प्रशासनक्षमाः किल क्षत्रियाः

Dr. Shambhunath Bhat
Assistant professor
Dept of Samskrit and Vedic studies
Sri Satya Sai University for Human Excellence, Kalaburgi,
Muddenahalli Campus, Chikkaballapur, Karnataka 562101
shambhubakkal@gmail.com Ph- 9482493321

प्रबन्धसारः –

इह लोके मनुष्याः स्वभावेन भिन्नाः अपि समभावेन जीवनं यापयन्ति । जीवनस्य उत्कर्षः केन प्रकारेण स्यादित्येव शास्त्रस्य विचारः । अतः परमशास्त्रभूतः वेदः वर्णाश्रमधर्मः विदधाति । तत्र एकैकस्य स्वभावानुरोधेन तदुचितं कर्म प्रशस्यते । समाजस्य सुपरिपालनार्थं समेषामपि महद्योगदानं वर्ततेतराम् । सामाजिक-जीवने सम्पदाद्यर्जनं यथा प्रधानं स्थानमावहति तथैव तद्रक्षणमपि । अतः बहूनां ब्रह्मचारिगृहस्थादि-आश्रमिणां सम्यक् परिपालनं समाजस्वास्थ्यदृष्ट्या नितरामपेक्षितम् । 

प्रबन्धेऽस्मिन् संरक्षकप्रधानस्य क्षत्रियस्य स्वभावविषये विचारः प्रस्तुतः । विशेषेण क्षत्रियशब्दार्थः कः ? तत्र अपेक्षितानां गुणानां प्रस्तुतिपूर्वकं विचारः कृतः । गीता-सुभाषितादिष्वपि एते विचाराः कृताः । ते विचाराः एकीकृत्य प्रस्तोतव्याः । तत्र च उक्ताः विषयाः सम्यक् परिशीलनीयाः इति धिया एव अयमुपक्रमः । विस्तरभयात् केचनविचाराः एव इह् प्रस्तुताः । प्रत्येकं व्यक्तेः स्वभावस्य, कर्तव्यस्य च परिज्ञाने एव तत्तत्कर्मणि सम्यक् प्रवर्तितुमर्हन्ति । अधुनातने समाजेऽपि समानतायाः नाम्नि बहुधा अज्ञानं वरीवर्ति । तदपाकरणपुरस्सरं समाजजागृतिः एव प्रधानं लक्ष्यमस्य ।

प्रधानपदानि –

क्षत्रियः, स्वभावः, वर्णधर्माः, राजा, राजधर्मः, प्रशासनम्, पालकः,   

भूमिका –

जगति यत्किञ्चित् कार्यं भवतु तस्य एकः मुखरः अपेक्षितः । कार्यम् उत्तमं दुष्टं वा स्यात् । यशः प्राप्नोतु न वा प्राप्नोतु । समानमनस्काः एकत्रिताः भवेयुः । तेषां मनसि नायकेन स्व-चिन्तनम् अङ्गीकारार्हं कर्तव्यम् । एतत्सर्वं कर्तुम् एकः आयोजकः अपेक्षितः । स्वोद्दिष्टदिशि जनाः प्रेरणीयाः । यथा यथा कार्यं वर्धते तथा तथा अधिकाः जनाः तन्निर्वोढुम् अपेक्षिताः । ते सर्वे स्थिरं तेन समं कार्यं कुर्युः । एवं कर्तुं समर्थः यः स एव नायकः शासको वा भवति । 

क्षत्रियः 

अस्मिन् संयोजके क्षात्रगुणः प्रधानः भवति । समाजे कृतायां वर्णव्यवस्थायां क्षत्रिये वर्णे तस्य अन्तर्भावः । समान्यतः अयं बहुप्रधानः इति उच्यते । बहुप्रधानः इत्यस्य शरीरेण समर्थः बलिष्ठः इत्यर्थः भवति । मानवीये शरीरे बलस्य द्योतकः बाहुः एव । अत एव बाहुप्रधानः इति कथनम् क्षत्रियाणाम् । सामान्यतः गुणेन कर्मणा च व्यक्तेः वर्णः ज्ञातुं शक्यः । तदुक्तम् –

चातुर्वर्ण्यं मया स्रष्टं गुण कर्म विभागशः ।

  तस्य कर्तारमपि मां विध्यकर्तारमव्ययम् ॥ 

गुणाः सत्वादयः, तेषां प्राधान्याप्राधान्यभावेन कस्मिन् वर्णे अयमन्तर्भाव्यः इति निर्णेतुं शक्यते । गीताभाष्ये शङ्कराचार्यैः विषयः अयं निरूपितः – “गुणाः सत्त्वरजस्तमांसि । तत्र सात्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य ‘शमो दमस्तपः’ इत्यादीनि कर्माणि, सत्त्वोपसर्जनरजःप्रधानस्य क्षत्रियस्य शौर्यतेजःप्रभृतीनि कर्माणि, तम-उपसर्जनरजःप्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि, रज-उपसर्जनतमःप्रधानस्य शूद्रस्य शूश्रूषैव कर्म इत्येवं गुणकर्मविभागशः चातुर्वर्ण्यं मया सृष्टम् ।“

क्षत्रिये आधारः सत्त्वगुणस्य, तदुपरि रजोगुणः प्रधानः भवति । अत एव भाष्ये सत्त्वोपसर्जनरजःप्रधानः इत्युक्तम् । सत्त्वस्य अधिष्ठानत्वं यदि न भवति तर्हि राज्ञि जनानां सेवापेक्षया जनाः स्वसेवां कुर्युः इति भावः भवति । सत्त्वाधिष्ठानम् इत्यस्य सत्त्वप्रधानः (ज्ञानी-ब्राह्मस्वभाववान्) यः अस्ति तस्य आधारेण (मार्गदर्शनानुसारम्) राज्ञा स्वकर्तव्यम् अनुष्ठेयम् इत्यर्थः ।  राजा सर्वदापि ब्राह्मगुणस्य अधीने भवेदित्यर्थः। रजः प्रधानत्त्वादेव आक्रामकस्वभावयुक्ताः (aggressive) भवन्ति । अल्पेन तृप्ताः न भवन्ति । रजोगुणः सर्वदा चलनात्मकः अतः क्षात्रगुणयुक्ताः चलनात्मकाः अर्थात् सक्रियाः भवन्ति । कर्माणि अपि गुणस्य आधारेण एव निर्णेतुं शक्यानि – 

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ 

एतानि सप्त कर्माणि क्षत्रियैः सामान्यतः क्रियन्ते । भाष्यवचनं पश्यामः चेत् विचारोऽयं स्पष्टः भवति –“शौर्यं शूरस्य भावः, तेजः प्रागल्भ्यम्, धृतिः धारणम् (सर्वावस्थासु अनवसादः भवति यया धृत्या उत्तम्भितस्य), दाक्ष्यं दक्षस्य भावः, सहसा प्रत्युत्पन्नेषु कार्येषु अव्यामोहेन प्रवृत्तिः, युद्धे चापि अपलायनम् अपराङ्मुखीभावः शत्रुभ्यः, दानं देयद्रव्येषु मुक्तहस्तता, ईश्वरभावश्च ईश्वरस्य भावः प्रभुशक्तिप्रकटीकरणम् ईशितव्यान् प्रति क्षात्रं कर्म क्षत्रियजातेः विहितं कर्म क्षात्रं कर्म स्वभावजम् । 

एतेषां कर्मणाम् आधारेण तस्य व्यक्तेः स्वभावः ज्ञातुं शक्यः । एतेषां गुणानां प्राधान्याप्राधन्यज्ञानेन, कर्मणां च आचरणस्वरूपेण अयं क्षत्रिये वर्णे अन्तर्भवति उत अन्यस्मिन् इति निर्णेतुं शक्यम् ।

 सामान्यतः गुणाः कर्माणि च जनेन स्वेन अर्जनीयं वर्धनीयं च भवति । जन्म अपि अत्र कारणम् इति कथयितुं शक्यम् । जन्म एव कारणं न । प्रतिमानवं परम्परानुसारं गुणः स्वभावः च अनुवर्तते । DNA(Deoxyribonucleic acids) द्वारा केचन स्वभावजाः गुणाः परम्परानुसारं (hereditary) अनुवर्तन्ते इति उच्यते । अतः जन्म अपि गुणानां कर्मणां च आश्रयणे साहाय्यं करोति । क्षत्रियगुणयुक्ते वंशे क्षात्रस्वभाववानेव जनिं प्राप्नोति । अत एव वंशानुसारं शासनक्रमः राजतन्त्रे आश्रितः स्यात् । एवमेव भवेदिति नास्ति नियमः । एषः सार्वत्रिकः नियमः भवितुं नार्हति। अर्थात् जन्म एव वर्णनिर्णायकं भवति इत्यपि कथनं स्वीकारार्हं न । कदाचित् क्षत्रियवंशे अन्यवर्णस्वभाववानपि उत्पद्येत । कदाचित् ब्राह्मण-वैश्य-शूद्रादिष्वपि क्षात्रगुणस्वभाववान् उत्पद्येत । एतेषां बहूनि उदाहरणानि अपि भारतीयेतिहासे प्राप्यन्ते । कथञ्चित् जन्म कुत्रापि भवतु गुणः स्वभावः च क्षात्रवर्णयोग्यः अस्ति चेत् सः क्षत्रियः इत्यर्थः । 

एवं क्षात्रगुणयुक्ताः केवलं नायकाः भवितुमर्हन्ति । नेतृत्वं समर्थतया निर्वहति चेत् सः क्षत्रियः इत्यर्थः । क्षात्रगुणयुक्तः यत्र कुत्रापि भवतु सः राजते एव । संस्थायाः सङ्घटनस्य देशस्य वा प्रमुखः भवेदिति नास्ति । अयं गुणः भवति चेत् पुनः तस्य चयनं कर्तव्यं नास्ति । सः स्वयं तत्स्थानम् अर्जयति । प्राणिष्वपि अयं विशेषः भवतीति सुभाषितकारेण उच्यते – 

नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।

विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ 

सिंहः यथा स्वयं मृगेन्द्रः भवति तद्वत् क्षात्रस्वभाववान् यः भवति चयनाभावेऽपि सः नेता भवति एव । 

क्षत्रियस्य कर्तव्यम्

क्षात्रगुणयुक्तः क्षत्रियः इति सत्यमेव, किन्तु तस्य प्रधानं कर्तव्यं किम् इति कालिदासः इत्थं वदति –  

क्षतात् किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।

राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥

पीडितानां पीडानिवारणमेव क्षत्रियस्य प्रधानं कर्म । आर्तानाम् आर्तिनाशं यः करोति सः क्षत्रियः । यः एतस्माद्विपरीतः सः शस्त्रपाणिरपि क्षत्रियः न भवति । क्षतात् त्रायते इति क्षत्रियः इत्येव व्युत्पत्तिः । क्षि-क्षयैश्वर्ययोः, क्षि-हिंसायाम् इति च धातुभ्यां क्षत्रियशब्दः प्राप्यते । यास्कः पाणिनिः च क्षि-क्षयैश्वर्ययोः इत्यस्मादेव क्षात्रशब्दस्य प्राप्तिं दर्शितवन्तः । “क्षतात् त्रायते इति क्षत्रियः” इति यास्कः वदति । धातोः एकः अर्थः क्षयः इत्यस्ति । इह क्षयः इत्यस्य नाशः इति नार्थः, आश्रयः, निवासः इति वा अर्थः – “तुरङ्गगरुडौ तार्क्षौ निलयापचयौ क्षयौ” इति अमरे निलयार्थे क्षयशब्दः प्रयुक्तः । एवं च क्षत्रियः आश्रयप्रदाता भवेत् । द्वितीयः अर्थः अस्ति ऐश्वर्यम् इति । सर्वेभ्यः आश्रयं दत्त्वा सम्पदं यः वर्धयति सः क्षत्रियः । देशः आन्तरिकैः बह्यैः च शत्रुभिः यदा रक्ष्यते तदा सम्पत् वर्धते । यदा च सम्पत् वर्धते तदा देशस्य रक्षणं भवति । एवम् एतौ उभौ अपि परस्पराश्रितौ । यत्र आश्रयः भवति रक्षणं वा भवति तत्र सम्पद्वर्धते, यत्र सम्पत् भवति तत्र रक्षणं सुकरं भवति । एवं क्षि-क्षयैश्वर्ययोः  इति धातोः सकाशात् क्षत्रियः इति रूपस्य प्राप्तिः ।

अपरः धातुः अस्ति क्षि-हिंसायाम् इति । यः परान् शत्रून् दुष्टान् वा तापयति हिंसयति सः परन्तपः क्षत्रियः । दुष्टानां दमनं करोति इत्यतः हिंसार्थकः क्षि-धातुः अपि क्षत्रियशब्देन अन्वेति । अपि च मन्वादिभिः स्मृतिकारैः उपनाम्नां कथनावसरे क्षत्रियेभ्यः “वर्मा” इति कथितम् । वर्मा इत्यस्य कवचः इत्यर्थः –  

शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वंश दंशनम् ।

उरश्छदः कङ्कटको जागरः कवचोऽस्रियाम् ॥ 

यच्च रक्षति तत् वर्म । अर्थात् कवचात्मकं रक्षकम् इत्यर्थं । एवं क्षत्रार्थः रक्षणार्थः च वर्मन् शब्देन प्राप्यते । 

क्षात्रस्वभावः वैदिकवाञ्मये सर्वत्र दृश्यते । यदा समाजे अव्यवस्था भवति क्षात्रांशः तदा उदेति । व्यवस्था भवति इत्युक्तौ तत्र क्षात्रभावः अस्ति इत्यर्थः । देश-काल-नियमाः यदा आविर्भूताः तदा एव क्षात्रः अविर्भूतः । एवं च प्रकृतिसहजः अस्ति क्षात्रगुणः । यथाकालं सः आविर्भवति । देहे अपि श्वेतरक्तकणाः(white blood cells) देहस्य रक्षणमेव कुर्वन्ति । anti bodies यदा देहं प्रविशन्ति तान् निवार्य देहं रक्षन्ति श्वेतरक्तकणाः । एवं देहेऽपि क्षात्रस्वभावः श्वेतरक्तकणः । एषः क्षात्रः सत्त्वाधिष्ठितः भवेत् । अर्थात् ब्राह्मप्रभावितः भवेत् । तदा केवलम् आर्तानां पीडितानां रक्षणं भवति । मानवानां केवलं रक्षणं न, अपि तु सौम्यस्वभावयुक्ताः प्राणिनः अपि रक्षणीयाः – 

तत्साधु कृतसन्धानं प्रतिसंहर सायकम् ।

आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥ 

केवलं रजःप्रधानः भवति चेत् पीडकाः अपि रक्षिताः स्युः । एवं सत्त्वाधिष्ठितः क्षात्रः व्यवस्थापकः, क्षतात् आर्तानाम् आर्तिनाशकः भवति । 

अमरे क्षत्रियपर्यायवाचकाः शब्दाः निर्दिष्टाः –“मूर्धाभिषिक्तो राजन्यः बाहुजः क्षत्रियो विराट्”। राज्यप्रदानकाले मूर्धनि अभिषिच्यते इत्यतः मूर्धाभिषिक्तः । राज्ञः अपत्यं राजन्यः। बाहुभ्यां जातः बाहुजः अर्थात् बाहुप्रधानः । क्षदति क्षतात् त्रायते वा इति क्षत्रियः । क्षद-संवरणे इति धातोः “क्षदति” शब्दस्य निष्पत्तिः । क्षदति इत्यस्य आवृणोति इत्यर्थः । विशेषेण राजते इति विराट् । एवं क्षत्रियपर्यायवाचकाः शब्दाः । 

वेदे गोपाः, पशुपः, शर्धा, व्रातः इत्येवं क्षत्रियपर्यायवाचकाः शब्दाः प्राप्यन्ते । गुप्-रक्षणे इति धातोः गोपा इत्यस्य प्राप्तिः । तथैव गो-शब्दस्य भूमिरित्यपि अर्थः अस्ति । अतः पृथिव्याः पालकः इत्यर्थः प्राप्यते । एवं सर्वत्रापि क्षत्रियः रक्षकत्वेन प्रसिद्धः अतः क्षत्रियस्य कार्यं रक्षणम् । 

क्षत्रियेण क्षात्रगुणस्य स्वजीवने पालनार्थं श्रौताः यागाः अनुष्ठेयाः भवन्ति । यागानाम् अनुष्ठानेन परिसरशुद्धिः मनःशुद्धिश्च भवति । सत्त्वस्याधिष्ठानत्वं सिध्येत् इत्युक्तौ यागाः अनुष्ठेयाः । तत्रापि विशेषेण क्षत्रियेभ्यः विहिताः यागाः सन्ति । राजसूयः, वाजपेयः, सौत्रामणिः, अश्वमेधः इति प्राधान्येन चत्वारः यागाः । नूतनस्य राज्ञः आविर्भावं सूचयति राजसूयः । वाजपेयः सैन्यस्य सङ्घटनार्थं राज्यस्य पुनःसम्पादनार्थं च वर्तते । मैत्र्याः संवर्धने सौत्रामणिः । साम्राज्यस्य विस्तरणार्थम् अश्वमेधः । इत्येवं क्षत्रियैः अनुष्ठेयाः यागाः वर्तन्ते ।

उपसंहारः –

क्षत्रियाः इत्युक्तौ सामान्यानां मनस्सु युद्धायुधादीनां दृश्यमेव दृष्टिपथमायाति । किन्तु क्षत्रियाः, केवलं शस्त्रधारिणः क्रान्तिकारिणः न, ते शान्तिमार्गमपि जानीयुः । भारतीयेतिहासे प्रातःस्मरणीयाः क्षत्रियाः सर्वे शान्तिमार्गं, क्रान्तिमार्गं च सममेव अनुसृतवन्तः । साम्राज्यस्य विस्तरणार्थं, शत्रूणां दुष्टानां च निग्रहार्थं  सैन्यम् अपेक्षितम् । अर्थात् क्रान्तिमार्गः अनुसरणीयः । तत्सममेव  राष्ट्रे सङ्गीते, साहित्ये, वैज्ञानिके, शास्त्रे च विकासार्थं शान्तिमार्गः एव योग्यः । देशस्य शासकाः ये च प्रसिद्धाः ते सर्वेऽपि शान्तिक्रान्तिमार्गाणां समभावेन अनुसर्तारः आसन् । एवमुभयसत्त्वे एव राष्ट्रस्य विकासः सम्भवति ।

प्रधानाकरग्रन्थाः –

  1. Sri Shankarabhavgavatpada’s Srimad Bhagavadgita-bhasyam – Sri Dakshinamurti Matha Prakashana, Varanasi, 2015.
  2. श्री मद्भगवद्गीता । श्री मच्छाङ्करभाष्येण (अष्टटीका) संवलिता, चौखम्बा संस्कृत प्रतिष्ठान, दिल्लि -१९९९
  3. Subhashitaratnabhandagara – Kashinath Sharma
  4. Raghuvamsha of Kalidasa with Mallinathas Sanjivini commentary, Gopal Narayen & co, Bombay, 1922.