भारतीयसंस्कृतौ तन्त्रशास्त्रम्
वेदोपनिषद्गीतादिभारतीयपवित्रग्रन्थपङ्क्तौ महोच्चं स्थानमलङ्करोति परापरतत्त्वज्ञानेन सह मन्त्रतन्त्रप्रयोगयागविग्रहाराधनाद्यनुष्ठेयक्रियासहस्रवि-षयगोचरं तन्त्रशास्त्राख्यं धर्मशास्त्रम् । एतत्तु सन्तापमयसंसारकान्तारस्य अग्निना अखिलार्तिहारिणा हरिणा ब्रह्मणे समुपदिष्टमासीत् । बुद्धमहावीरकालादपि व्याकरणसूत्रकारपाणिनेरपि, गीतामनुस्मृतिकाराभ्यामपि बहु प्राचीनं तच्छास्त्रं वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धचतुर्मूर्त्यात्मकस्य भगवत आराधनं विदधत् पुरा भरतभूमौ सर्वत्र सम्यक् लब्धप्रचारमेवातिशयेन जृम्भते स्मेति ग्रीक्रराजदूतस्य मेगास्तनिसो लेखै: चीनायात्रिकलेखैरनेकैः शिलालेखैश्च सुस्पष्टमवगम्यते । तन्त्रशास्त्रं तावत् ऋषिकुलप्रणीतम् । मुनिजनाः साक्षात्कृतवैदिकमन्त्राः। एते न केवलं पारत्रिकलोकाप्तये प्रायतन्त किन्तु, तदनुगुणां तदनुकूलां सर्वभूतहितावहां साधनपद्धतिमपि साक्षादकुर्वन् तां शास्त्रदीपेन प्रादर्शयन् च । तदेतत् शास्त्रं तन्त्रशास्त्रसंज्ञया प्रथितम् । `भारतस्य प्राचीनतमशास्त्रेषु तन्त्रशास्त्रमन्यतमम् ।
किं नाम शास्त्रम् ?
मानवानां ऐहिक – आमुष्मिकाभिवृद्ध्यर्थं अनेकानि शास्त्राणि प्राचीनानि अर्वाचानीनि च दृश्यन्ते । तत्र प्राचीनभारतीयशास्त्रेषु वैदिकतन्त्रशास्त्रं अनुपमं अत्युपयुक्तं च। तत्त्वान्वेषणाय एतच्छास्त्रमतीवावश्यकम्। प्राचीनविदुषामनुग्रहेण लब्धमिदं शास्त्रं अद्यतनकालेऽपि प्रस्तुतमुपयुक्तं च। तत्र तावत् किं शास्त्रमिति विचार्यते । शास्तीति शास्त्रमिति व्युत्पत्त्या “शासु – अनुशिष्टौ ” इति धातुना निष्पन्नं पदम्। अस्मिन् जीवने किं कार्यं किमकार्यमिति निर्णेतुं यत्प्रवृत्तम् तदेव शास्त्रमित्युच्यते । तदेवोक्तं भगवता श्रीकृष्णेन गीतायां –
“तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।” इति।
यद्यपि एतादृशास्त्रपदवाच्यत्वं शास्त्राभासेष्वपि वर्तते । तथापि ते शास्त्रत्वेन न गृहीतुं योग्याः। एवं चेत् किं शास्त्रमिति शङ्कायाः परिहारः श्रीमध्वाचार्यैः स्वग्रन्थे –
“ऋगाद्याः भारतं चैव पुराणं पंचरात्रकम् ।
मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥
इति प्रमाणपुरस्सरं कानि शास्त्रपदवाच्यानि भवन्ति इति निरूपितम्।
तन्त्रपदस्य अर्थनिरूपणम्
तन्त्रशब्दस्य व्याख्यानं प्राचीनैः एवं क्रियते –
“तनोति विपुलानर्थान् तत्त्वमन्त्रसमन्वितान्।
त्राणं च कुरुते यस्मात् तन्त्रमित्यभिधीयते”॥
तन्त्रमिति पदे अक्षरद्वयं वर्तते । तत्र त इति प्रथमाक्षरस्य अर्थः श्लोकस्यास्य पूर्वार्धन उच्यते। त्र इति द्वितीयाक्षरस्य अर्थः उत्तरार्धेन प्रतिपाद्यते। तथा च साधनावश्यकान् तन्त्रमन्त्रयुक्तान् बह्वर्थान् प्रतिपादयत् यच्छास्त्रं रक्षणं करोति तच्छास्त्रं तन्त्रमिति अभिधीयते। इदं तन्त्रशास्त्रं प्रायोगिकविज्ञानं तत्त्वज्ञानाङ्गभूतं वर्तते।
तन्त्रप्रभेदः
भारतीयवाङ्मयप्रपञ्चे नैकानि तन्त्रशास्त्राणि लभ्यन्ते। वैष्णवशाक्तशैवकापालिकादिभेदेन तानि प्रसिद्धानि । परन्तु बहूनि दृश्यमानानि तन्त्रशास्त्राणि तामसोपयोगाय प्रयुक्तानीति दष्टव्यम् । मुख्यतया तन्त्रशास्त्रे त्रयो विभागाः दृश्यन्ते। रुद्रसर्वोत्तमत्वप्रतिपादकाः शैवतन्त्राः, शक्तिपारम्यप्रतिपादकाः शाक्ततन्त्राः, विष्णुपारम्यप्रतिपादकाः वैष्णवतन्त्रा इति। सात्त्विकराजसतामसभेदेनापि इदं विभज्यते । तत्र सात्विकं अनर्थदूरां स्वपरहितोभयकारिणीं सफलतरां सिद्धिं विधातुमलम् । दृश्यते हि लोके सात्विकसिद्धिसम्पन्नैः शापानुग्रहशक्त्या शिष्टरक्षणदुष्टशिक्षणे विधीयेते, तद्व्यतिरिक्ततया तामससिद्धिमद्भिः वामाचारादिना क्रियमाणा अनर्थपरम्परा च । क्रमेण एतेषामालम्बनभूताः तन्त्रग्रन्थाः सात्विकराजसतामसभेदेन व्यवह्रियन्ते । सात्विकतन्त्रग्रन्थेषु साक्षात् विष्णुना रचितः तन्त्रसाराख्यः अन्यतमः । अतिविस्तृतोऽयं ग्रन्थः कालव्यालकवलीकृतः, येन जनानां अप्रतीकारा हानिः समापद्यत ।
तन्त्रशास्त्रस्य विषय:
तन्त्रशास्त्रेष्वपि मुख्यं प्रतिपाद्यं भगवत्तत्वमेव । विविधाः मन्त्राः, पूजाक्रमः, प्रतिमा प्रतिष्ठापनार्थं देवालयनिर्माणविधिः, प्रतिमानिर्माणविधिः, प्रतिमाप्रतिष्ठायाः पूर्वं बिम्बशुद्धिमारभ्य प्रतिमाधिवासपर्यन्तविधयः, प्रतिमाप्रतिष्ठापनविधिः, सन्निधानाभिवृद्ध्यर्थं कलशाभिषेकविधिः, तथा अनेकविधाः न्यासाः, निरूप्यन्ते । गर्भगृहस्य शुद्धिः तत्र वास्तुपूजा विधिः, तथा प्रायश्चित्तविधिः, जीर्णोद्धारविधिः इत्याद्दनेके प्रधानभूताङ्गभूताश्च प्रतिपाद्यन्ते । विशेषतः सर्वेषु तन्त्रशास्त्रेषु मन्त्रोद्धरणं क्रियते । मन्त्राणां गोपनीयत्वेन सूचनैव दीयते । न तु स्पष्टतया प्रतिपाद्यते । यतो हि ते च मन्त्राः गुरुमुखादेवावगन्तव्याः । एवं चानेके अनुष्ठेयाः फलप्रदाः विषयाः तन्त्रशास्त्रेषु निरूपिताः । अपरश्च यमनियमाद्यष्टाङ्गोपेतः योगः योऽयं जगति भारतीययोगदानत्वेन प्रथितः सोऽपि तन्त्रशास्त्रस्य विषयः | योगस्य कर्मणश्च सम्बन्धस्तन्त्रशास्त्रे प्रत्यपादि । विना योगेन प्राणायाम – ध्यान, समाधिरूपेण अनुष्ठानस्य साफल्यं नास्ति । ध्यानादियोगेऽपि षट्चक्रचिन्तनादिरूपाः सबीजनिर्बीजभेदेन भिन्नाः नैकविधाः योगाः तन्त्रशास्त्रेषु प्रतिपाद्यन्ते ।
तन्त्रशास्त्रस्य माध्वपम्परायाः योगदानं बहु वर्तते । माध्वैः बहवः ग्रन्थाः रचिताः । तत्र केचन अत्र निरूप्यन्ते।
तन्त्रसारसङ्ग्रहः
तन्त्रसारसङ्ग्रहः श्रीमदाचार्यरचिता अपूर्वतमा कृतिः । कल्पवृक्षवत् सकलाभीष्टप्रदायको ग्रन्थवर इति त्रिविक्रमाचार्या : मुक्तकण्ठमिमं ग्रन्थं श्लाघितवन्तः । पूर्वं परमकारुणिक: परमात्मा समेषां सज्जनानां वाञ्छितार्थप्राप्तये सप्तोटिमहामन्त्रानुपदिदेश । न तान् सर्वान् जप्तुं सर्वे प्रभवन्ति । अतः संसिद्धसप्तकोटिमहामन्त्राः श्रीमदानन्दतीर्थभगवत्पादाचार्यास्तेषु मन्त्रेषु सारभूतान् द्वासप्ततिसङ्ख्याकानष्टसङ्ख्याकांश्च मन्त्रान् अस्मिन् तन्त्रसारसङ्ग्रहे उपदिदिशुः । सर्वाभीष्टदा: सर्वारिष्टनिवारकाश्चैते मन्त्राः । भगवतः षोडशोपचारपूजाविधानं होम-तदङ्गस्थण्डिलादिविधानं चक्राब्जादिमण्डलक्रममर्चानिर्माणप्रकारं देवालयनिर्माणप्रकारं च प्रत्यपीपददत्राचार्यवर्यः । देवालयोपयुक्ते आगमशास्त्रे, शिल्पशास्त्रे च श्रीमदाचार्याणां अनुपमपाण्डित्यस्य निदर्शनभूतः अयं ग्रन्थः, भगवदाराधनजपादिप्रकारप्रदर्शनेन सज्जनानां सात्विकसदाचारशीलजीवनस्य सर्वदा मार्गदर्शनं करोति ।
सदाचार स्मृति:-
सर्वाश्रमिणां सर्ववर्णिनां च नित्याचाराः च संक्षेपेणोक्ताः । नित्याचार विषये अयमेव अणुग्रन्थः । अत्र विशेषतः प्रत्याचरणं हरिसंस्मरणं विहितम् । अत एवास्य नामैव वक्ति सतां आचार: निर्दुष्ट आचारः इति सदाचार भवति । अतः सज्जनानां यः निर्दुष्ट आचारः स एव सदाचारः भवति। आचारस्य निर्दुष्टत्वं च वेदविहितत्वं भगवदर्पणबुद्ध्या फलकामनाराहित्येनानुष्ठेयत्वम् । तादृश सदाचारस्य प्रतिपादकोऽयं ग्रन्थः सदाचारस्मृतिरिति नाम्ना प्रथितः । अतः तन्त्रशास्त्रस्थ आचारविषये अयं ग्रन्थः योगदानं विदधाति ।
पद्यमाला –
इयं कृतिः टीकाचार्य इति प्रथितेन जयतीर्थयतिना विरचिता । पद्यमाला शब्दस्य पद्यानां छन्दोबद्धश्लोकानां मालिकेति नामनिर्वचनेनैव श्लोकरूपोऽयं ग्रन्थः इति ज्ञायते । अत्र विस्तरेण देवपूजाविधिः निरूप्यते । आसनदेवताः अत्र अपूर्वतया उक्ताः। आवाहनविषये अनुसंधानं, षोडशोपचारपूजा च अत्र अपूर्वतया निरूपितम्। नैवेद्यविषये विस्तरेणानुसंधानं चात्र निरूपितम् । एवं पूजाविषये निःसन्देहेन प्रक्रिया निरूपितेत्यत्यपूर्वोऽयं ग्रन्थः ।
यतिप्रणवकल्पः –
अस्य यतिप्रणवकल्पस्य कर्ता विष्णुतीर्थः । अयं विष्णुतीर्थः आचार्य मध्वस्यानुजः | अस्मिन् ग्रन्थे संन्यासिनामाचारं विशेषतः वक्ति, तथा वृन्दावनप्रतिष्ठापनादिकं वृन्दावनस्य पूजाविधिमपि वक्ति, तथा संन्यासिनां नित्यकर्तव्यपूजाविधिमपि निरूपयति | अतः अयं ग्रन्थः तन्त्रशास्त्रस्य विशेषविषयस्य प्रतिपादकत्वात् विष्णुतीर्थैः योगदानं कृतम् ।
योगदीपिका
नारायणपण्डिताचार्येण रचिता योगदीपिका अपूर्वतया सत्कर्मप्रयोगान् वैष्णवसंप्रदायानुसारेण वक्ति । अत्र मण्टपसंस्कारादिविषयान् नित्यानुष्ठानं चक्राब्जमण्डललक्षणं च प्रधानतः विव्रियते । अत एव अस्य योगदीपिकेत्यन्वर्थं नामधेयम् । नारायणपण्डिताचार्येण तन्त्रशास्त्रस्य महत् योगदानं अनेन ग्रन्थेन कृतम् ।
तन्त्रशास्त्रस्य उपयोगः
तन्त्रशास्त्रं मूलतः तत्त्वज्ञानमेव। तत्त्वज्ञानार्जनोपायाः, अर्जितस्य तत्त्वज्ञानस्य प्रत्यक्षतः सिद्धेरुपायाश्च तन्त्रशास्त्रस्य लक्ष्याः । तन्त्रशास्त्रस्य विषयान्तर्गताः ये मन्त्र-पूजा-होम-यज्ञ-यन्त्र-व्रतोपवासादयः ते आरुरुक्षूणां साधकानां तत्त्वज्ञानप्राप्त्युपायाः, तथा, आरूढानां अपरोक्षज्ञानिनां तत्त्वज्ञानफलभूताणिमादिसिद्धेः प्राप्तिद्वारा स्वयमनुभवितुं जिज्ञासून् प्रति ताः सिद्धीः प्रदर्श्य तन्मनसि तत्त्वज्ञानमहत्त्वमनुभावयितुं चोपायाः ।
उपसंहरः
एतत् शास्त्रं साधकानां सिद्धानां च महोपकारकम् वर्तते । अस्मिन् तन्त्रशास्त्रेऽनारूढासक्तिः कोऽपि तत्त्वतः तत्त्वज्ञानी भवितुं नार्हति । अपूर्वाः प्रमेयाः प्रतिपादिताः तथा आचमनादारभ्य स्नानविधिः, संध्यावन्दनं, देवपूजादिविषयाणां मार्गदीपिका भवति । यतो हि-“विष्णुस्मृति विहीना तु पूजा स्यादासुरी मता” इति हरिस्मरणपूर्वकं पूजादीनां कर्तव्यत्वं निर्दिष्टम् । तथा अध्यात्मचिन्तकानामपि भगवद्रूपाण्यनुसन्धातुं मार्गदर्शकः, एवं सर्वविधानां जिज्ञासूनां योग्यतानुसारेण मानसिकस्थित्यनुसारेण च कर्मणि मनोयोगं दीपयति । सत्कर्म प्रतिपादकत्वात् तद्वारा अन्तःकरणशुद्धिः, शुद्धान्तःकरणे भगवत्तत्वज्ञानं, तत्वज्ञानेन भगवदपरोक्षः, अपरोक्षेण भगवद्प्रसादः, भगवतः पूर्णप्रसादेन स्वस्वयोग्यतानुसारेण स्वरूपाभिव्यक्तिरूपः मोक्ष एव परमं प्रयोजनम् अस्य वर्तते। तन्त्रशास्त्रं सर्वैः तत्त्वज्ञानार्थं, भगवत्प्रसादार्थं, ऐहिकफलार्थमपि आश्रयणीयमेव भवति ।
End notes
भगवद्गीता, १६.५ प्रकाशन – गीताप्रेस्, संवर्सरः – २०२०
2 स्कन्दपुराण, प्रकाशन – गीताप्रेस्, संवर्सरः – २०००
3 भारतीय संस्कृतिकोश, खंड ३, संपादक महादेवशास्त्री जोशी
Name -Vinaya kumara
Poorna prajna samshodhana mandiram
Bengaluru
Ph – 77975377382
Email- vinaykumardesai1008@gmail.com