निरीश्वरवादिनां तत्त्वम्

[rev_slider_vc alias=”about-3″]

निरीश्वरवादिनां तत्त्वम्

1.Rutu

Acharya Student

Karnataka Sanskrit University

Phone no 7795353421

rutuggangaraddi@gmail.com

2. Ramakrishna Venkatramana Bhat

शब्दार्थसम्बन्धस्रष्टा ईश्वर: अस्ति, सः जनैः विस्मृतः इति अङ्गीकुर्म:। तर्हि सर्वप्रथमं स्रष्टारम् उपपाद्य स्रष्टा अस्ति इति सिद्धे सति तद्विषयकं विस्मरणे प्रमाणं यदि प्रदर्श्यते तर्हि स्रष्टारम् अभ्युपगन्तुं नास्ति हानिः। परन्तु तत्र प्रमाणाऽभावात् शब्दार्थसम्बन्धस्रष्टा ईश्वर: नास्ति इत्येव वक्तव्यम्।

Teaching assistant

Chanakya University

Phone No. 9481721183

Email: rvbhat1995@gmail.com

सारांशः (Abstract):

पूर्वमीमांसकाः निरीश्वरवादिनः इति प्रसिद्धाः। परन्तु पूर्वमीमांसकैः ईश्वरः न निराकृतः इति इदं शोधपत्रं दर्शयति। पूर्वमीमांसकैः कर्तृत्वज्ञातृत्वाद्यवच्छिन्न: ईश्वर: एव खण्डित:। कर्तृत्वभोक्तृत्वादिकं, ज्ञानमज्ञानं, धर्माधर्मौ, इच्छा इत्येते केपि धर्माः ईश्वरे सम्भावयितुं न शक्यन्ते इति तेषाम् आशयः। तस्माद् एव भाट्टदीपिकादिमीमांसाग्रन्थेषु ईश्वरस्तवः दृश्यते। सूक्ष्मेक्षिकतया अवलोक्यमाने ते परमार्थतः ईश्वरं न निराकुर्वन्ति इति अस्मिन् शोधपत्रे प्रदर्श्यते।

उपक्रम: (Introduction)

पूर्वमीमांसका:  निरीश्वरवादिनः इत्यस्ति प्रसिद्धिः। अस्मिन् शोधपत्रे  पूर्वमीमांसकै: न निराकृतः इति प्रस्तूयते। पूर्वमीमांसका: ईश्वरे वेदकर्तृत्वं, जगत्कर्तृत्वं, शब्दार्थयो: सम्बन्धस्य स्रष्टृत्वमित्यादि कांश्चन धर्मान् निराकुर्वन्। परन्तु धर्मिणम् ईश्वरं न पर्यत्यजन्। यतो हि पूर्वमीमांसकाः धर्मजिज्ञासायां प्रवृत्ताः। तुष्यतु दुर्जनः इति न्यायेन मीमांसकैः ईश्वरः निराकृतः इत्यङ्गीकृतश्चेदपि ते ईश्वरार्चनादि धर्मान् तु न तिरस्कृतवन्तः। यतः द्वादशलक्षण्यां धर्मप्रमाणाध्याये श्रुतिः, स्मृतिः, आचारः च धर्मे प्रमाणत्वेन प्रोक्तः जैमिनिना। तर्हि स्मृत्याचाराभ्यां प्राप्तम् ईश्वरार्चनरूपं धर्मं न मीमांसकाः तिरस्कुर्वन्ति। अतः एव भाट्टदीपिकादिग्रन्थेषु ईश्वरस्तवः ग्रन्थादौ द्रश्यते।

न वेदकर्ता ईश्वर:

वेदस्य स्वत:प्रामण्यम् अभ्युपगम्यते प्राभाकारेण। यदि ईश्वरोऽक्तत्वात् वेदस्य प्रामाण्यम् अभ्युपगम्येत तर्हि वेदस्य स्वत:प्रामाण्यम् अपगच्छेत्। तस्मात् वेदस्य स्रष्टा कोऽपि नास्ति इति प्राभाकरा:[i]। वेद: नित्य:। तस्मात्, ईश्वरेण वेद: सृष्ट: इति चेत् तदयुक्तम्। किमर्थमिति चेत् वेदस्य उत्पत्तिमत्त्वात् नित्यत्वहानि:। वेदस्रष्टृत्वम् ईश्वरे वक्तुं न शक्यते, प्रमाणाऽभावात् च। ईश्वरवचनमेव प्रमाणम् इति न वाच्यम्। वेदम् असृष्ट्वा अपि मया सृष्टम् इति ईश्वरेण उक्तम् इति सम्भाव्यते। तस्मात् वेदस्य स्रष्टा कोऽपि नास्ति इति भट्टः[ii]

न शरीरी ईश्वर:

शरीरं चेत् तत् सावयम्। ईश्वरशरीरमपि सावयवम्। तर्हि ईश्वरशरीरस्य उत्पत्ति: वक्तव्या। ईश्वरशरीरस्य सृष्टे: प्राक् ईश्वर: अशरीरी आसीत्। ईश्वरस्य अशरीरिणः स्वस्यैव शरीरस्य सृष्टौ इच्छा कथमुत्पद्यते? यतः इच्छापूर्विका हि कृति:। स्वस्य शरीरं स्वयमेव उत्पादयति इति वक्तुं नैव शक्यते अन्य: कश्चन शरीरस्रष्टा अस्ति इति वक्तव्यम्। ईश्वरशरीरस्रष्टु: शरीरस्य स्रष्टा क: इति उपपादनीयम्। एवम् अनवस्था प्रसङ्ग:। अनवस्था भीत्या एव ईश्वरशरीरस्य स्रष्टा नास्ति, नित्यम् ईश्वरशरीरम् इत्यपि न वक्तव्यम्। ईश्वरशरीरं नित्यं चेत्, यस्मिन्काले जगत्सृष्टि: न जाता, पृथिव्यादिकं नास्ति तस्मिन् काले ईश्वरशरीरं किम्मयम् इति तु वक्तुं नैव शक्यते। यतः तत्काले पृथिव्यादिजगत:  सृष्टि: न जाता। तस्मात् नित्यं शरीरम् ईश्वरस्य  इति वक्तुं न युक्तम्। इदं  सर्वम् उपपादयितुं न शक्यते इत्यस्मात्  ईश्वर: अशरीरी इत्येव वक्तव्यम् इति भट्टः[iii]

धर्माधर्मनिमित्तं पुरुषस्य शरीरं प्राप्तम्। ईश्वरस्य धर्माधर्माभावात् अशरीरत्वम्। यदि ईश्वरस्य सशरीरत्वम् अभ्युपगच्छन्ति तर्हि प्रतिवाद्युभ्युपगतस्त ईश्वरस्य अशरीरत्वस्य तद्विरोध: इति वैशिषिकं खण्डयन् शालिकानाथमिश्रः[iv]

न कर्मफलदाता ईश्वर:

धर्माऽधर्मौ नियतं यदा अनुष्ठितौ तदैव फलं यच्छतः इति न दृष्टम्। तर्हि कालाऽन्तरे कदा एते फलं दद्युः इति निर्धारयितुं फलदाता ईश्वर: अस्तीति अभ्युपेयम्। अन्यथा धर्माऽधर्मयोः अनियतफलदानं न शक्यते उपपादयितुम् इति नैयायिकाः वेदान्तिनश्च।

नेदं सहते पूर्वमीमांसकः। यदि ईश्वरः धर्माऽधर्मयोः फलदाता तर्हि ईश्वरे चेतनातिशये विशिष्टात्मनि धर्माऽधर्मौ भवतः इति कल्पनीयम्। धर्माधर्मौ चेतनातिशये स्त: इति यदुक्तं तत्सम्यक् न। कर्माचरणेन पुण्यापुण्ये लभ्येते कार्यकारणभाव: वर्तते। कार्यकारणयोः मध्ये सामानाधिकरण्यं वक्तव्यम्। धर्माचरणं करोति पुरुष:। पुण्यादिकं तु जायते ईश्वरे इति कार्यकारणयो: असामानाधिकरण्यमागतम्। तस्मात् धर्माधर्मौ क्षेत्रज्ञे एव स्त:, य: कर्माचरति तस्मिन्नेव धर्माधर्मयो: सः एव अधिष्ठाता। धर्माधर्मौ निमित्तीकृत्य पुण्यपापादिफलमीश्वर: प्रयच्छति इति भवता अभिमतम्। ईश्वरस्य आत्ममन:संयोगाभावात् इत्युक्तौ ईश्वरस्य ज्ञानाभावात्, धर्माधर्मविषयकज्ञानम् अपि ईश्वरे नास्ति। तस्मात् धर्माधर्मविषयकज्ञानाभावात् स: पुण्यपापादिफलं कथं प्रयच्छति प्रजाभ्य:। तस्मात् कर्मफलदातृत्वमीश्वरे नास्ति इत्येव वक्तव्यम्।

आत्मनि एव धर्माधर्मौ स्त:। आत्मनि एव फलं जायते। तत्र आत्मा समवायिकारणम्। आत्ममनस्संयोगात् असमवायिकारणात् फलं लभ्यते। अभिसन्धि: निमित्तकारणम्। एतादृशसकलकारणसामग्रीसत्त्वात् ईश्वर: फलं यच्छति। तस्मात् देशकालावस्थादि सहकारि सहिताभ्यां धर्माधर्माभ्याम् एव फलं, न ईश्वरव्यापारापेक्षम्। फलप्राप्तौ ईश्वराऽपेक्षाऽभावात् फलदातृत्वम् ईश्वरे नास्ति इति मिश्राः[v]

न शब्दार्थयो: सम्बन्धस्य स्रष्टा ईश्वर:

शब्द: श्रवणेन्द्रियगोचर:। शब्दश्रवणेन तदर्थश्च बुद्ध्यते। तर्हि पदपदार्थयो: मध्ये कश्चन सम्बन्ध: स्यात्। तेनैव पदपदार्थयो: ज्ञानं भवति। तर्हि पदपार्थयो: मध्ये विद्यमानस्य सम्बन्धस्य स्रष्टा कोऽपि स्यात्। स: क: इति चेत् ईश्वर: इति नैयायिका:, स्रष्टा नास्ति इति शबरस्वामिन:। कस्मात् नास्ति। यदि स्रष्टा स्यात् तर्हि जना: स्मरेयु:, नास्ति तदर्थं न स्मरन्ति इति। ननु न स्मर्यते इतिकारणात् स्रष्टुरभावकथनं न युक्तम् इति चेदुच्यते –

ननु यदि पदपदार्थयो: सम्बन्धस्य स्रष्टा कोऽपि नस्ति, तर्हि जगति शब्दार्थव्यवहारे अव्यवस्थाप्रसङ्गः स्यात्। एवम् अनेन पदेन अयमेव अर्थ: बोद्धव्य: इति कश्चन उपदेशं न करोति चेत्, पदपदार्थयो: सम्बन्धस्य स्रष्टा कोऽपि नस्ति इति कृत्वा जगति भ्रमात्मकव्यवहारदोषप्रसङ्ग:। तस्मात् स्रष्टा कश्चन वर्तते स च ईश्वर: इति वक्तव्यम् इति नैयायिकस्य। पद-पदार्थयो: सम्बन्धस्य स्रष्टा नास्ति तथापि जगति व्यवस्थात्मक: व्यवहार: उपपादयितुं शक्यते।  पदपदार्थसम्बन्धस्य सृष्टिकर्तुः ईश्वरस्य अनङ्गीकारेऽपि न शब्दार्थव्यवहारस्य अव्यवस्थाप्रसङ्गः। तत्र तु कारणं वृद्धव्यवहार:। पद-पदार्थयो: सम्बन्ध: केनापि उपदिष्टः चेदपि शब्दार्थयो: सम्बन्धस्तु वृद्धव्यवहारेणैव ज्ञायते। तस्मात् शब्दार्थसम्बन्धस्य व्यवहारम् उपपादयितुं शब्दार्थसम्बन्धस्रष्टु: अपेक्षा नास्ति इति शबरस्वामिनां मतम्[vi]

न जगत् सृष्टिकर्ता ईश्वर:

जगत्सृष्टि: भवितव्या नाम, आदौ सर्वविषयकज्ञानं स्यात्। तादृशं सर्वज्ञत्वम् ईश्वरे साधयितुं न शक्यते। अस्तु तादृशःसर्वज्ञ: अस्ति इत्येव अभुपगच्छाम: अथापि तस्य जगत्  स्रष्टृत्वं वक्तुं न शक्यते।कुतः इत्युक्तौ यः जगत्सृष्टिकर्ता तेन जगत्सृष्टेः पूर्वं भाव्यमिति नियम:। तर्हि सृष्टे: प्राक् ईश्वर: कुत्रासीत्? जगदेव नास्ति, तस्यां स्थितौ तस्य अवस्था का, किं  रूपं च इति प्रश्न:? जगत्सृष्टे: प्राक् कश्चन आसीत् इत्येव अङ्गीकुर्म:। तं क: दृष्टवान्। जगत् एव न सृष्टम्। प्रजा: अपि न उत्पन्ना: तर्हि तं के प्रत्यक्षीकृतवन्त:, अत: इदं सर्वं वक्तुं न शक्यते इत्यस्मात् जगत: सृष्टे: प्राक् कस्मिंश्चिद् ईश्वरे नास्ति प्रमाणम्। अस्तु कश्चन जगत् सृष्टवान् इत्येव वदाम:। तस्मिन् जगति प्राणिन:  दु:खिन:  दृश्यन्ते। दु:खं च अधर्मनिमित्तम्। प्रथमा सृष्टि: इति कृत्वा अधर्मनिमित्तं दु:खं कथं भवितुमर्हति? जगति तु दु:खं दृश्यते तर्हि तत्र कारणं किमपि नास्ति, अधर्माभावात्। तस्मात् निर्निमित्तं जगति दु:खं सृष्टवान् ईश्वर:  इति वक्तव्यम्। धर्माऽधर्मादि ज्ञानं नास्ति इति कृत्वा कथं जगत्सृजति ईश्वर:। प्राणिन: दु:खे सन्ति खलु तेषां लाभाय, अनुकम्पया एव ईश्वरःजगत्सृष्टवान् इति न च वाच्यम्। कुतः इत्युक्तौ अनुकम्पां प्रदर्शयितुम् अनुकम्प्याः प्राणिन: एव न सन्ति। विना अनुकम्प्यैः सः क्व प्रदर्शयेत् अनुकम्पाम्। यदि ईश्वर: अनुकम्पया जगत्सृष्टवान्  तर्हि जगति सर्वे जीविन: सुखिन: स्यु: तत्तु नास्ति, सुखदु:खसहितं जगत् दृश्यते। अस्तु, सुखमस्ति इति कृत्वा दु:खं सृष्टवान् इत्युक्तौ ईश्वरस्य स्वतन्त्रता अपगता। अपि च ईश्वरस्य जगत्सृष्टिकर्तृत्वे अपरोऽपि दोषः। ईश्वर: शरीराभावात् जगत् कथं सृजेत्। ननु केवलेच्छया जगत् सृजति ईश्वर: इति चेन्न। केवलेच्छया अचेतने व्यापारः न भवितुम् अर्हति। तस्मात् जगत: सृष्टिकर्ता ईश्वर: इति यदुक्तं तत्सर्वं निरस्तम् इति भट्टः[vii]

ईश्वरेच्छया परमाणुषु क्रिया जायते तत: जगदुत्पत्ति: इति वैशेषिका:। यदि परमाणुसकाशात् जगत्सृजति ईश्वर: तर्हि परमाणो: अधिष्ठानम् ईश्वर: स्यात्। परन्तु क्वापि न दृष्टं परमाणो: अधिष्ठानम् ईश्वर: इति। परमाणूनाम् अधिष्ठानम् ईश्वर: भवति इति उच्यते चेदपि क्लेश: अस्ति। कथमितिचेत् – ईश्वरेच्छया परमाणुषु क्रिया जायते इति। इच्छया क्रिया न जायते अपि तु इच्छया प्रयत्न: जायते। ईश्वरेच्छया परमाणुषु साक्षात् क्रिया जायते इत्येव अङ्गीकुर्म:। तत्र इच्छाया: कारणं किम्? कारणं विना ईश्वरेच्छा जायते वा? ननु ईश्वरेच्छायां कारणं नास्ति तस्मात् अकारणत्वात् ईश्वरेच्छा नित्या इतिचेत् न। यदि ईश्वरेच्छा नित्या स्यत् तर्हि सर्वदा जगदुत्पत्तिप्रसङ्ग:। इदं तु न दृष्टं लोके। जगदुत्पत्त्यनन्तरं जगत: स्थिति: दृश्यते। तस्मात् कथञ्चित् अपि परमाणूनाम् अधिष्ठानम् ईश्वर: न भवति इति सिद्धम्।तस्मात् परमाणो: अधिष्ठाता न भवति ईश्वर:। परमाणुविषयकज्ञानं नास्ति इतिकृत्वा जगतः सृष्टिकर्ता ईश्वर: न[viii]

उपसंहार: (Conclusion)

एतावता वेदकर्तृत्वं, जगत्कर्तृत्वं, शब्दार्थयो: सम्बन्धस्य स्रष्टृत्वमित्यादिधर्मा: ईश्वरे न सन्ति इति विचारितम्। एवम् ईदृशस्य ईश्वरस्य निराकरणात् पूर्वमींमासकाः ईश्वरमेव निराकृतवन्तः इति न विभावनीयम्। यथा केनचित् गन्धः पृथिव्यां संयोगसम्बन्धेन अस्तीत्युक्तम् इति विभाव्यताम्। अपरेण तदा पृथिव्यां संयोगसम्बन्धेन नास्तीति वादः प्रस्तूयते। अत्र अपरः न गन्धं निराकरोति। अपि तु सः गन्धः पृथिव्यां संयोगसम्बन्धेन नास्तीत्येव निराकरोति, न तु गन्धमेव निराकरोति, यतः सः पृथिव्यां गन्धं समवायसम्बन्धेन मनुते। इत्थमेव पूर्वमींमासकैः ईश्वरे सर्वज्ञत्वादिधर्माः निराकृताः, न ईश्वरः निराकृतः। तर्हि पूर्वमीमांसकमते ईश्वरस्वरूपं किमिति प्रश्न: उद्भवति। पूर्वमीमांसकै: कीदृश: ईश्वर: अभ्युपगत: इति च प्रश्नः स्यात्। परन्तु पूर्वमीमांसकाः धर्मजिज्ञासायां प्रवृत्ताः, तदङ्गतया ईश्वरः एतद्धर्मको भवितुं नार्हति इत्युक्त्वा वादं समापयन्। अतः ईश्वरः किंस्वरूपः इति तैः न चिन्तितम्, यतः सः न तेषां लक्ष्यान्तर्गतः। परन्तु अस्माभिः अधुना पूर्वमीमांसाशास्त्रानुसारेण ईश्वरस्वरूपं किं स्यादिति जिज्ञासयितुं शक्यते। अपि च ये च निरीश्वरवादिनः इति प्रसिद्धाः बोद्धाः तेपि ईश्वरं निराकृतवन्तो वा परमार्थतः इति जिज्ञासां प्रश्नान् च अयं शोधलेखः उत्थापयति।

ग्रन्थसूची (Bibliography)

जैमिनिः, et al. आचार्य-शबरस्वामि-विरचितम्, जैमिनीय-मीमांसा-भाष्यम्, आर्षमत-विमर्शिन्या हिन्दी-व्याख्यया सहितम्. द्वितीयं संस्करणम्, vol. प्रथमो भागः, युधिष्ठिरमीमांसकः, 1987.

भट्टःकुमारीलः, and मिश्रःपार्थसारथिः. श्रीकुमारीलभट्टपादविरचितं श्लोकवार्तिकम्, श्रीमत्पार्थसारथिमिश्रविरचितया न्यायरत्नव्याख्यया सनाथम्. प्रथमं संस्करणम्, तारा पब्लिकेशन्, 1978.

मिश्रःशालिकानाथः, and भट्टःनारायणः. प्रकरणपञ्चिका, महामहोपाध्यायश्रीमच्छालिकानाथमिश्रविरचितया, श्रीजयपुरिनारायणभट्टविरचितप्रत्यक्षपरिच्छेद्यान्तन्यायसिद्ध्याख्यव्याख्यासंवलिता. Edited by शास्त्रीसुब्रह्मण्यः, बनारस्-हिन्दू-विश्वविद्यालयः, 1961.


[i] प्रकरणपञ्चिकायां विमलाञ्जनम्

[ii] श्लोकवार्तिके सम्बन्धाक्षेपपरिहारः

[iii] श्लोकवार्तिके सम्बन्धाक्षेपपरिहारः

[iv] प्रकरणपञ्चिकायां विमलाञ्जनम्

[v] प्रकरणपञ्चिकायां विमलाञ्जनम्

[vi] शाबरभाष्यम्

[vii] श्लोकवार्तिके सम्बन्धाक्षेपपरिहारः

[viii] प्रकरणपञ्चिकायां विमलाञ्जनम्