निषेधति भीष्माचार्यः-

मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः।

अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत॥

धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः।

सान्त्वयन् परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम्[15]॥ इति।

ब्राह्मणानां विषये महान् आदरः प्रदातव्यः। तेषां  रक्षणमपि कर्तव्यम्।  यदि अधीतवेदः अधिगतशास्त्रः षट्कर्मनिरतः ब्राह्मणः भवति तदा समाजः स्वस्थः भवेदिति आशयोऽत्र प्रकटितः। अद्यापि पुरोहितानां कृते करविधानं न श्रूयते। एवं करनीतिरपि प्रजापालननीतावन्तर्भवतीति वक्तुं शक्यम्।

पूर्वोक्तेषु विषयेषु नीतिमनुसरन् स्वसुखमप्यविगणय्य प्रजानामुत्तमगतिहेतोः देशस्य प्रगतिहेतोश्च राजा सर्वदा प्रयतमानो भवेत्। तदेव प्रतिज्ञातम् रामेण-

स्नेहं दयां च सौख्यं च यदि वा जानकीमपि।

आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा[16]।। इति।

प्रजानां सेवा इत्युक्ते एकमाराधनमिति भावनया पुरा राजानः प्रजारक्षणं कुर्वन्ति स्म। एवमेव अस्माकं सचिवाः भावयन्ति चेत् अस्माकं देशः इतोपि समृद्धः स्यात्। जगतीतले अनुपमं स्थानं च प्राप्नोतीत्यत्र नास्ति विप्रतिपत्तिः। भर्तृहरिरपि मुक्तकण्ठेनेवमुवाद-

राजन् दुधुक्षसि यदि क्षितिधेनुमेनां  तेनाद्य वत्समिव लोकममुं पुषाण।

तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नानाफलं फलति कल्पलतेव भूमिः[17]॥ इति।

शान्तिपर्वणि भीष्माचार्यः वसुमनाङ्गिरससंवादव्याजेन प्रजापालनविषये राज्ञां पावकभास्करयमादिदेवतासादृश्यं स्वकर्मानुगुण्येन प्रदर्शयति। अयं विचारः अस्माकं राजकीयक्षेत्रे अवश्यमनुसर्तव्यः।

पापदहनविषये राज्ञ अग्निसारूप्यम्

यदा ह्यासीदतः पापान् दहत्युग्रेण तेजसा।

मिथ्योपचरितो राजा तदा भवति पावकः[18]

सत्यनिष्ठो राजा स्वावच्छिन्नतेजसा सर्वपापान् दहति चेत् तदा सः अग्नितुल्यः स्यादिति।

योगक्षेमविषये राज्ञः भास्करस्वरूपम्

यदा पश्यति चारेण सर्वभूतानि भूमिपः।

क्षेमं च कृत्वा व्रजति तदा भवति भास्करः[19]

सामान्यजनानां तु वस्तुगतरूपादिज्ञानं नयनादीन्द्रियैः  सम्भवति। विदुरः नृपाणां कृते विशिष्टमेव वाक्यं वदति-“चारैः पश्यन्ति राजानः” इति। देशस्य यः कोऽपि सचिवः वा शासकः स्वकर्तव्यविषये यं कमपि साक्षात् पृच्छति चेत् यः कोऽपि जनः राज्ञः दोषं न कथयति। कथयति चेत् किमपि कष्टं जायेत इति भयेन सदा गुणानेव प्रकाशयति। प्रजान्तःकरणविद्यमानं राजशासनविषयकमभिप्रायं अव्यभिचरितं ज्ञातुं कश्चन चार एव प्रेषणीयः। पुरा रामोऽपि प्रजामानसगतविचारान् चारमुखादेव ज्ञातवान्। नृपाणां गुणो वा दोषो वा अवगन्तव्यश्चेत् चार एव नयनरूपेण कार्यं करोति। अत एव  चारैः पश्यन्ति राजानः इति विदुरस्य विशिष्टं वचनम्। अत्रापि भीष्माचार्यस्तदेव कथयति यत् चारमुखादेव प्रजानां योगक्षेमं राजावलोकयेदिति। अस्माकं राजतन्त्रे निर्वाचनानन्तरं प्रजाभिप्रायस्य अवकाश एव नास्ति। अद्यतनकाले केचन मन्त्रिणः धर्ममार्गभ्रष्टाः प्रायशः सर्वे निर्वाचनकाले(Election) विजयप्राप्त्यर्थं प्रजामतं (Vote) याचकवत् याचन्ते। याचकवेषेणैव मतं याचयित्वा राज्यप्राप्त्यनन्तरं कश्चन याचकः आगच्छति चेदपि तस्मै किमपि न ददति सचिवाः। निर्वाचनकाले अशनवसनधनादिवस्तुप्रदानेन जनान् सन्तोष्य जनमतं सम्पादयन्ति। अधर्मेण राज्यं सम्प्राप्य अधर्मेणैव राज्यं पालयन्ति अद्यतनसचिवाः। अन्ये केचन मन्त्रिणः धर्ममार्गरता अपि सम्प्रति वर्तन्ते इति नितरां मोमुद्ये। ये तु अधर्ममार्गनिरताः सन्ति तैरवश्यं भीष्मोक्तनीतिरनुसरणीया।   

धर्मविषये राजा साक्षात् यमः

यदा त्वधार्मिकान् सर्वांस्तीक्ष्णैः दण्डैर्नियच्छति।

धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा[20]

धर्मरक्षणविषये अधर्मनाशविषये च राजा स्वयं यम इव स्वप्रजासु व्यवहरेत्। अन्यथा जनाः अधर्ममार्गनिरताः सन्तः स्वराजानमपि आपत्कूपे पातयेयुः। अधर्ममार्गे स्वात्मानं धन्यं मन्यमानैः सचिवैः अयं पन्थाः अनुसर्तव्यः इति अभिप्रायस्यास्य प्रासङ्गिकता समस्ति।

अर्थविषये राज्ञः कुबेरसारूप्यम्

यस्य जनस्य समीपे अधिकतया सम्पद्वर्तते तस्मादपकर्षणं कृत्वा राजा निर्धनस्य कृते स्वयं दद्यादिति वदति भीष्मः।

श्रियं ददाति कस्मैचित् कस्माच्चिदपकर्षति।

तदा वैश्रवणो राजा लोके भवति भूमिपः[21]

अयं च अत्यन्तमपूर्वः अंशः। लोके प्रजानां धनसंपदादिविषये अवलोकयामश्चेत् केचन अत्यन्तं श्रीमन्तः, केचन जनाः अत्यन्तं दरिद्राः अन्ये च सामान्याः भवन्ति। एवं महदन्तरं सम्पद्विषये समस्ति लोके। अस्य परिहाराय भीष्मोक्ता नीतिरवश्यमनुकरणीयास्माकं मन्त्रिभिः। एवं च राजा पापक्षयकर्मणि स्वयं पावकः, प्रजायोगक्षेमकर्मणि भास्करः, धर्मसंस्थापनायां साक्षात् यमः अर्थविषये स्वयं वैश्रवणो भूत्वा स्वप्रजाः परिपालयेत्। अयमेक एव विचारः अस्माकं सचिवमानसे राराजेत चेत् प्रजाः अवश्यं सुखेन जीवन्तीति मन्मानसम्।

उपसंहारः

इत्थं च समग्रदेशस्य अभ्युदयार्थं राज्ञा प्रजापालनविषये के के उपायाः शरणीकरणीयाः, स्वप्रजारञ्जनार्थं राज्ञः कर्तव्यं किमित्याद्यनेकविषयान् सहृदयहृदयहारितया उपवर्ण्य भीष्मः अमृतसमानवचनधारया धर्मराजमभिषिषेच। विदुरेण नीत्युपदेशं सम्प्राप्यापि दृतराष्ट्रः प्रजापालननीतिपालने न शशाक। अस्मिन् देशेऽपि बहवः धृतराष्ट्राः सन्ति धृतं राष्ट्रं येन सः धृतराष्ट्रः इति समासाश्रयणेन । प्रजापालननीत्यनुसरणे ते सर्वेऽपि धर्मराजा भूत्वा भीष्मोक्तदिशा स्वप्रजाः औरसान् पुत्रानिव पालयन्ति चेत् प्रजाः भ्रान्ताः भवेयुः कोऽस्माकं पितेति।

एवं च स्थालीपुलाकन्यायेन अत्र काश्चन एव नीतयः उपस्थापिताः। भारतसंविधानेऽपि धर्मशास्त्रोक्ता एव नीतयः प्रकाशन्ते। तत्प्रयोजनाधिकारिणः अस्माकम् अधिकारिणः भवन्ति चेत् समग्रं राष्ट्रं जगति इतोप्यतिशयेन राराजेत इत्यलं पल्लवितेन।

 

 

 

 

 

 

 

 

उपयुक्तग्रन्थसूची

  • अमरकोषः -अमरसिंहप्रणीतः। संक्षिप्तमाहेश्वर्या टीकया सहितः। निर्णयसागर प्रेस्, मुम्बयी, १८१८
  • उत्तररामचरितम्-भवभूतिविरचितम्।

डा. रमाकान्तत्रिपाठिद्वारा हिन्दि-संस्कृतव्याख्यानाभ्यां परिष्कृतम्। वाराणसीस्थचौखम्बासुरभारतीप्रकाशनद्वारा प्रकाशितम्। चतुर्थावृत्तिः-१९९९

  • नीतिशतकम्-भर्तृहरिप्रणीतम्-
  • महाभारतम्-व्यासमुनिविरचितम्। नीलकण्ठकृतया भारतभावदीपाख्यया टीकया समेतम्।

पुण्याख्यपत्तने शङ्करनरहरिजोशिमहोदयेन  प्रकाशितम्, १९२९-१९३६

  • रघुवंशमहाकाव्यम्- महाकविकालिदासप्रणीतम्।

सञ्जीविनीव्याख्यासहितम्। कृष्णनाथपाण्डुरङ्गपरबश्रीनिवास

तुकारामजावजीद्वारा प्रकाशितम्। मुम्बयी १९१६

  • विदुरनीतिः-मुद्रकः तथा प्रकाशकः मोतीलाल जालान, गीताप्रेस्, गोरखपुर्
  • श्रीमद्भगवद्गीता-राजानकरामकण्ठकृतसर्वतोभद्राख्यया व्याख्यया समेता।

पण्डितमधुसूदनकौल्शास्त्रिणा परिष्कृता। श्रीहरिसिंगजीबहादूरमहाराजेन प्राकाश्यं नीता। मुम्बयी निर्णयसागरमुद्रणालयः, १९४३।

  • A Vedic Concrodance

By Maurice Bloomfield. Published by Motilalal Banarasidas Private Limited, Delhi

 

 

[1] भगवद्गीता-४.१३

[2] वा.सं.-२२.२२

अत्र सायणभाष्यम्-राजन्यः क्षत्रियश्चेदृश आ जायताम्। कीदॄशः? शूरः पराक्रमी। इषव्यः इषुभिर्विध्यतीति। यद्वा इषौ कुशलः। अतिव्याधी अत्यन्तं विध्यतीति। शत्रुभेदनशीलः। महारथः एकः सहस्रं जयति सः।

[3] पा.सू.३.२.९९

[4] अ.को.तृ.कां. नानार्थवर्गः-३२

[5] नैव राज्यं न राजासीन्न च दण्डो न दाण्डिकः।

धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम्॥ शान्तिपर्व- अ.५८ श्लो. १४. पृ.सं.९२

[6] शान्तिपर्व- अ.५८ श्लो. १३२, १३३. पृ.सं.९६

[7] शान्तिपर्व- अध्यायः ६९, श्लो. सं.५९

[8] रघुवंशम्-स.१.श्लो.सं,२४.

[9] शान्तिपर्व-अध्यायः ६८, श्लो. सं. ८

[10] महाभारतम्,शान्तिपर्व- अध्यायः ६८, श्लो. सं ३३.३४

[11] महाभारतम्, शान्तिपर्व- अध्यायः ६९, श्लो. सं. ७२, ७३

[12] महाभारतम्,शान्तिपर्व- अध्यायः ६८, श्लो. सं. ३२

[13] महाभारतम् शान्तिपर्व अध्यायः ७१, श्लो. सं. १०,११

[14] रघुवंशम्-१.१८

[15] महाभारतम्,शान्तिपर्व- अध्यायः ७१, श्लो. सं. २२,२३

[16] उत्तररामचरितम्-अ.१.श्लो.सं.१२

[17] नीतिशतकम्- ४२

[18] महाभारतम्,शान्तिपर्व- अध्यायः ६८, श्लो. सं. ४२

[19] महाभारतम्,शान्तिपर्व- अध्यायः ६८, श्लो. सं. ४३

[20] महाभारतम्,शान्तिपर्व- अध्यायः ६८, श्लो. सं. ४५

[21] महाभारतम्,शान्तिपर्व- अध्यायः ६८, श्लो. सं. ४७[/vc_column_text][/vc_column][/vc_row]