ब्रह्मसूत्रे जन्माधिकरणे आदिपदविवेचनम्

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

ब्रह्मसूत्रे जन्माधिकरणे आदिपदविवेचनम्

Dr N Venkatesha Rao, MA,PhD
Associate Prof.
Dept of Sanskrit
SSSIHL, Brindavan Campus
Kadugodi Post, Bangalore-560067

E Mail – nvenkatesharao@sssihl.edu.in

भारतीय वैदिकसाहित्ये ब्रह्मसूत्राणां अनितरसाधारणगौरवं दृश्यते।वेदानाम् अनन्तशखावत्वात् तस्य निर्णयः न ज्ञेयः सुलभतया सुक्ष्मदर्शिभिरपि।एवं सति मीमांसाबलेन बादरायणः    वेदनिर्णायकब्रह्मसूत्राणि  रचयित्वा वेदार्थमार्गं पामाराणां पण्डितानां च प्रदर्शितवान् । ।तस्य विषये एकविंशतिभाष्यकाराः प्रसिद्धाः। तत्रापि मतत्रयाचार्यैरपि भाष्याणि विशेषतया विरचितानि।

ब्रह्मसूत्रे द्वितीयं सूत्रं तावत् “जन्माद्यस्य यतः”।तत्र जन्मादिपदे प्रस्तुतस्य  आदिपदस्य अर्थः श्रुत्याधारितरीत्या मताचार्यैः विचारितः।तस्य  विवेचनस्य किरणाःप्रदर्शिताःलेखनेsस्मिन्। प्रतिपदमपि विवेचयतां ,”तदर्थःप्रथितयशसामपि दुरधिगमः” इति विनम्रता जायते विदुषां विमर्शकाणां च ।प्रायः “विद्या ददाति विनयं” ह्येषा सूक्तिः साधु संगच्छते वेदान्तविषये।अत एव कृष्णेन निर्णीतं, पार्थाय प्रतिबोधितम् “अध्यात्मविद्या विद्यानां”इति।या विद्या विनयं न प्रतिष्ठापयति, स्वात्मानमपि निगूह्य स्वाहंकारताम् मनसि वपति, किम्  तया विद्यया।याज्ञीयोपनिषष्च्चाह ‘’किम् तेन न कृतं पापं चोरेणात्मापहारिणा”इति। तेन स्वात्मवन्चनं,  निखिलजगद्वन्चनं च नितरां समाचरितम् खलु।  तादृशस्वात्मबोधजागरणनिरते वेदान्तमूलभूते ब्रमसूत्रविषये व्यासराजविरचिततात्पर्यचन्द्रिकायां विमृष्टं विषयं किंचिद्वक्तुं प्रयत्नोsयम् कृतो मया।इयं तात्पर्यचन्द्रिका मध्वाचार्यविरचितस्य ब्रह्मसूत्रभाष्यस्य टीकाभूतायाः तत्वप्रकाशिकायाः टिप्पण्यात्मिका।तस्याः राघवेन्द्रगुरुसर्वभौमविरचिता,प्रकाशा नाम टिप्पणी,रामाचार्यविरचिततरंगिणीनाम्नी टिप्पणी,पाण्डुरंगीकेशवाचार्यविरचिता  भावदीपिका इत्याद्यः टिप्पण्यः  सन्ति।

ब्रह्मसूत्रस्य स्थानम् 

भारतीयदार्शनिकप्रपन्चे वेदानां स्थानमुत्तमम् ।प्रमाणतमेषु ग्रन्थेषु वेदानां सदृशं प्रमाणं नान्यदस्ति। वेदयन्ति इति वेदाः –एतादृशव्युत्पत्या अतीन्द्रियस्वरुपं परमात्मानं च निरूपयितुं नैव साध्यं वेदेतरैः प्रमाणैः। परं तु पापं,पुण्यं तदितरसाधनं  च परमत्मा च वेदैरेव ज्ञायते। तत्र प्रत्यक्षं न प्रविशति ।नाप्यनुमानम् ।अत एव साधूक्तम् ‘’वेदाः हि एव एनं वेदयन्ति तस्मादाहुर्वेदा’’ इति (भाल्लवेयश्रुतिः-भा।दी।ब्र।सू-1-1-3-पृ।सं-68)तथैव प्रमाणान्तरमपीदमेवाह-नावेदविन्मनुते तं बृहन्तं सर्वानुभुमात्मानं सांपराये(तैत्तिरीय।ब्रा.3-12-9) ।सर्वानुभुं नाम  सर्वज्ञं तं  बृहन्तम् सर्वोत्तमं आत्मानं अवेदवित् नाम वेदविज्ञानरहितः पुरुषो, न मनुते नाम न जानात्येव।वेदेनैव सः ज्ञेयः। यथा सर्वेsपि वायुं स्वीकृत्यैव जीवन्ति । उच्छ्वास निश्वासादिना खलु जीवति जीवः। तथापि वायुमात्रस्वीकारादिना जीवन्तः मुनय एव केवलं वायुभक्षा इति व्यवह्रियन्ते ।एवं अनितरप्रमाणगम्यं अतीन्द्रियं वस्तु ,तथा भगवन्तमप्यावेदयन्तीति वेदानामेव वेदकत्वप्रशस्तिः।“असाधारण्येन व्यपदेशा भवन्तीति” न्यायमिदमेव समर्थयति। ईदृशमसदृशप्रमाणं अपौरुषेयतया परमोच्चतममपि व्याख्यातृपुरुषबुद्धिबलात् भिन्नरीत्या विव्रियते।अहो,परमं प्रमाणमपि विवादास्पदमभूत् विद्वत्प्रभया।विद्वद्भिःआपोरुषेयतया वक्तृपुरुषतात्पर्यमेवमिति नैव साध्यं वक्तुं ,नैव निर्णेतुमपि  शक्यम् ।अनन्तशाखामये वेदे ‘’इदमित्थमिति”” को वा जानीत? तदर्थं वेदतात्पर्यसमवलोकनार्थं ब्रह्मसूत्राणि निर्ममे भगवान् वेदव्यासः।

यस्तु नैव रचितवान् ब्रह्मसूत्रस्य भाष्यं,तेन सर्वथा दुरधिगमा, मताचार्य इति प्रतिष्टा विद्वज्जनलोके।तादृशं महत्वपूर्णस्थानं ब्रह्मसूत्रस्य दार्शनिकपपन्चे रूढमूलम्।  

सूत्रं नाम किम्?

 षिवु तन्तुसन्ताने इति धातोः(दिवादिगणपठितः)षिवुमुच्योष्टेरूच इति वार्तीकबलात् ष्टन् प्रत्यये  तदनन्तरं टेरूवे सति    सूत्रमितिशब्दनिष्पत्तिः।अन्यरीत्या सूत्र ग्रन्थने इति धातोःणिच प्रत्यये, एरच् इति सूत्रेणSच् प्रत्यये च सति  सूत्रमिति शब्दनिष्पत्तिः।

अमरकोशकारस्तु सूत्रशब्दं एवं “सूत्राणि नरितन्तवः”(अमरकोशः-का।2।वर्ग-10श्लोक 

28)इति  वस्त्रारम्भकतन्तौ सूत्रशब्दं निर्धारितवान् ।“मयि सर्वमिदं प्रोक्तं सूत्रे मणिगणा इव” इति कृष्णवचनमपि एतदर्थे संवादि। वादिराजश्रीचरणस्तु “सूचनात् सूत्रमुच्यत’’ इत्युक्त्वा सूचनं सूत्रार्थत्वेन न्यवादीत् ।अन्तिमतया निर्णयसूचनात् ,तत्पोषकन्यायग्रथनात्मकत्वाच्च  सूत्रत्वं सिद्धम्।तत्रापि यथा गीता नाम भगवद्गीतैव गृह्यते, नान्यं उद्धवगीता वा कपिलगीता वा भिक्षुगीता वा।‘’निर्विशिषितशब्दः प्रधानमेव सर्वदा वक्तीति’’ नियमः खलु। एवमेव सूत्रं नाम प्रमुखतया ब्रह्मसूत्रमेव स्वीक्रियते।नैव पणिनीसूत्रमथवा योगसूत्रमितरं वा ।

“निर्विशेषितसूत्रत्वं ब्रह्मसूत्रस्य चाप्यतः”(म।भा-1-1-1) इति प्रमाणहृदयमपीदमेव। 

तत्र द्वितीयसूत्रं “जन्माद्यस्य यतः” इति।अस्मिन्  सूत्रे आदिशब्दार्थःकः?

  1. केचन जन्मादिपदेन सृष्ट्या सह स्थितिकारणत्वं मन्यन्ते।जन्म नाम सृष्टिः,तथा आदिपदेन स्थितिः,जन्मन अनन्तरम् स्थितिरेव क्रमभाविनीति पामरा अपि मन्यन्ते खलु। एतदुभयकारणत्वं ब्रह्मणः संगच्छत इति प्रवदन्ति।तथा च आदिपदेन स्थितिरेव ग्राह्या-इति तेषां भावः।
  2. अपरे तु जन्मादिपदेन स्थितिमात्रमभिप्रयन्ति।ब्रह्म नाम विष्णुः,  स तु केवलं स्थितेः कारणं,नापि जन्मन इति तेषां मतम् ।यथा चित्रगुः इति शब्देन (चित्राणि गावः यस्य सः चित्रगुः इति) नापि चित्राः, नापि गावः तत्रोच्यन्ते। ।तद्वान् कश्चन चैत्रः प्रतिपाद्यते चित्रगुशब्देन।ईदृशं विवेचनं अतद्गुणसंविज्ञानबहुव्रीहिरिति कथयन्ति।एवं अतद्गुणसंविज्ञानबहुव्रीहिसमासमाश्रित्य जन्मादिपदेन नैव जन्म स्वीकार्यम् ।केवलं स्थितिरेव।विष्णुं स्थितिकारणमिति निगमा नितरां निगदन्तीति तेषां हृदयम् ।श्रीवैष्णवमते केचन एवं अभिप्रयन्ति)
  3. अपरे तु जन्मादिपदेन सृष्टिस्थितिसंहाराः ग्राह्याः- इति वदन्ति।जगतः यथा जन्मsस्ति, तथा स्थितिरपि,लब्धा स्थितिरपि जगदनन्तरम नूनं  नश्यतीति प्रसिद्धम्। एवं  नाशान्तरं पुनः जन्म कालान्तरे संभवतीति    सर्वसाधरणतया जन्मादित्रिकं ग्राह्यमिति मतं तेषाम् ।“सृश्टिस्थितिलयकरण गोविन्द” इति महिमाग़ानस्य  परिधिरपि एतावदेव कथयति ।विशिष्टाद्वैतवादिनः-श्रीभाष्यम् )
  4. अन्ये तु जन्मादिपदेन न केवलम् जन्मदित्रितयम् ।अपि तु जन्माद्य्ष्टकं स्वीकार्यमिति वदन्ति।एते द्वैतमतप्रतिष्टापकस्य मध्वाचार्यस्य पन्थीयाः।

तेषां वादः एवं प्रचलति–: न केवलं  जन्मदित्रितयं श्रुतेरभिप्रायः।श्रुतेः सूक्ष्मावलोकनेन जगतः त्रितयवस्थाः नोच्यन्ते।परं तु तदरिक्ता तुरियाsवस्थाsपि स्फुटतरं  प्रोच्यते।“यतो वा इमानि भूतानि जायन्ते,येन जातानि जीवन्ति,यत्प्रयत्यभिसंविशन्ति”(प्रयन्ति तथा अभिसंविशन्ति-इति वदति)प्रयन्ति नाम लयः ।अभिसंविशन्ति नाम  किम्?विशन्ति नाम प्रवेशः।सं विशन्ति नाम संपूर्णप्रवेशः।यस्मिन प्रवेशेन सम्पूर्णं सुखम् अनुभवति यस्मादधिकसुखं नास्ति  तदेव सम्यक् प्रवेशः।स तु संपूर्णसुखानुभवरूपा मुक्तिरेव।तथा च मुक्तिरपि श्रुतौ शब्देनैव प्रतिपादिता।अतः चतुर्थव्यापारस्वीकरणमवश्यमभूत् ।

  1. एवं चतुर्विधव्यापाराणामेव श्रुतत्वात् सृष्त्याद्यष्टकं कुतो स्वीकार्यम्?इति प्रश्नः।

समाधानं एवमस्ति–

 तदितर चतुरवस्थाः श्रुत्याSन्यथानुपपत्या सूचिताः।अत स्वीकार्यमिति भावः। 

तथा हि।यथा मुक्तिरत्र प्रतिपदिता । मुक्तिः न केवलं घटादिरेव देया भवति।

यथा हि औषधिः विना रोगं न देया, तथा  ,संसारौषधिः परमनित्यसुखरुपा

मुक्तिरपि पूर्ववर्तिसंसाराद्विना नोपपद्यते।यस्तु राजा अपराधिनं बन्धने कारागृहे स्थापयति ,स एव तं मोचयितुं समर्थः।नान्यः तं मोचयितुं प्रभवति।

एवमेव ईश्वरः यदा मोचक इत्यभ्युगम्यते तदा ‘’भवपाशाच्च मोचक”-इत्य न्यथानुपपत्तियुक्त्या स एव बन्धक इत्येवमभ्युपगन्तव्यम्।इदं न केवलं युक्तिसिद्धम् ।

  1. जन्म्याद्यष्टकस्वीकारः स्मृतिसिद्धः।

‘’बन्धको भवपाशेन भव पाशाच्च मोचकः’’।(अनु-1-1-1)

एवं सः बन्धनावस्थाप्रदायक इति सिध्यति।तच्च बन्धनं भगवता विना कारणं प्रदातुं नैव शक्यते।तथात्वे सः निर्घृणः इति भवेत् ।तथा  च तत्कारणीभूतं अज्ञानं अपि भगवता दीयत इति सिद्धम्।यथा बन्धकारणं अज्ञानं तेन दीयते तथा मोक्षकारणीभूतं ज्ञानमपि तेन देयमेव।तथा च प्रमाणमिदं ज्ञानं,अज्ञानं,बन्धनं,सूचयित्वा साक्षाद् वाच्यतया मुक्तिमपि भगवदधीनतां साधयति।

अज्ञानां ज्ञानदो विष्णुः ज्ञानिनां मोक्षदश्च सः।

आनन्दश्च मुक्तानां स एवैको जनार्दनः।।(अनुव्याख्यानं-1-1-1-श्लोक 5)

मोक्षदस्तु जनार्दनः( अनुव्याख्यानं-1-1-1-श्लोकः 15)

ऋ)श्रुतयश्च  जन्माद्यष्टकव्यापारान् नितरां निरूपयन्ति।

चतुर्भिः साकं नवतिं च नामभिश्चक्रम् न वृत्तम् व्यतीरवीविपत्(ऋ.सं.1-155-6) 

परोमात्रया तन्वा वृधान ,न ते महित्वमन्वश्नुवन्ति, न ते विष्णो जायमानो न जातः,देवो महिम्नः परमन्तमाप।(ऋ.सं.7-99-1)

यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा(ऋ.सं.10-82-3)

यः एक एव “नः” सर्वेषामस्माकं “ जनिता ’ जनयितैव “पिता”(तथा च पितृवन्निमित्तकारणमेव भगवान्, नोपादानकारणं ब्रह्मेति स्फुटमभूत् , न दत्तपितृवत् पालकपितृमात्रम् ,जनयिता च।“ यो विधाता ” विशेषेण धारकः पोषकः(स्थितिदायकः),यः-विश्वानि सर्वाणि भुवनानि तद्गत धामानि गृहाणि जीवादिस्वरूपाणि च वेद जानाति।(पोषणोपयुक्तसर्वशक्तिमत्वं,सर्वज्ञत्वं च श्रुत्या

स्पष्टं प्रतिपादितम् ।

अत्र मुक्तौ ज्ञानानन्ददानरूपपोषणमपि विचिन्त्य सृष्टिस्थितिसंहारमुक्तितदुपपदकसर्वज्ञत्वमपि  भगवति निरूपितम् ।

ए) एका श्रुतिः विषयवाक्यतया सम्मता-तथाsपि तथ्यं सुदुर्लभम्।

यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व तद्ब्रह्म।(तै।ऊ।3-1)

इयं  श्रुतिस्तु जन्माद्यस्य यतः इति प्रकृतसूत्रस्य विषयवाक्यतया मतत्रयाचार्यैरपि स्वीकृता।अत्र अभिसंविशन्तीतिपदेन मुक्तिवचनात् सृष्टिस्थितिसंहारमुक्तिव्यापाराः प्रतिपादिताः।

य उ त्रिधातु पृथिवीमुतद्याम् एको दधार भुवनानि विश्वा।(ऋ।सं।1-154-5)

यो विष्णुः “एकः” एव त्रिधातु प्रकृतिपुरुषकालधारकः पृथिवीं भूमिं द्यां श्रियं च विश्वा सर्वाणि च भुवनानि दाधार नाम दधारेत्यर्थः।

एवं च “स्रृष्टिः,संहारः,प्रळयः,ज्ञानं,अज्ञानं,बन्धः,मोक्षः”यथा भगवतैव भवतीति स्वीक्रियते तथा नियमनमपि स्वीकार्यम् ।बन्धं दत्वा मोचनकालपर्यन्तं

तन्नियमनं,परिपक्वकाले जाते सति ज्ञानं प्रदाय तदनन्तरं खलु मोक्षदानं।मुक्तिं अनुगृहीत्वा तदावस्थां नित्यतया  नियमनं एवं नियमनरूपमपि स्वीकार्यं।तथा च स्रुष्ट्याद्यष्टकं स्वीकार्यं एव खलु।

अत्र प्रयोजकव्यापारवाचिसृष्टिसंहारनियमनशब्दैर्लक्षणया प्रपन्चनिष्ठजन्म,स्थिति।नाश,नियमनव्यापाराः प्रतिपाद्यन्ते।लक्षणाप्रयोजनं तु ब्रह्मण उपादानत्वाभावपरप्रदर्शनमिति चन्द्रिकोक्तिः।सृष्ट्यादीनामष्टानां च प्रत्येकं लक्षणत्वं ,न तु समुदायरूपेण।अतिव्यप्त्याद्यभवात् ।एतच्च लक्षणं अनन्तगुणपूर्णत्वस्यप्युपलक्षणम्।एकेनोपलक्षणसंभवेsपि मुमुक्षुज्ञेयत्वात् सार्थकमष्टानां वचनम् ।यथोक्तम् महाभारततात्पर्यनिर्णये 

सृष्टिरक्षा हृतिज्ञाननियत्यज्ञानबन्धनान् ।।

मोक्षं च विष्णुतश्चैव ज्ञात्वा मुक्तिर्नचान्यथा।।(प्रथमाध्यायः)

अतः अष्टव्यापारकर्तृत्वज्ञानादेव मुक्तिरितिवचनात् तदेवोक्तमत्र इति श्रुतेरभिप्रायः।

ऐ) सर्वावस्थाः जन्मन्येवावन्तर्गताः-अतः अष्टव्यापारग्रहणं किमर्थम् ? इति प्रश्नः-

सर्वा अवस्थाSपि सृज्यत एव।मुक्तिरपि सृज्यते।बन्धस्य ध्वंसःनाम उत्पद्यमाना मुक्त्यवस्था खलु । तथा च सृष्टिरेवाSस्तु।संहार अपि भविष्यत्येव।तथा च सोSपि सृष्टिरेव।तयैवाSलम्।किं बहुप्रकारेण ?इति।

तस्योत्तरमेवम् निरूपितम् -: संहारस्तु भावविलक्षणतया प्रत्येकं खलु।सृष्टिरपि भावरूपतया संहारात्  प्रत्येकावस्था।स्थितिरपि  सृष्त्यनन्तरम्, परं तु संहारात् पूर्वं अवस्थीयमाना सती साsवस्था  प्रत्येकतां प्रतिष्ठापयति।नियमनमपि वस्तुधर्म-क्रियादि नियन्त्रणतया सिद्धा।जननी शिशुं नियन्त्रयति,राजा भृत्यं नियमयतीति व्यवहार एव दृश्यते।मुक्तिस्तु ध्वंसादतिरिक्ता सती सुखमयी च संभूय प्रत्येकं तिष्ठति।तथा च चत्वारावस्थाः,अन्यथाsनुपपत्या तदितरचतुरवस्था समाहत्य जन्माद्यष्टकस्वीकारः समुचितः।   

ओ) जन्मनः प्रथमग्रहणे कारणवर्णनम्

ननु न पौर्वापर्यमिच्छन्ति नद्यां भ्राम्यद्भ्रमेरिव(भा-3-11-30)इति तृतीयस्कन्धोक्तप्रकारेण दर्शपूर्णमासतिथ्योरिव जन्मसंहारयोरनादित्वात् कथं जन्मनः स्थित्यदिषु  प्राथम्यम् ?इति चेन्न।सत्यमेवं, तथापि लब्धजन्मनः

स्थित्यिदिरितिवत्, स्थितस्य नष्टस्य वा नेत्येकव्यक्त्यपेक्षया जन्मनः प्राथम्यम् 

औ) कुतो चतुष्पदेन अष्टस्वीकरणम्?उपपत्तिसिद्धं भवतु, किम् तेन प्रयोजनम्?

 अस्योत्तरम् एवमस्ति।श्रुतयः एव प्रमाणं।

एतद्वाक्योपलक्षितेषु “य आत्मनमन्तरो यमयति” इत्यादि वाक्यान्तरेषु नियमनादीनामपि श्रवणात् विवेकिभिः सृश्ट्याद्यष्टकं स्वीकार्यमिति।तच्छृतेः पूर्णपाठस्तु एवमस्ति—य आत्मनि तिष्टन् आत्मनोSन्तरो, यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति एष ते अंतर्याम्यमृतः (बृ, ऊ, मध्यन्दिन पाठः पृ सं 210)

यतः प्रसूता जगतः प्रसूती ( यस्मात्  जगतः प्रसूती नाम सृष्टिः,सा, भगवता प्रसूता उत्पन्ना इति।

“त्वं मुक्तिदो बन्धदोSतो मतो,नस्त्वम् ज्ञानदोSज्ञानदश्चासि विष्णो”(न्या,सु,प-उ।वाक्यं )

तत्वप्रदीपकारस्तु सूत्रस्य बहूनि श्रुतिवाक्यानि विषयवाक्यतया समुदाजहार।

तत्र जन्माद्यष्टकसम्मुलेखात् युक्तमिदमष्टव्यापारस्वीकरणमित्यभिप्रैति जन्मादीत्यत्र स्थितेनाSदिपदेन।

 यतः प्रसूता जगतः प्रसूती (सृष्टिः) 

सर्वे  निमेषा जज्ञिरे विद्युतःपुरुषदधि (सृष्टिः)

यस्मिन्निदं सं च विचैति सर्वं यस्मिन देवा अधि विश्वे निषेदुः(स्थितिः)

वेनस्तत्पह्यन् विश्वा भुवननि विद्वान् यत्र विश्वं भवत्येकनीळं(संहारः)

विवेश भूतनि चराचरणि ।(प्रवेशः-तदन्यथानुपपत्या नियमनम्) 

येनादित्यस्तपति तेजसा भ्राजसा च ( नियमनम्)

ऋतस्य तन्तुं विततं विवृत्या तदपस्पश्यत्,  तदण्डमण्भवत् प्रजास्विव (अज्ञानबन्धौ)

य येनं विदुरमृतास्ते भवन्ति( मोक्षः)पृ।सख्या 174-175

  1. नन्वथापि बहुस्वीकारमस्तु ,अष्ट इत्यवधारणं कुतः? 

      सृष्टिः स्थितिः संहृतिश्च नियमोSज्ञानबोधने

     बन्धो मोक्षः सुखं दुःखमावृतिर्ज्योतिरेव च।।

इति तत्वसंख्यानोक्तरीत्या सुखादिकमपि ईशाधीनमिति भाव्यमेव,,कुतो न स्वीकृतम्? सृष्ट्यद्यष्टकस्यैव ग्रहणे कारणं किं ?

टिप्पण्ण़याचार्यचक्रवर्तीतिविख्यातः राघवेन्द्रतीर्थस्तु स्वीये भावदीपटिप्पण्यां एवमुत्तरमाह-सूत्रकृतैव स्कान्दपुराणमपि रचितम् ।अष्टादशपुराणकर्ता 

वेदव्यासः पुराणान्तरमिव स्कन्दपुराणमपि रचितवान् ।सूत्रे जन्मादीत्यत्यत्र कियदंशाः ग्राह्या आदिपदेनेति निश्चेतुं  पुराणान्तरसमवलोकनम् कार्यम् ।तत्र 

स्कन्दपुराणं  एवं वक्ति

सृष्टिस्थितिष्चसंहारः नियतिर्ज्ञानमावृतिः।

बन्धमोक्षौ च पुरुषौ यस्मात्  स हरिरेकराट्।।(मध्वभाष्य-उ-स्कन्दवाक्यं) 

एवं  सृष्टिः,स्थितिः,संहारः,नियमनं,ज्ञानं,आवरणम( अज्ञानं),बन्धः,मुक्तिश्च यस्माद् भवति स हरिः ,एकराट् नाम स्वतन्त्रः-इति तदर्थः।

अपि च वेदार्थचिन्तनक्रमोSपि तत्वमिदमेव पुष्णाति।

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।

बिभेत्यल्पश्रुताद्वेदः मामयं प्रचलिष्यति।

तथा च पुराणमार्गेणैव  वेदार्थः ग्राह्यः।तथा च पुराणसमाख्यबलात् सृष्ट्यद्यष्टकर्तृत्वं प्रमाणसिद्धम्.

अः)लक्षणान्तरं गुणपूर्णत्वपोषणार्थम्-दोषाभावाच्च स्वीकार्यम्  

ननु ब्रह्मपदेन गुणपूर्णत्वं निश्चितम् ।तथा च तेनैव लक्ष्यनिर्णये किमनेन लक्षणान्तरेण? सत्यम।तथापि गुणपूर्णत्वं विष्ण्वेकनिष्ठं।यत स एव जगज्जन्मादिकर्ता अत एव गुणपूर्ण- इत्युपपदनार्थम् ।एवमेव च लक्षणस्य नातिव्याप्तिः ,नाSसम्भवश्च,तथा च लक्षणान्तरस्वीकारे नैव दोषः। ।

क)सूत्रे जन्मग्रहणस्य सार्थक्यम् 

सूत्रे जन्मादिति  कुतः गृहीतम् ?बद्दाद्यस्य यतः इति कुतो न? इत्येवम् प्रश्नः वेंकटपत्याचार्येण सूत्रार्थसंग्रहे समुट्टंकितः।

ननु बद्धस्य जन्मादीति बन्धस्य प्राधान्यात् “बद्धाद्यस्य यतः” इति वाच्यमिति चेन्न।बन्धः न सार्वत्रिकः।जन्मनः सार्वत्रिकत्वात् तदेव प्राधान्यतया स्वीकृतम् ,तदप्युचितमेव।नित्यमुक्ता लक्ष्मीः न कदापि बद्धा भविष्यति।कालः,आकाशस्यापि

बन्धनं नास्ति।परं तु पराधीनविशेषावाप्तिरूपा जन्म तु सार्वत्रिकम् ।  

वस्तुतस्तु जन्मनः प्राधान्ये करणमन्यदेव।सूत्रं तु श्रुत्यनुसारी भवेदेव।श्रुतिस्तु यतो वा इमानि भूतानि जायन्ते ,येन जातानि जीवन्तीति जन्मैवादौ स्वीकृत्य विचारं समारभे।अतः जन्मैव प्राधान्येन स्वीकृतं।

ख  ) ननु  केवलेन ध्वंसेनैव अलम् ।मुक्तिर्नाम संसारध्वंसः।अतः मुक्तिरपि ध्वंसे लीनमभ्युपैति।जन्माSपि ध्वंसे लीनं भवति।यतः प्रागभावध्वंस एव उत्पत्तिरित्यभिधीयते तेन ध्वंसेनैवालं,किमनया सृष्ट्या च ? इति प्रतिवचनं भवेत् ।अतः श्रुत्युक्तं जन्माSपि मास्तु इति प्रतिवादः प्रभवेत् ।अतः जन्म यथा पृथग् तथा स्थितिरपीति वक्तुं  शक्यम्। जन्मानन्तरं वर्धितुं यादृशावस्थाःक्लृप्ताः ताः स्थितिपोषकाः।तथा च थितिरपि पृथक् मन्तव्या ।तथा नियमनं पृथक् तिष्ठति।ज्ञानादिदानमपि पृथक् तिष्ठति।“माता वैरी पिता शत्रुः येन बालो न पाठितः” इति सूक्त्या उदरपोषणादतिरिक्तम् किंचिन्नियमनं तत्र श्रुतम् ।तदभावे

शत्रुत्वमेव शासितम् पोषकयोः पित्रोः,। एवमेव मोक्षो नाम न केवलं साधारणध्वंसः,संसारस्तु बहुजन्मानुस्यूतदुःखश्रुंखलः। अनादेः तस्य नाशः न सुलभसाध्यः।तदर्थं बहुजन्मनि साधनानि कृत्वा निरीक्षते।

तच्च महापुरुषार्थ इति शास्त्रोपदिष्टः।अतः प्रत्येकतया परिगणनमेव महदुचितकरम् ।सर्वप्रजाधिपः  महाराजः प्रत्येकतया खलु स्थीयते,सम्मान्यते,समाद्रीयते च।एवमेव मुक्तिरपि।

अपि च सुखरुपा सती सा मुक्तिः प्रत्येकं माननीयैव।   

ग)बहुगुणलाभार्थं बहुलक्षणानि,

यदि जन्म भगवतेत्युच्यते तदा जगज्जन्मोपयुक्तानां केषांचिद्गुणानां लाभेSपि स्थित्युपयुक्तगुणाः   तत्पदेन भगवति न लभ्यन्ते।अत सा  प्रत्येकं वाच्या। ।एवमेव संहर्तृत्वगुणलाभाय  तदपि वाच्यम् ।चैत्रः रूपं पश्यतीत्युक्ते तस्य चक्षुष्मत्वम् सिध्येत्।सः शब्दज्ञानवानिति  न सिध्यति।सः शब्दं श्रुणोतीत्युक्ते शब्दज्ञानवानिति लभ्यते।तद्वत् सर्वगुणपूर्त्यर्थमनेकोपपादकोक्तिर्युक्तेति भावः।

मुक्तिर्न ज्ञानमात्रलभ्या –परं तु भगवत्प्रसादजा 

केचन ज्ञानबलेनैव स्वभावतः अज्ञानं नश्यति।यथा दीपे प्रज्वलिते सति तमः नश्यति तथा –इति प्रवदन्ति। तत्तु चिन्तनीयम् ।तर्हि कुतो न मुक्ताः ? अपरोक्षज्ञानिन इति प्रश्नः प्रादुर्भवति।प्रारब्धकर्म प्रतिबन्धकमिति वादस्तु   विळंबेन कार्यं फलतीति प्रतिध्वनयति।वस्तुतस्तु स्वाभावमपि भगवदधीना । अन्यथा दहनशीलवह्नौ क्षिप्तः बालकः प्रह्लादः कुतो न दग्ध इति प्रशनः? नामस्मरणादेव सा वह्निगतशक्तिर्कुण्ठितेतेति प्रत्युत्तरेण च स्वभावः हर्यधीनेति सुस्पष्टा।

नर्ते त्वत्क्रीयते किंचिदित्यात्यादेर्न हरिं विना।।

ज्ञानस्वभावतोsपि स्यन्मुक्तिः कस्यापि हि क्वचित् ।।(अनुव्याख्यानं1-1-1)

न ऋते त्वत्क्रियते किंचनारे महामर्कं भगवन् चित्रमर्च

अरे भगवन् ,त्वद्विना किंचिदपि केनापि न क्रियते,अरे पूज्य,तव पूजां त्वमेव 

कुरुष्व, मद्वारा कारय इति।स्वभावोsपि  हर्यधीनः।

एवं आदिपदेन जन्माद्यष्टव्यापारकर्तृत्वं स्वीकार्यमिति श्रुतिस्मृतियुक्तिसमूहैः

प्रतिपादितमिति द्वैत्पन्थीयदार्शनिकानां हृदयं। 

विमृष्टग्रन्थाः

  • पारायणोपयोगी “ब्रह्मसूत्रभाष्यं”—उत्तरादिमठः-बेंगलूरु-2000
  • ब्रह्मसूत्रभाष्यं-तत्वप्रकाशिका-भवदीपटिप्पणी च:गुरुसार्वभौमश्रीराघवेन्द्रतीर्थप्रतिष्ठानम् आर्,एस् पंचमुखी-तृतीयमुद्रणं-धारवाडः-2003
  • जगन्नाथयतिविरचितभाष्यदीपिका- आनन्दतीर्थनागसम्पिगे,पूर्णप्रज्ञसंशोधसंस्थानं-बेंगलूर्य,2009
  • अनुव्याख्यानम् –द्वैतवेदान्त रिसर्च् फ़ौन्डेषन् ,के.टि.पाण्डुरंगी.बेंगलूरु,1991
  • तात्पर्यचंन्द्रिका,,पाण्डुरंगीव्याख्यानसहितम्,सं,वीरनारायाणपाण्डुरंगी,पूर्णप्रज्ञसंशोधसंस्थानं- बेंगलूरु 
  • तात्पर्यचंन्द्रिका –द्वैतवेदान्त रिसर्च् फ़ौन्डेषन् ,के.टि.पाण्डुरंगी.बेंगलूरु,2000

[/vc_column_text][/vc_column][/vc_row]