तमिळ्पुरातनसाहित्ये रामायणस्य प्रभावः

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

तमिळ्पुरातनसाहित्ये रामायणस्य प्रभावः

उपोद्घातः –

भारतस्य प्राचीनासु भाषासु संस्कृतस्य तमिळ्भाषायाश्च स्थानं महदस्ति । भारतीयानां मनस्सु भाषाणां विषये द्वेषः नासीत्। भारतीयेषु आङ्लेयैः भेदभावना प्रयत्नपूर्वकम् उत्पादिता।  १८३८ तमे वर्षे तमिळ्नाडराज्यं प्रति क्रैस्तधर्मस्य प्रचारार्थम्  आगतेन राबर्ट्काल्द्वेल्वर्येण ” द्राविडमोळिगळिन् ओप्पिलक्कणम् “[1]नामके ग्रन्थे ‘तमिळ्भाषा संस्कृतभाषा कुटुम्बतः भिन्ना, तमिळ्भाषया संस्कृतस्य साहाय्येन विना पृथक् व्यवहर्तुं शक्यते, यावत् संस्कृतवर्जितस्य तमिळ्भाषायाः प्रयोगः क्रियते तावत् तमिळ्भाषा शुद्धा श्रेष्ठा च भवति’[2] इति प्रतिपादितः। ततः तस्य अनुयायिनः मरैमलैयडिगल् इत्यादयाः संस्कृतवर्जितप्रयोगः एव शुद्धतमिळ् इति प्रचारम् “ प्रकेवल तमिळ् आन्दोलनेन “[3] आरब्धवन्तः। परन्तु  प्रथमशतकात्  विंशतिशतकपर्यन्तं  विद्यमानेषु  तमिळ्ग्रन्थेषु  संस्कृतप्रयोगाः  दृश्यन्ते। उदाहरणार्थं  तमिळ्वेदः इति उच्यमाने तिरुक्कुरळ्ग्रन्थे धर्मशास्त्राणां प्रभावः दृश्यते।

‘इल्वाळ्वानेन्पान्‘[4] इत्यस्मिन् श्लोके गृहस्थस्य धर्मविषये तिरुवळ्ळुवेनोच्यते । ब्रह्मचर्यवानप्रस्थसंन्यासादिषु त्रिषु आश्रमेषु विद्यमानानां पोषणं गृहस्थेन करणीयम् ।

समानार्थकः मनुस्मृतिश्लोकः –

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।

 होमो दैवोबलिर्भातो नृयज्ञोतिथिपूजनम् ॥[5]

 

कम्बरामायणस्य रचयित्रा कम्बेन वाल्मीकिरामायणं पुनःपुनः अधीतमस्तीति कम्बरामयणपठनेन अवगम्यते । तथैव विल्लिपुत्तूरार् व्यासस्य महाभारतम् अधीतवान् इति ज्ञायते ।

तमिळ्भाषायां कम्बरामायणमेव प्रसिद्धम्। कम्बस्य कालः नवमशतकं वा द्वादशशतकं वा इति स्पष्टं न ज्ञायते। द्वादशशतकम् इति अधिकांशैः अङ्गीक्रियते। बहुभिः कम्ब-वाल्मीकिरामायणयोः तोलनं कृतम्। यथा कम्बानन्तरकाले रामायणं प्रसिद्धं तथैव कम्बात् पूर्वमपि तमिळ्भाषायां प्रसिद्धम् आसीत्।  तन्निरूपणाय प्रबन्धोयं रचितः। तेन तमिळ्ग्रन्थेषु  प्रथमशतकादारभ्य  रामायणस्य संस्कृतस्य च स्थानं आसीत् इति स्पष्टतया ज्ञायते।

सङ्घकालसाहित्यम्-

तमिळ्भाषायाः प्राचीनत्वद्योतकं साहित्यं सङ्घकालसाहित्यम् इति उच्यते। सङ्घशब्देन कवीनां सहृदयानां पद्यकाराणां चमूः निर्दिश्यते। अत्यन्तं प्राचीनम् अपि च लोकमङ्गल्कारकं साहित्यं एतैः बुधैः अस्मभ्यम् प्रदत्तम् इति हेतोः तमिळ्वाङ्मये एतेषां पूज्यं स्थानं वर्तते। सङ्घकालकवयः सर्वदा वन्दनीयाः मन्यन्ते।

 

सङ्घकालसाहित्येषु रामायणस्य प्रभावः –

पुरनानूरु- ग्रन्थे रामायणस्य प्रभावः –

पुरनानूरु-ग्रन्थे हास्योत्पादकस्य प्रकरण्स्य विषये विवरणावसरे रामकथा उच्यते। ‘चोलन् चेरुप्पालि एरिन्द इलञ्चेट् चेन्नि ‘नाम्नः राज्ञः ‘ऊन्पोदि पसुङ्गुडैयार् नाम कविः’  स्तुतिं कर्तुम् आयाति। चोलस्य वेश्मनि स्तुतिपाठकाः तडारि नाम वाद्यस्य वादनं कुर्वन्तः राज्ञः पराक्रमस्य विषये गीतवन्तः। सन्तुष्टेन राज्ञा तेभ्यः सुवर्णाभरणानां राशिः प्रदत्तः। तैः तानि आभरणानि पत्नीभ्यः दत्तानि। निर्धनाः ताः आभरणानां विषये अजानत्यः अङ्गुल्यां धरणीयमाभरणं कर्णे कर्णाभरणम् अङ्गुल्यां मध्यभागे धरणीयं कण्ठे कण्ठस्य आभरणं मध्यभागे च धृतवत्यः । तद्यथा सीतायाम् अपहृतायां (रावणेन) तया क्षिप्तानि आभरणानि किष्किन्धास्थाः वक्रमुखाः वानराः स्वीकृत्य कथं धरणीयम् इति अजानन्तः अस्थाने धृतवन्तः इत्यर्थे ‘कडुन्तेरल्  रामन्’ [6]  इत्यस्मिन्  पद्ये  वर्ण्यते।

अनेन उपमानेन  रामकथायाः स्वाभाविकवर्णनम् अवगम्यते। जनसमूहे एषा कथा सुप्रसिद्धा इत्यपि ज्ञायते।

तथैव अहनानूरु- नामकस्य ग्रन्थस्य पद्ये रामगाथायाः सूचना वर्तते।

अहनानूरु- ग्रन्थे रामायणस्य प्रभावः –

नायिका काचित् नायकेन सह अनुरागयुक्ता इति ग्रामजनैः दूषिता। तथापि सा तेनैव नायकेन सह विवाहं कृतवती इति कारणेन ग्रामजनाः तया मूकीकृताः। तेषां जनानां कोलाहलमयं दूषणं सायङ्कालेषु नीडं प्रत्यागच्छतां पक्षिणां कलकलरवः इवासीत्। तस्य उपमानं कविः एवं दर्शयति लङ्कायां युद्धसमये श्रीरामः सपरिवारं यदा मन्त्रालोचनं कृतवान् कस्यचित् वृक्षस्य अधः तदा वृक्षस्थाः पक्षिणः मौनं पालयन्ति स्म तथा अस्याः नायिकायाः धैर्येण (विवाहेण) जनाः मूकीभूताः अभवन् इति ‘वेल्पोर्  रामन्’[7]  इदं पद्यं वर्णयति। वाल्मीकीये वा कम्बरामायणे वा उपर्युक्तं प्रकरणद्वयमपि न विद्यते । आदिकाव्ये अविद्यमानानि बहूनि प्रकरणानि रामगाथारूपेण व्यवह्रियमाणाः आसन् इत्यस्य उदाहरणत्वेन इदं प्रकरणद्वयं विद्यते। सङ्घकाले रामविषयकाः  कथाः प्रसिद्धाः आसन् इत्यपि अनेन ज्ञातुं शक्यते।

तमिळराजाः इतिहासपुराणपात्रतुल्यां स्तुतिम् इच्छन्ति स्म। उदाहरणार्थं कस्यचित् पाण्ड्यराजस्य स्तुतौ “कौरवभागिनेय” इति सूचकं पदम् ‘नेमि  युत्त’![8] इत्यस्मिन्  पद्ये प्रयुक्तम्।तथैव  राज्ञः स्तुतौ पञ्चसु श्रेष्ठः इति पञ्चपाण्डवानां विषये कस्यचित् ‘ अरुनरै  युरुमिर्’[9] इत्यस्मिन्  पद्ये उल्लेखः कृतः वर्तते।  एवं पुरनानूरुग्रन्थे कौरवाः पाण्डवाः इति सादृश्यकथनेन नामोल्लेखः  वर्तते।

एवं रघुवंशीयस्य शिबिचक्रवर्तिनः विषये द्वित्रेषु श्लोकेषु उल्लेखः दृश्यते पुरनानूरुग्रन्थे । तेषु पद्येषु शिबिचक्रवर्तिनः वंशीयः एव चोलराजः चेम्बियः  इति कविना उच्यते। ‘ पुल्लुरु  पुन्कण्[10],  पुरविन्  अल्लल्[11],  तन्नहम्  पुक्क’[12] इत्येतेषु पद्येषु शिबिचक्रवर्तिना कृतः त्यागः तस्य कारुण्यं च वर्णितम्।

कलित्तोहैग्रन्थे रामायणम् –

‘अय्यिरु  तलैयिन्’[13] इत्यस्मिन् कलित्तोहै पद्ये रामायणस्य उल्लेखः दृश्यते।

 

तोल्काप्पियं-ग्रन्थे रामायणस्य प्रभावः –

तोल्काप्पियस्य व्याख्याने नच्चिनार्क्किनियर्वर्येन उदाहरणत्वेन ‘मतियुडम्पट्ट मडक्कण् सीतै’[14] इत्यस्मिन् पद्ये विश्वामित्रमुनिना साकं रामः मिथिलां प्राप्तः उद्याने सीतारामयोः नेत्रयोः मेलनेन रामस्य प्रेमभावः सीतया ज्ञातः आसीत्। अग्रिमे दिने धनुर्भङ्गस्य शब्देन प्रबुद्धा सीता धनुः केन भञ्जितम्  इति अजानती खिन्ना आसीत्। “मतिउडम्पडुतल्” इति अहत्तिणैभागे विद्यमानं पदम्। नायकस्य अथवा नायिकायाः अन्यतरस्य मत्या सह स्वस्य मतेः योजनेन तस्य आशयस्य अवगमनम् इत्यर्थः। नच्चिनार्क्किनियर्- वर्येण उदाहृते पद्ये ‘मतियुडम्पट्ट मडक्कण् सीतै’ इति सीतायाः नेत्रस्य विषये एवम् उक्तम्।

अस्य पद्यस्य अवलम्बनेन कम्बर् स्वकल्पनया एवं सुष्ठु वर्णितवान्। रामेण धनुः भञ्जितम् इति वार्ता चेट्या नीलमालया सीता ज्ञापिता। परन्तु केन भञ्जितम् इति ज्ञानात् पूर्वं सीतया महती खिन्नता अनुभूता। यतः पूर्वस्मिन् सायङ्काले तया मिलितःसः नायकः कुतः इति ज्ञातुं तस्याः अवसरः नासीत्। नीलमाला सीतां प्रति आगत्य दशरथनन्दनः कमलाक्षः रामः एव धनुः भञ्जितवान् यश्च  मुनिना सह अत्र प्राप्तः इति सूचयति। तेन भुजेषु गृहीतम् शिवधनुः  तत्क्षणे एव भञ्जिम् इत्यपि नीलमाला उक्तवती। नीलमालायाः वार्तया सीता महान्तम् आनन्दं प्राप्तवती यतः पूर्वेद्युः सीतया दॄष्टः स एव कमलनयनः इति ‘ कोमुनियुडन् ‘ [15] इत्यस्मिन् पद्ये विद्यते।

तोल्काप्पियं-ग्रन्थस्य पोरुलदिकारम्-अध्याये कस्यचित् सूत्रस्यस्य  व्याख्यानावसरे रामगाथायाः अपरः भागः व्याख्यानकर्त्रा नच्चिनार्क्किनियर्वर्येण उदाह्रियते।

रिपूणां दुर्गं गत्वा आक्रमणोद्युक्ताः राजानः अधिकतया आयुधानि आखेटकान् च नयन्ति। तस्मिन् विषये वक्तुकामः तोलिन्पेरुक्कम् नाम्नः विभागस्य उदाहरणत्वेन ‘आल्विनै मुडित्त’[16] इति पद्यम् उदाहरति।

सूर्यचन्द्रैः प्रवेष्टुं अशक्या पुरातनी लङ्कानगरी बाहुबलिना रामेण आक्रान्ता। तस्मिन् अवसरे आयुधैः आखेटकैः युक्ता भल्लूकचमूः सर्वदिक्षु दुर्गं परितः तिष्ठति स्म रामस्य पक्षे। तद्दृश्यं  समुद्रेण दुर्गं परिवृत्तमिव आसीत्। इदं पद्यद्वयं कस्यचन अनुपलब्धस्य ग्रन्थस्य विभिन्नः भागः इति स्पष्टं ज्ञातुम् शक्यते। अस्य पद्यस्य रचना  शब्दप्रयोगः इत्यादीनाम् अवलोकनेन सङ्घकालस्यानन्तरम् प्रायशः सिल्प्पदिकारस्य काले रामगाथायाः व्यवहारः आसीत् इति ज्ञायते। रामगाथा वेण्पा आसिरियप्पा इति छन्दसां प्रयोगः अत्कृष्टः यदा आसीत् तदा पूर्णग्रन्थरूपेण तमिळ्नाडुराज्ये अभविष्यत्। तादृशः पुरातनः ग्रन्थः इदानीं नोपलभ्यते इति दुःखदायकः विषयः। अस्य ग्रन्थस्य रचयिता वाल्मीक्यनुसारं ग्रन्थं रचितवान् वा इत्यपि न ज्ञायते। कर्णपरम्परया श्रुतायाः कथायाः आधारेण लिखितः चेदपि इदं सुष्ठु ज्ञायते यत् “मतियुडं पट्ट मडक्कण् सीतै”  इति कविना गीतम् इत्यतः उत्तरभारतीयकथां ज्ञात्वा तमिळ् -सम्प्रदायनुसारं रचितम् इति।

उपसंहारः –

भारतदेशे भाषाणां विशेषं स्थानं वर्तते । भाषायाः आधारेण एव भारतदेशस्य   राज्यानि विभक्तानि । ज्ञानभूमौ भारते भाषाः विभिन्नाः  चेदपि विचाराः   तु सर्वदा समानाः । “ तमिळ्त्ताय् वाळ्त्तु “ येन विरचितं तेन सुन्दरम्पिळ्ळैवर्येणैवोक्तं “ वडमोळि तेन्मोळि एनवे वन्द इरुविळि “ इति । संस्कृतं तमिळ्  द्वयमपि नेत्रद्वयमिव इति अस्यार्थः । भारतीयैः अस्माभिः ज्ञानस्य तत्त्वानामेव प्राधान्यं    दत्तम् । उभयोः भाषयोरपि अमृतमिव साहित्यानि विद्यन्ते । तस्मिन् ईषद् भेदभावनायाः विषं केचित् योजितवन्तः । तेन अस्माकं ज्ञानमपि सीमितं भवति । ऋग्वेदे उक्तं “ आ नो भद्राः कृतवो यन्तु विश्वतः “ इति । उत्तमं विश्वस्य सर्वदिशातः अपि स्वीकुर्मः इति । अस्माकम् देशस्य अग्रिमसन्ततिः भेदभावनायाः कारणेन कूपमण्डूकः  मा भवतु । तत् तिरस्कृत्य ज्ञानसागरस्य आस्वादनं करोतु इति अस्य लेखनस्य उद्देशः ।

अनुशीलितग्रन्थसूची

पुस्तकाणि

  • A comparative grammar of the Dravidian or South-Indian family of languages , Caldwell Robert, Trübner, London, Second Edition, १८७५
  • MANUSMRITHI 6 VYAKHYANALU, वि. रामलिंगेश्वर सुब्रह्मण्य शर्मा, मुम्बै, १८८६
  • पुरनानूरु , सालमन् पाप्पैया, कविता पब्लिकेशन्, प्रथमं संस्करणम्,चेन्नै,  २०१९
  • कम्बन् पुदिय पार्वै, अ सा ज्ञानसम्बन्धन्, मङ्गै पब्लिकेशन्, प्रथमं संस्करणम्, चेन्नै, २०१७

Websites

ग पर्वतवर्धिनी                                                      डा शिवानी वि

शोधच्छात्रा                                                प्राध्यापिका विभागाध्यक्षा च, व्याकरणविभागः,

कर्नाटकसंस्कृतविश्वविद्यालयः                           कर्नाटकसंस्कृतविश्वविद्यालयः

 

[1] A comparative grammar of the Dravidian or South-Indian family of languages

[2] Pg no 49, A comparative grammar of the Dravidian or South-Indian family of languages

[3] तनित्तमिळियक्कउरैनडै , New Page 1-5.3 http://www.tamilvu.org

[4] तिरुक्कुरळ् ४१

[5] Pg no 322,   मनु . ३ . ७०

[6] पुरम् 378) http://www.tamilvu.org/ta/library

[7] aham–70,  http://www.tamilvu.org/ta/library

[8] पुरनानूरु ३

[9] पुरनानूरु ५८,

[10] पुरनानूरु37

[11] पुरनानूरु39

[12] पुरनानूरु43

[13]  कलित्तोहै – 38, 3 – 4, tamilvu.org

[14] तोल् अहत्तिणै – ५४ उरै उदाहरणम्

[15]  कम्बरामायणम्,  कार्मुकपडलम् – ६२, ,  tamilvu.org

[16]  तोल्- पुरत्-१२- उरैमेर्कोल्

[/vc_column_text][/vc_column][/vc_row]