प्रथमस्वलक्षणे यावत्त्वविशेषणविचारः

लेखकः  – समीरः डि एस्, 

विद्यावारिधि (पिहेच् डि) शोधच्छात्रः

कर्नाटकसंस्कृतविश्वविद्यालयः

  उपोद्घातः

                 भारतीयषड्दर्शनेषु[1] अन्यतमत्वेन परिगणितं न्यायशास्त्रं प्राचीनन्याय-नवीनन्यायशास्त्रभेदेन द्वेधा कल्पितम् । प्राचीनन्याये प्रमेयाणां विषये विस्तृतनिरूपणं द्रष्टुं शक्यते । तथा नवीनन्याये विशेषतः प्रमाणानां निरूपणे दृष्टिः दत्ता । गङेशोपाध्यायनाम्ना[2] मैथिलपण्डितप्रवरेण विरचितः तत्त्वचिन्तामणिनामकः ग्रन्थः नवीनन्यायशास्त्रीयग्रन्थेषु मौलिमणितया परिगृहीतः, यस्मिन् युक्तिपुञ्जैः परमतनिराकरणपूर्वकं स्वमतस्थापनं कृतं दरीदृश्यते । सोऽयं ग्रन्थतल्लजः प्रत्यक्ष- अनुमान-उपमान-शब्दाख्यखण्डचतुष्टये विभक्तः । तत्र द्वितीये अनुमानखण्डे अनु-मित्युत्पत्तौ अत्यन्तावश्यकीभूतायाः व्याप्तेः स्वरूपस्य निरूपणं विशेषतः बहुप्रकर-णेषु कृतमस्ति । व्याप्तिप्रकरणेषु [3]

  • व्याप्तिपञ्चकप्रकरणम्
  • सिंहव्याघ्रलक्षणप्रकरणम्
  • व्यधिकरणधर्मावच्छिन्नाभावप्रकरणम्
  • पूर्वपक्षप्रकरणम्
  • सिद्धान्तलक्षणप्रकरणम्

इत्यादीनि अन्तर्भवन्ति । तत्र तृतीयं व्यधिकरणधर्मावच्छिन्नाभावप्रकरणम् चतुर्दशलक्षणीत्यपरनाम्नापि प्रसिद्धम् ।

व्यधिकरणधर्मावच्छिन्नाभावप्रकरणम् –

     अस्मिन् प्रकरणे व्याप्तेः चतुर्दश लक्षणानि आशङ्क्य निराकृतानि । तेषां नामानि इत्थं वर्तन्ते –

1. प्रथमस्वलक्षणम्                  2. द्वितीयस्वलक्षणम्

3. प्रथमचक्रवर्तिलक्षणम्              4. द्वितीयचक्रवर्तिलक्षणम्

5. तृतीयचक्रवर्तिलक्षणम्              6. प्रथमप्रगल्भलक्षणम्

7. द्वितीयप्रगल्भलक्षणम्             8. विशारदलक्षणम्

9. प्रथममिश्रलक्षणम्                10. द्वितीयमिश्रलक्षणम्

11. तृतीयमिश्रलक्षणम्              12. कूटाघटितलक्षणम्

13. कूटघटितलक्षणम्               14. पुच्छलक्षणम्

 इति ।

                 तत्र आद्यलक्षणाद्वयं तत्त्वचिन्तामणिव्याख्यात्रा रघुनाथ- शिरोमणिना स्वकृते दीधितिनामकव्याख्याने प्रदर्शितम् । अन्यान्यपि लक्षणानि अन्यैर्नैयायिकप्रवरैः कृतानि उपन्यस्तानि । प्रकृते प्रथमस्वलक्षणस्य स्वरूपमेवमस्ति –

 प्रथमस्वलक्षणम्[4]

    यत्समानाधिकरणाः साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकप्रति- योगिताकाः यावन्तोऽभावाः प्रतियोगिसमानाधिकरणाः तत्त्वम् । इति ।    अस्मिन् लक्षणे अभावे विशेषणतचतुष्टयं प्रविष्टमस्ति –  

  • हेतुमानाधिकरणत्वम्
  • साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकप्रतियोगिताकत्वम्  
  • यावत्त्वम्
  • प्रतियोगिसमानाधिकरणत्वम्  इति ।

 यावत्त्वविशेषणविचारः   अनिवेशे दोषकथनम्  

            यावत्त्वं नाम साकल्यम् । अत्र लक्षणे यावत्त्वविशेषणस्य निवेशाभावे लक्षणघटकानां सर्वेषामभावानां प्रतियोगिसामानाधिकरण्यं नावश्यकम्, किन्तु यत्किञ्चिदभावस्य प्रतियोगिसामानाधिकरण्यं सम्भवति चेदपि समन्वयो भवतीत्यापतति । परन्तु तथा सति सर्वत्र व्यभिचारिहेतुषु लक्षणस्य अतिव्याप्तिदोषः स्यात् । तथाहि यावत्पदाभावे –  यत्समानाधिकरणाः साध्यता- वच्छेदकावच्छिन्नव्यापकतावच्छेदकप्रतियोगिताका अभावाः प्रतियोगिसमानाधि- करणाः तत्त्वम् इति लक्षणं भवति । धूमवान् वह्नेरित्यादिव्यभिचारिहेतुषु यत्पदेन वह्निरूपहेतोः ग्रहणे तदधिकरणे पर्वते विद्यमानः अभावः समवायितया वाच्यत्वाद्यभावः । स  चाभावः साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकप्रति- योगिताकोऽपि भवति । साध्यतावच्छेदकम् – धूमत्वम्, तदवच्छिन्नधूमनिरूपिता व्यापकता वाच्यत्वे अस्ति , यत्र यत्र धूमः तत्र तत्र समवायितया वाच्यत्वाद्यभा- वीयप्रतियोगितावत् ( वाच्यत्वम् ) इति नियमात् । तस्मात् वाच्यत्वनिष्ठप्रतियोगिता धूमव्यापकतावच्छेदिका भवतीति तन्निरूपकस्य समवायितया वाच्यत्वाभावस्य लक्षणघटकता । तस्य च वाच्यत्वरूपप्रतियोगिसामा-नाधिकरण्यमस्त्येव । उक्ताभावस्य तथा प्रतियोगिनो वाच्यत्वस्य च उभयोरपि केवलन्वयित्वात् ।  इत्थं च लक्षणघटके किञ्चिदभावे  प्रतियोगिसामानाधिकरण्यं सञ्जातमिति कारणात् धूमवान् वह्नेरिति व्यभिचारिणि अतिव्याप्तिः । समान-न्यायेन सर्वत्र व्यभिचारिहेतुषु अस्य लक्षणस्य अतिव्याप्तिः । अस्य व्याप्तिलक्षणस्य व्याप्यहेतवो (सद्धेतवः) लक्ष्याणि । व्यभिचारादिदोषदुष्टहेतवो न लक्ष्यणि । अलक्ष्ये लक्षणगमनात् अतिव्याप्तिः भवति ।

  यावत्त्वविशेषणनिवेशे दोषपरिहारप्रकारः  –

                 लक्षणघटकाभावे यावत्त्वविशेषणस्य निवेशे कृते सति च पूर्वोक्तातिव्याप्तिदोषो न लगति । कथमिति चेत् , इत्थम् –

          धूमवान् वह्नेरित्यादिव्यभिचारिणि हेतुसमानाधिकरणाः साध्यताव- च्छेदकेत्यादिविशेषणाक्रान्ताश्च अभावाः बहवः सन्ति । यथा –

  • समवायितया वाच्यत्वाभावः
  • समवायितया ज्ञेयत्वाभावः
  • धूमत्वावच्छिन्नधूमाभावः
  • अयोगोलकान्यत्वाभावः  इत्यादयः ।

तेषां सर्वेषां चाभावानां प्रतियोगिसामानाधिकरण्यं यत्रकुत्रापि स्यादिति नास्ति । किन्तु स्वविशिष्टहेत्वधिकरणान्तर्भावेण प्रतियोगिसामानाधिकरण्यमपेक्षितम् । तत्तु सर्वेषां नास्ति ।  धूमत्वावच्छिन्नधूमाभावस्य तथा  अयोगोलकान्यत्वाभावस्य स्व- विशिष्टं वह्निरूपहेत्वधिकरणम् – अयोगोलकम् । तत्र धूमरूपप्रतियोगी अयोगोलकान्यत्वरूपप्रतियोगी वा नास्ति । अतस्तदन्तर्भावेण प्रतियोगिसामानाधि- करण्यं उक्ताभावयोः[5] न घटते । एवं च लक्षणघटाकानां यावतामभावानां प्रतियोगि- सामानाधिकरण्यं नायातमिति न तत्र अतिव्याप्तिः ।

    एतदभिप्रायेणैव दीधितावुक्तम्[6] –  “ सर्वत्र वाच्यत्वाद्यभावस्य तथात्वात्

यावत्त्वोपादानम् ।”  इति ।

        एवं रीत्या अतिव्याप्तिवारणार्थं प्रथमस्वलक्षणे यावत्त्वविशेषणस्य अत्यन्तावश्यकता वर्तते इति सिद्धम् ।

—————


[1]  कणादस्याक्षपादस्य व्यासस्य कपिलस्य च । पतञ्जलेर्जैमिनेश्च दर्शनानि षडेव हि ॥ इति प्रसिद्धोक्तेः ।

  • शब्दार्थकौस्तुभः षष्ठो भागः पृ. सं. – 2634. बाप्को प्रकाशन, बेङ्गलूरु. ई. 2000. 

[2]  अयं क्रिस्तीयत्रयोदशशतके आसीदिति इतिहासकालञ्जानां मतमिति  प्रो. एन्. एस्. रामानुजताताचार्याः स्वसम्पादिततत्त्वचिन्तामणिग्रन्थस्य उपोद्घातभागे लिखन्ति ।

[3]  द्रष्टव्यम् – गादाधरी , प्रथमो भागः , चौखम्बा संस्कृत सीरीज आफिस , वाराणसी ई. 2007

[4]  पश्यन्तु – चतुर्दशलक्षणी, पृ. सं. – 39. अड्यार् लैब्ररि अण्ड् रिसर्च् सेण्टर् , मद्रास्  ई.1986

[5]  धूमत्वावच्छिन्नधूमाभाव-अयोगोलकान्यत्वाभावयोः ।

[6]  व्यधिकरणप्रकरणम्, दीधितिगादधरीसंवलितम्, सुबोधिनीव्याख्यया च सनाथीकृतम् , प्रथमो भागः  पृ. सं. – 73. तत्त्वसंशोधनसंसत् , उडुपि , ई. 2019