चम्पूकाव्यस्य वैशिष्ट्यम्

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

चम्पूकाव्यस्य वैशिष्ट्यम्

Vidushi S. Roopa  
Assistant professor, Department of Samskrit,
Surana college, 
Basavanagudi, Bangalore – 560 004
Ph – 94813 94422, Email –  roopa.sanjeeva.88@gmail.com

संस्कृतसाहित्ये चम्पूकाव्यम् अत्यन्तं रमणीयं स्थानम् आवहति । सुमधुरपदैः भावस्फुटतया रसपरिपाकात् चम्पूकाव्यानि सहृदयान् आकर्षन्ति । कविः दण्डी स्वस्य काव्यादर्शग्रन्थे  “गद्यपद्यमयी कापि चम्पूरित्यभिधीयते” इति चम्पूकाव्यप्रकारस्य लक्षणं प्रतिपादितवान् अस्ति।

चम्पूशब्दः “चपि” गत्याम् इति धातोः निष्पन्नः । गद्यपद्यरसमिश्रितरचनाशैली ब्राह्मणेषु अपि दृश्यते । एतरेयब्राह्मणस्य हरिश्चन्द्र – उपख्याने इदं वयं पश्यामः । कठोपनिषत्सु अपि गद्यपद्ययोः मिश्रणम् अस्ति एव । गद्यपद्यमिश्रितचम्पूः सर्वान् सहृदयान् रञ्जयति इत्यत्र न कोऽपि सन्देहः । संस्कृतसाहित्यं चम्पूकाव्यैः सुसमृद्धम् अस्ति । सामान्यतः द्विशताधिकचम्पूकाव्यानि रचितानि विभिन्नकविभिः इति श्रूयते । तेषु कानिचन एव मुद्रितानि । तेषु अपि चम्पूरामायणं, चम्पूभारतम्, नीलकण्ठविजयचम्पूः, विश्वगुणादर्शचम्पूः, नलचम्पूकाव्यानि च प्रसिद्धानि । द्राक्षामधुमिश्रणवत् गद्यपद्यमिश्रितानि चम्पूकाव्यानि सहृदयान् तोषयन्ति । अत्र कानिचन चम्पूकाव्यानि परिशीलयाम ।

विदर्भदेशाधिपतेः भोजराजस्य चम्पूरामयणं अत्यन्तं प्रसिद्धम् । इयं चम्पूः वाल्मीकिरामायणस्य आधारेणैव विरचिता चेदपि अस्मिन् काव्ये भोजराजस्य काव्यनैपुण्यं दरीदृश्यते । यथा वाल्मीकिरामायणे काण्डशः विभागः कृतः,  तद्वत् अत्रापि भोजेन काण्डानुगुणमेव विरचितः अयं ग्रन्थः । एतस्य ग्रन्थस्य अनेकानि व्याख्यानानि उपलभ्यन्ते । तेषु नारायणस्य, रामचन्द्रस्य, कामदेवस्य, मानदेवस्य, घनश्यामस्य च  व्याख्यानानि प्रसिद्धानि सन्ति ।

भोजराजस्य इयं प्रसिद्धा उक्तिः –

गद्यानुबन्धरसमिश्रितपद्यसूक्तिः ।

हृद्या हि वाद्यकलया कलितेव गीतिः

विश्वगुणादर्शचम्पूकर्ता वेङ्कटाध्वरिः “सङ्गः कस्य हि न स्वदेत सुधियः माद्वीकमृद्वीकयोः” इति वर्णयति चम्पूकाव्यम् । गोपालचम्पूकर्ता जीवराजः चम्पूकाव्यविहारः जलविहारवत् आनन्ददायकः  इति चम्पूं प्रशंसति ।

विषयदृष्ट्या अपि चम्पूविभागः एवं कर्तुं शक्यते ।  

  1. पौराणिककथाः ऐतिहासिककथाः आधृत्य रचिताः नलचम्पूः, वरदाम्बिकपरिणयचम्पूः  इत्यादयः।
  2. काल्पनिककथाः आधृत्य रचिताः विक्रमसेनचम्पूः इत्यादयः ।
  3. तीर्थक्षेत्रवर्णनपुरस्सरं रचिता विश्वगुणादर्शचम्पूः ।
  4. तत्त्वगुणादर्शः विचारप्रधाना दार्शनिकचम्पूः ।

चम्पूकाव्येषु अत्यन्तं प्रसिद्धं  चम्पूरामायणम्

अत्र किञ्चन उदाहरणम् – कैकेय्याः आदेशात् वनवासाय प्रस्थितस्य रामस्य अवस्थां भोजराजः रमणीयशैल्या एवं वर्णयति ।

अथ रघुकुलनाथो मध्यमाम्बानियोगात् 

गुणवति परिधाने मङ्गलार्हे निराशः।

अधिकुचतटवल्गुजानकीबाष्पसेकात्

अपगतखरभावं वल्कलं पर्यधत्त ॥ 

वनवासं प्रति प्रस्थितः रामः वल्कलं धरति । कीदृशं तच्च वल्कलम् ?  सीतायाः अश्रुपातात् आर्द्रम् । नवोढौ सीतारामौ मध्यमाम्बायाः कैकेय्याः आज्ञानुसारं राजभूषणं परित्यज्य वल्कलं धरतः । तस्मिन् समये सीतायाः निरन्तम् अश्रुमोचात् वल्कलम् आर्द्रताम् आपन्नं इति वर्णयन् कविः भोजः सहृदयानां मनः एव आर्द्रीकृतवान् ।

भगवतः स्तुतिपूर्णा पदरचनायाः लालित्यं बालकाण्डे दृश्यते ।

 यथा– नारायणाय नलिनायतलोचनाय 

         नामावशेषितमहाबलिवैभवाय ।

         नानाचराचरविधायकजन्मदेश-

         नाभीपुटाय पुरुषाय नमः परस्मै

अत्र शब्दालङ्कारस्य चमत्कारोऽपि दृश्यते ।

अपरत्र उदाहरणे – “कैकेयि, मामुपयमं नयतीति मन्ये ” इति अत्यन्तं खेदेन दशरथः कैकेयीं निन्दति । भवत्या सह मम विवाहः यः जातः, सः इदानीं मां मृत्युसमीपं नयति इति विषयं भोजराजः अत्यन्तं रमणीयशैल्या वर्णितवान् अस्ति “उपयम” पदप्रयोगपूर्वकम् ।

चम्पूभारतम्

“व्यासोच्छिष्टं जगत्सर्वम्” इति महाभारतात् प्रेरित इव अनन्तभट्टः चम्पूभारतं रचितवान् इति भासते ।

अस्मिन् ग्रन्थे महाभारतकथा द्वादशस्तबकेषु सङ्गृहिता वर्तते । अत्र भाषाप्रौढिमा, विचित्रकल्पनाः, शब्दचमत्काराश्च विशेषतया दृश्यन्ते । अस्य उदाहरणं किञ्चन –

क्षोणीपतौ मदकलं प्रति कृष्णसारं

तूणीमुखे पतितपाणिनखाङ्कुरेऽस्मिन् ।

एणीकुलानि तरलैर्यमुनाजलानां

एणीमिवाक्षि वलनैर्विपिने वितेनुः ॥

अत्र शब्दालङ्कारस्य सौन्दर्यमपि दृश्यते ।

नीलकण्ठविजयचम्पूः

कविः नीलकण्ठविजयचम्पूकाव्ये पञ्चसु आश्वासेषु समुद्रमथनकथां वर्णयति । वक्रोक्तौ सिद्धहस्तः कविः विडम्बनात्मकचित्रणेन मनोहरवर्णनेन च इमं ग्रन्थम् आरचयत् । सः वक्रोक्त्या एव ग्रन्थारम्भं कुरुते –

यथा-  वन्दे वाञ्छितलाभाय कर्म किं तन्न कथ्यते ।

         किं दम्पतिमिति ब्रूयामुताहो दम्पती इति

दम्पतिम् इति एकवचनप्रयोगं कुर्याम् ? अथवा दम्पती इति द्विवचनम् ? एकवचनं चेत् अपशब्दः भवति । द्विवचनस्य प्रयोगश्चेत् अर्धनारीश्वरः एकः एव इति प्रतिपादयति ।

देवेन्द्रस्य वैभवं, देवदानवयोर्युद्धं, बृहस्पतिशुकयोः संवादः, वैकुण्ठवर्णनं शिवस्य विषसेवनम्, अमृतवर्णनम् इत्यादिकं रमणीयशैल्या चित्रितम् अस्ति । गद्यपद्येषु कविः स्वस्य विडम्बनाशैलीं प्रदर्शयन् “कलिविडम्बनम्” इत्यस्याः कृतेः कर्ता अहमेव इति प्रतिपादितवान् अस्ति । नीलकण्ठदीक्षितः वैयाकरणः, भगवद्भक्तः, विद्वद्रसिककविः अपि । तस्य अभिप्रायम् अत्र द्रष्टुं शक्नुमः ।

वाचं व्याकुरुते चिरन्तनगिरं मीमांसते चोभयीं 

पान्थः काव्यपथेषु पादकमले सक्तः पुरारेरिति ।

मामेतत् कथयिष्यतीति रचितं काव्यं मया तत्पुनः 

तावत् वक्ष्यति वा तदुपरि न्यस्तः समस्तो भरः

विश्वगुणादर्शचम्पूः –

वेङ्कटाध्वरेः अयं ग्रन्थः विषयवर्णने परिकल्पनायां च नावीन्यं भजते । अस्मिन् चम्पूकाव्ये भारतस्य विविधभागानां जनजीवनं विमर्शात्मकतया वर्णितम् अस्ति । उत्तरस्य बदरिकाश्रमतः दक्षिणे काञ्चीपर्यन्तं बहूनां प्रदेशानां सांस्कृतिकवैशिष्ट्यम् अपि वर्णितम् अस्ति । कृशानुविश्वावसुनामकौ उभौ गन्धर्वौ अस्याः कृतेः पात्रधारिणौ स्तः । कृशानुः असूयापरः । दोषान्वेषणमेव तस्य स्वभावः । विश्वावसुः गुणग्राही सन् गुणप्रशंसां करोति।

अत्र कश्चन श्लोकः –

विश्वावलोकस्पृहया कदाचित् विमानमारुह्य समानवेषम् ।

कृशानुविश्वावसुनामधेयं गन्धर्वयुग्मं गगने चचार

वैयाकरणनिन्दापूर्वकस्य कृशानोः अनेन  श्लोकेन कवेः व्याकरणशास्त्रप्रौढिमा स्पष्टा भवति।

झोन्तः शश्छोटि शेषो‍ घ्यसखि  ससजुषोरुर्विरामोऽवसानं

छे चेति व्यर्थवाचः सदसि यदि सतां शाब्दिकाश्चेत् बुधाः स्युः ।

किं तैरेवापराद्धं नटविटगणिकानृत्यहस्तप्रचारैः

तोधी तोधी तधी तित्तकिट तकिट धिक् ताहधिक् तत्तकारैः ॥

नलचम्पूः – 

त्रिविक्रमभट्टेन रचितः अयं चम्पूग्रन्थः उपलभ्यमानासु चम्पूकृतिषु प्रथमः इति वक्तुं शक्यते । मूलकथावस्तु महाभारतस्य वनपर्वणः । अत्र कवेः श्लेषालङ्कारस्य प्रौढिम्नः उदाहरणं किञ्चित् पश्याम ।

यः शृङ्गारं जनयति नारीणां न अरीणां यः करोति

आश्रितस्य नवं धनं न (वं) धनं, यो गुणेषु रज्यते ।

नरमणीनां, न रमणीनां यस्य च नवंस्याग्रहारेषु

श्रूयते नलोपाख्यानं न लोपाख्यानम् ॥ 

अग्रे नारायणप्रशंसापूर्वकः अयं श्लोकः नितरां रमणीयः ।

सदूषणापि निर्दोषा सखरापि सुकोमला ।

नमस्तस्मै कृता येन रम्या रामायणी कथा ॥ 

एषा रामायणकथा दूषणसहिता अपि निर्दोषा । सखरापि सुकोमला इति कथनात् अत्र विरोधाभासालङ्कारः सुन्दरतया प्रतिपादिता कविना ।

एवं च न केवलं गद्येन, न केवलं पद्येन, अपि च गद्यपद्याभ्यां मिश्रिता इत्यतः एव अपि चम्पूः वाद्यसहिता गीतिरिव सहृदयान् रञ्जयति । तदेव चम्पूकाव्यस्य वैशिष्ट्यम् इत्यत्र न कापि संशीतिः ।

* * * * * *

आकरग्रन्थाः –

१. काव्यादर्शः ।

२. चम्पूरामायणम् ।

३. चम्पूभारतम् ।

४. नलचम्पूः ।

५. नीलकण्ठविजयचम्पूः ।

६. विश्वगुणादर्शचम्पूः ।

[/vc_column_text][/vc_column][/vc_row]