पुराणेतिहासेषु वैरुध्यस्य कारणानि निवारणे सहायकांशाश्च

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

पुराणेतिहासेषु वैरुध्यस्य कारणानि निवारणे सहायकांशाश्च

Dr.M.G.Nandana Rao

Assistant Professor,

Department of Translation

National Sanskrit University. Tirupati 517 507

शोधपत्रे प्रतिपादितांशाः

  1. शोधपत्रस्य उद्देश्यम्
  2. उपक्रमः
  3. पुराणेतिहासेषु वैरुध्यकारणानि
  4. वैरुध्यनिवारणे सहायकांशाः
  5. वैरुध्यानां परिहारोपायाः
  6. उपसंहारः
  7. संङ्केताक्षरसूची
  • परिशीलितग्रन्थसूची

1.शोधपत्रस्य उद्देश्यम्

विस्तृतस्य पुराणवाङ्मयस्य आपाततः परिशीलनेन सर्वम् अस्तव्यस्तमिति भ्रमां प्राप्नुवन्ति बहवः। पुराणानाम् उद्देश्यं, स्वरूपं, स्वभावञच अनवगत्य पुराणहृदयं नावगम्यते। भ्रमास्थानेषु परिहारक्रमः पुराणेष्वेव बहुत्र उक्ताः। तदतिरिच्य भारतीयशास्त्रान्तरेषु उक्ताः तर्काः, न्यायाश्च तात्पर्यनिर्णये उपकुर्वन्ति। तादृशानां कतिपय उपायानाम् उपपत्तिपूर्वकम्  उपस्थापनम् अस्य शोधपत्रस्य उद्देश्यण्।

  • उपक्रमः

प्रपञ्चवाङ्मये भारतीयपुराणेतिहासाः अतीव प्राचीनाः। एतेषां लेखनं विविधकालेषु जाताः इति वैदेशिकाः शोधकाः भावयन्ति। किन्तु भारतीयपरंपरायाः धारणामनुसृत्य पुराणानि तावत् अनादिकालतः वर्तन्ते। एतानि जगतः स्रष्टुः नारायणस्य मुखोद्गतानि। स्थूलसृष्टेः पूर्वमेव शब्दसृष्टिरागता। वेदादपि पुराणानि आदौ उद्भूतानि।ब्रह्मा प्रथमं पुराणानि स्मृत्वा ततः परम् वेदमुच्चारयामास।ततः परं वेदपरंपरा पुराणपरंपरा च मुनिभिः प्रवर्तितौ। वेदादपि विभिन्ना काचन परंपरा, केचन सिद्धान्ताश्च पुराणानां वर्तन्ते। वेदार्थनिर्णये पुराणपरिशीलनम् अवश्यं भवेदेव। अन्यथा वेदार्थः उद्देश्यविरुद्धः स्यादिति भीतिं प्रकटीचकार वेदमाता।

 वेदार्थादधिकं मन्ये पुराणार्थं वरानने।

वेदा: प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः॥ [i]

3.पुराणेतिहासेषु वैरुध्यकारणानि

बहूनां मातृकानां परिशीलनानन्तरं पुराणेतिहासेषु यथार्थनिर्णये अवरोधभूतानंशान् श्रीमन्मध्वाचार्याः महाभारततात्पर्यनिर्णयग्रन्थे एवं संग्रहमकुर्वन्।

क्वचिद् ग्रन्थान् प्रक्षिपन्ति क्वचिदन्तरितानपि।

कुर्युः क्वचिच्च व्यत्यासं प्रमादात् क्वचिदन्यथा।

अनुत्सन्ना अपि ग्रन्था व्याकुला इति सर्वशः।

उत्सन्नाः प्रायशः सर्वे कोट्यंशोऽपि न वर्तते।

ग्रन्थोऽप्येवं विलुळितः किम्वर्थो देवदुर्गमः॥‘[1] इति।

पुराणेतिहासेषु वैरुध्यकारणानि एवं वर्गीकर्तुं प्रभवामः।

  • पुराणादीनां शुद्धपाठानामनुपलब्धिः।
  • ग्रन्थेषु ग्रन्थान्तरभागानां प्रवेशः।
  • प्रक्षेपाः
  • अधिकपाठाः
  • साङ्केतिकभाषया कतिपयांशानां प्रतिपादनम्।
  • संप्रदायेषु अनादरः
  • पुराणाभासानि
  • अनुवाददोषाः
  • मूलस्य असमग्रपरिशीलनम्
  • व्याख्यानदोषाः
  • वैदेशिकानां व्याख्यानप्रभावः
  • उद्देश्यपूर्वकप्रक्षेपाः
  • विविधमतसिद्धान्तानुगुणव्याख्यानानि
  • काव्य-नाटकादीनां कथासु मूलवद्भ्रमः
  • जनरञ्कविषयाणां प्रसिद्धिः

पूर्वोक्तविषयेषु स्थालीपुलीकन्यायेन केचनांशाः प्रस्तूयन्ते –

अ. पुराणादीनां शुद्धपाठानामनुपलब्धिः।

     पुराणपरंपरा पुस्तकानापेक्षया मौखिकपरंपरया प्रवृद्धा। कर्णाकर्णितया पुराणगाथाः जनेषु प्रसिद्धाः अभवन्। अतः कस्याः कथायाः कि मूलमिति बहुत्र न ज्ञायते। वेदे यथा गुरुसिष्यपरंपरावर्तते न तथा पुराणे अध्ययनपरंपरा नास्ति। प्राचीनकालीना सा परंपरा  पुराणविषये नष्टा।

     स्वरादिनियमाः न सन्तीतिकारणतः सुलभतया श्लोकान् प्रक्षेप्तुमर्हन्ति। प्रायः अनुष्टुप् छन्दसि पुराणश्लोकाः निबद्धाः। अतः  श्लोकरचना सुलभसाध्या। एवं मूले अविद्यमानाः बहवः श्लोकाः पुराणेषु प्रविष्टाः।

आ.ग्रन्थेषु ग्रन्थान्तरभागानां प्रवेशः।

तालपत्रग्रन्थाः यत्र उपलभ्यन्ते तत्र गत्वा मूलं दृष्ट्वा अपेक्षितभागं लिखित्वा आनयन्ति स्म। कदाचित् द्वित्रग्रन्थेषु विद्यमानानपि अंशान् एकस्मिन्नेव पुस्तके लिखन्ति स्म। तेन कारणेन ग्रन्थसङ्करः सञ्जातः। 

इ. प्रक्षेपाः

तालपत्रलेखकानाम् अनवधानात् केचन श्लोकाः परित्यक्ताः भवन्ति स्म। टिप्पणिरूपेणपत्रस्य पार्श्वभागे लिखिताः अंशाः अपि मुले योजिताः ।प्रतिभान्विताः केचन पण्डिताः सदृशश्लोकान् विरच्य योजितवन्तः। दोषपरिष्कारधिया केचन भागाः योजिताः परित्यक्ता वा अभवन्।

  • अधिकपाठाः

पूर्वोक्ताः प्रक्षेपाः ग्रन्थद्वयतुलनायाम् अधिकपाठत्वेन परिगण्यन्ते। बहुत्र अयमपि प्रमादः वर्तते यत् मूलमनुसृत्य कश्चन पुस्ककं स्गृहीतवान्। मूलस्य कतिपयभागान् कश्चन लिकितवान्। तदा पुस्तकद्वोयोः तुलनायां उभयत्र समानपाठः शुद्ध इति अवशिष्टभागः प्रक्षिप्तः इति भावयित्वा अवशिष्टभागः परित्यज्यते।एतेन असमग्रग्रन्थः एव अवशिष्यते।

  • साङ्केतिकभाषया कतिपयांशानां प्रतिपादनम्।

जौतिषादिशास्त्रेषु कटपयादिनियमैः श्लोकाः रचिताः। तदनवगत्य श्लोके परिष्कारान् कुर्वन्ति केचन। महाभारते ग्रन्थग्रन्थिश्लोकाः[ii] बहवो विद्यन्ते। एतेषाम् औचित्यमनवगत्य कदाचित् अव्यवस्थितश्लोकः इति मत्वा परित्यागप्रमादः अस्त्येव।

  • संप्रदायेषु अनादरः

वेदसंप्रदायः भिन्नः। वेदस्य उद्देश्यमपि[iii] भिन्नम्। पुराणानां प्रवृत्तिनिमित्तमपि भिन्नम्। तथैव अभारतीयानां धारणाः भिन्नाः, आर्षपरम्परायाः अपि चिन्तनप्रवृत्तिः अन्या एव। तत्तद् ग्रन्थमर्यादामनवगत्य व्याख्यानेन, अन्यग्रन्थसंकारेण पुराणानां परिशीलनेन पुराणेषु गुणानामपेक्षया दोषा एव आधिक्येन दृश्यन्ते। अतः पुराणपरंपरायां श्रद्दा पुराणाध्ययनप्रवृत्तानां स्यादेव।

  • पुराणाभासानि

पुराणानां नाम्ना बह्व्यः कथाः लोके वर्तन्ते। उदा- ऐरावणमैरैवणकथादरायः। स्थलपुराणान्यपि बहूनि वर्तन्ते। तेषां सर्वेषामपि मूलं पुराणानि इति वक्तुं न शक्नुमः। स्थानिकभाषासु अपि बहूनि पुस्तकानि वर्तन्ते तेषां नाम्नि पुराणशब्दः योजितो भवति। उदा- कन्नडभाषायाः बसवपुराणम्, पुराणानाम् अस्य ग्रन्थस्य च न कोपि संबन्धः। एवमेव स्थानिकभाषासु रामायणादीनां प्रेरणया अथवा तन्नाम्ना वा बहूनि काव्यानि उपलभ्यन्ते। काव्यदृष्ट्या तानि अतीवप्रशस्तानि। तत्रत्य कथाः अपि जनप्रियाः। उदा -तमिलभाषायाः कम्भरामायणम्, उत्तरभारते प्रसिद्धं तुलसीरामायण्, कन्नडभाषायाः तोरवे रामायणम् इत्यादीनि। एतेषु काव्येषु केषुचित् स्थानेषु वालमीकि रामायणादपि भिन्नप्रसङ्गाः केचन वत्तन्ते। एतेषु बहवः विषयाः परित्यक्ताः अपि स्युः। लोकप्रसिद्धेः कारणतः जनाः ते सर्वेप्यंशाः वाल्मीकिरामायणस्य इत्यपि भ्रमः विद्यते।तदाधरेण क्रियमाणाः आक्षेपाः समाधानयोग्याः न भवन्ति। तादाधारेण न कस्याः अपि समस्यायाः परिष्कारः भवितुं नार्हति।

 अनुवाददोषाः-

पुराणानां भाषा संस्कृतम्। पुराणेषु रामायणमहाभारतादि ग्रन्थेषु आसक्तिः सर्वेषु भारतीयेषु विद्यते। किन्तु संस्कृतभाषया सर्वे तानि पठितुं न पारयन्ति। अतः विविधभाषासु अनुवादाः आरब्धाः। प्राचीनकाले अनुवादसन्दर्भे शुद्धपाठाः सर्वत्र उपलब्धाः न आसन्। अतः यथा पाठः लब्धः तदनुसारेण अनुवादमकुर्वन्। केषुचित् स्थानेषु मूलेप्रतिपादितविषयादपि भिन्नतया अनुवादाः जाताः। उदा – महाभारतस्य कृष्णकर्णसंवादे कृष्णः कर्ममाहूय त्वं पाण्डवेषु प्रथमः।अतः पाण्डवपक्षमागत्य त्वमेव राजा भव इति कथयन् भवतः पट्टाभिषेककाले द्रौपदी अपि सामान्यराजकन्याभिः सह अभीषेकजलम् षष्ठे काले आहरिष्यति इति अर्थे श्लोकमिदमवोचत्।

राजन्या राजकन्याश्चापि आनयन्त्याभिषेचनम्।

षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति।। महा.उ.140.15[iv]

अस्य अनुवादसंदर्भे तेलुगुकविना तिक्कनसोमयाजिमहाभाकेन –

पांचालराजपुत्रिकयु अंचितमुग निन्नु पोन्दु नार्वुरवरसन्। ते.महा.उ.

इति लिखितम्। द्रौपदी पाण्डवान् यथा पर्यायक्रमेण एकैकं वर्षं सेवते तथा षष्ठे पर्याये भवन्तमपि सेविष्यते इत्यर्थे अनुवादः कृतः। महान्तोपि सोमयाजिनः प्रमादमाचरितवन्तः। खलु प्रमादो धीमतामपि ।

मूलस्य असमग्रपरिशीलनम्

बहूनाम् अंशानाम् एकदेशं गृहीत्वा लोके विवदमानाः भवन्ति। उदा -न स्त्री स्वातन्त्रमर्हति।[v] अस्मिन् विषये पूर्वापरविचारमकृत्वा लोके यथा चर्चा क्रियते तथा पुराणेष्वपि संदर्भपरामर्षेण विना कृतः विचारः तात्पर्यनिर्णायकं न भवति। पुरामानां विस्तारदृष्ट्या तातेपर्यपर्यालोचनं सुलभसाध्यं न भवति।

वैरुध्यनिवारणे सहायकांशाः –

  • व्याख्यानानि- रामायणस्य विविधव्याख्यानानि संदेहनिवारणे उपकुर्वन्ति। महाभारतस्य नीलकण्ठीयव्याख्यानं समग्रम् उपलभ्यते।महाभारततात्पर्यनिर्णयग्रन्थः विरोधपरिहरस्य उत्तमपरिकरः।पुराणेषु भागवतस्यैव व्याखायानानि सन्ति बहूनि।किन्तु विष्णुपुराणमन्तरा अन्यपुराणानां व्याख्यानानि विरलानि।
  • परिशोधितकृतयःCritical Editions – पुण्यपत्तनस्य भण्डारकरशोधसंस्थया महभारतस्य परिशुद्धप्रतिनिर्माणं विहितम्। तादृशपुस्तकानि विरोधोपशमने उपकुर्वन्ति।
  • तर्कःमीमांसादिशास्त्राणां विविधन्यायाः पुराणार्थनिर्णये उपकुर्वन्ति।
  • शास्त्रांतराणां साहाय्यम्।पुराणानि बहूनां शास्त्राणां समाहारः। अतः शास्त्राणां सहकारेण विना निश्चयः न संभवति।

उदा- कालगणनाविषये ज्यौतिषशास्त्रस्य सहयोगः।

धर्मशास्त्राणि,मीमांसा, वेदान्तः इत्यादि शास्त्राणि तत्तद्विषये निर्णये उपकुर्वन्ति।

  • ऐतिहासिकप्रमाणानि – महाभारतविषये प्रवृत्तानि उत्खननानि

उपसंहारः – एतावता पुराणेतिहासेषु विरोधाः कथं संभवन्ति तेषां निवारणोपायाः कुत्र अन्वेष्टव्याः इति विषये विचारः विहितः।


[1]म.ता.नि. २.३.५


[i] ना.पु 2.24.17

[ii] नदीजलङ्केशवनारिकेतुः

[iii] वेदाः यज्ञार्थमभिप्रवृत्ताः

[iv] महा.उ.140.15

[v] पिता रक्षति कौमारे भर्ता रक्षति यौवने।

रक्षन्ति स्थविरे पुत्राः न स्त्री स्वातन्त्र्यमर्हति।। 4 मनु.9.3

संकेताक्षरसूची –

ना.पु – नारदपुराणम्

महा- महाभारतम्

मनु. – मनुस्मृतिः

सन्दर्भग्रन्थसूची :- 

  1. वाल्मिकिमुनिप्रणीतं रामायणम् – श्रीनिवासशास्त्री – परिमल पब्लिकेशन्स – देहली २०२०.
  2. ३. नारद संहिता – विश्वनाथ राजु – श्री सायि- वास्तु पब्लिकेशन्स – भाग्यनगरम् -२०१२ 
  3. महाभारततात्पर्यनिर्णय: – आचार्यमध्वग्रथित: Shri Vyasa Madhva Seva Pratishthana (Regd) Bangalore.1998
  4. भागवततात्पर्यम् आचार्यमध्वग्रथितम् – अखिलभारतमाध्वमहामण्डलम् बेङ्गळूरु.
  5. श्रीमद्गीताभाष्यम्- आचार्यमध्वग्रथितम् – पूर्णप्रज्ञसंशोधनमन्दिरम् -1998
  6. नारदीयपुराणम् अन्यानि पुराणानि च – नाग् पब्लिकेषन्स् –
  7. उपपुराणानि. श्रीकृष्णमणि त्रिपाठीमहाभागै: रचित: अड्यार् ग्रन्थालय: चेन्नै. H 080 CSS KS 48
  8. आष्टादशपुराणदर्पणम्  –  प्रबन्धा – कृष्णमणि त्रिपाठी  प्रकाशक: चौखम्बा प्रकाशनम् तथा
    1. उपपुराणानि- प्रबन्धा – कृष्णमणि त्रिपाठी  प्रकाशक: चौखम्बा प्रकाशनम्

[/vc_column_text][/vc_column][/vc_row]