ग्रन्थसम्पादनक्रमः

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

ग्रन्थसम्पादनक्रमः

डा. कुमुदा राव् एच् ए

सारांशः –

लेखेऽस्मिन् ग्रन्थसम्पादनक्रमः संक्षेपेण विवृतः वर्तते। प्राचीनपरम्परायां लिपिकाराणां साहाय्येन पुस्तकसङ्ग्रहणार्थं प्रतीनां निर्माणक्रमः अवर्तत। अत एव बह्व्यः हस्तप्रतयः उपलभ्यन्ते देश-विदेशेषु। लब्धानामेतासां हस्तप्रतीनां कथं वा सम्पादनं कार्यमिति तु महत् प्रयासकरं कर्म। तत्र प्राधान्येन स्तरषट्कमवलोक्यते। ग्रन्थवरणम्, सामग्रीसङ्कलनम्, मातृकाणां मुद्राकरणम्, प्रतिलेखनम्, पाठान्तरसङ्कलनम्, मातृकाणां (पुत्रिकाणां) वंशक्रमनिर्धारणं चेति। अत्र वयं विस्तरेण प्रत्येकं स्तरं पश्यामः।

कुञ्चिशब्दाः- ग्रन्थसम्पादनम्, ग्रन्थवरणम्, सामग्रीसङ्कलनम्, मुद्राकरणम्, प्रतिलेखनम्, पाठान्तरसङ्कलनम्, मातृकावंशः

ग्रन्थसम्पादनम्

ग्रन्थसम्पादनं नाममातृकासु लभ्यमानानां ग्रन्थपाठानां सामग्रीसङ्कलनपूर्वकं ग्रन्थकर्तृरचितमूलपाठेन सादृश्यं वहमानस्य पाठस्य रचनार्थं विधीयमानः प्रयत्नः। महदिदं कार्यं यत्र सम्पादकस्य श्रद्धापूर्वकः प्रयत्नः, एवं महती सहना अपेक्ष्यते। 

ग्रन्थसम्पादनक्रमः

अत्र ग्रन्थस्म्पादने प्राधान्येन स्तरषट्कं अनुस्रियते। तच्च

  1. ग्रन्थवरणम्
  2. सामग्रीसङ्कलनम्
  3. मातृकाणां मुद्राकरणम्
  4. प्रतिलेखनम्
  5. पाठान्तरसङ्कलनम्
  6. मातृकाणां (पुत्रिकाणां) वंशक्रमनिर्धारणम्

ग्रन्थवरणम्

ग्रन्थवरणं ग्रन्थस्म्पादने प्रधानः स्तरः। ग्रन्थवरणं नाम सम्पादनार्थम् एकस्य ग्रन्थस्य व्याख्यानस्य वा चयनम्। वरणावसरे कश्चन पूर्वाभ्यासः करणीयः।

  • अत्रादौ विविधसंशोधनालयेषु प्रकटितानां मातृकासूचीनां परिशीलनं कार्यम्। 
  • मुद्रितासु कृतिषु अथवा अन्यत्र क्वापि चितस्य ग्रन्थस्य उल्लेखः कृतः वा इत्यवलोकनीयः। ग्रन्थसम्पादकैः सह चिन्तनं कार्यम्।
  • प्रधानतया एन्.सि.सि. सूच्याः परिशीलनं सम्यक् कार्यम्।
  • कदाचित् पूर्वमुद्रितानामपि ग्रन्थानां संस्करणापेक्षा भवेत्। यदि तत्र अनङ्गीकार्यपाठाः दृष्टाः, अशुद्धयः अवलोकिताः, अस्पष्टता स्यात्, व्याख्यानादीनामभावः दृष्टः तर्हि तस्यैव संस्करणकारणसत्त्वात् पुनः सम्पादनार्थं चेतुं शक्यते।

यथा, मीमांसकरत्नः प्रो.वि..रामस्वामी शास्त्री महोदयः भवभूतिना विरचितस्य मालतीमाधवग्रन्थस्य पूर्णसरस्वतिवर्येण कृत रसमञ्जरी नाम्नी व्याख्या सम्पादनार्थं  चिता।

तत्रेमानि कारणानिव्याख्येयं ग्रन्थस्याध्ययने उपकारी यद्यपि ग्रन्थोऽयं सरलः, अथापि गूढार्थस्य ज्ञाने, कृतेः रसनिष्पीडने व्याख्येयं सहकरोति व्याख्यायाः अस्याः 1953 वर्षात्पूर्वं केनापि सम्पादितम् अत एव सम्पादकेन व्याख्येयं सम्पादनार्थं चिता। 

सामग्रीसङ्कलनम्

ग्रन्थसम्पादने अयं द्वितीयस्तरः। अत्र स्तरे अपेक्षितानां सामग्रीणां सङ्ग्रहः क्रियते। 

सामग्री द्विविधाप्रत्यक्षसामग्री परोक्षसामग्री चेति।

प्रत्यक्षसामग्री द्विविधाअन्तःसाक्ष्यरूपा बाह्यसाक्ष्यरूपा चेति।

अन्तःसाक्ष्यरूपा सामग्री त्रिविधाएकला मातृका, द्वे मातृका/द्व्यधिका मातृकाः, मुद्रितं संस्करणं चेति।

बाह्यसाक्ष्यरूपा सामग्री त्रिविधाउद्धृतयः, सङ्कलनग्रन्थाः, पादग्रहीतृ साहित्यम्/सांशग्रहणाः कृतयः।

परोक्षसामग्री सप्तविधासमानविषयकाः कृतयः, व्याख्यानानि, भाषान्तरानुवादाः, सारांशः, शासनानि, संशोधनलेखाः, संशोधनग्रन्थाश्चेति। एताः सर्वाः अपि सामग्र्यो बाह्यसाक्ष्यरूपा एव।

अन्तःसाक्ष्यसामग्री – 

एकला मातृका

एकला मातृका नाम एकस्याः एव मातृकायाः उपलब्धिः। एकस्याः एव मातृकायाः उपलब्धौ शुद्धपाठनिर्णयः क्लेशकरः भवति। तत्रत्य लिपिकारप्रमादाः, अशुद्धलेखनम्, दुर्वाच्यलेखनम्, पत्राणां भग्नता, क्रिमिदष्टता सम्पादने क्लेशं जनयति। तत्र यदि बाह्यसाक्ष्यसामग्र्यः केचन दोषान् समीकुर्युः। एकला मातृका यथाअष्टादशशतकोत्पन्नेन वेङ्कामात्येन रचिता कुशलवचम्पूः (प्रा.वि.सं, मैसूरु. मातृकाङ्कः बि.562) केषुचन स्थलेषु कृमिदष्टत्त्वात्तत्र मूले किमवर्तत इति ज्ञातुमतीव कष्टम्। भाग्यवशात् ग्रन्थकर्ता स्वेनैव विरचिते अलंकारमणिदर्पणे (प्रा.वि.सं,मैसूरु. मातृकाङ्कः पि.एल्.2570) बहूनाम् अलङ्कारलक्षणानां लक्ष्यत्वेन कुशलवचम्पूगतानि पद्यान्युद्धृतवान् येषां साहाय्येन कृमिदष्टेष्वपि स्थलेषु वर्तमानस्य पाठस्य योजनं कर्तुं शक्यते। 

जगन्नाथविजयाख्यं वेङ्कामात्येन रचितं व्याकरणकाव्यं केवलमेकलायां मातृकायामुपलभ्यत इदानीम्। (प्रा.वि.सं,मैसूरु. मातृकाङ्कः सि.2020) मातृकैषा अधिकतरं कृमिदष्टा। कतिचन पत्राणि जालानीव प्रतिभान्ति। बाह्यसाक्ष्यस्याभावादस्य संपादनकार्यमतीव क्लिष्टम्। परन्तु विदुषा एच्.वि.नागराजरावेण केवलमेतत् सम्पादितम्, अपि स्वविरचितया संस्कृतव्याख्यया एतद्विभूषितञ्च। असाधारणमिदं पण्डितकृत्यं केवलं काव्यस्थपदानां पाणिनिसूत्रैः संवादार्थां तितिक्षामपेक्षते अपि तु परमोत्कृष्टं विद्वत्त्वं गभीरमन्तर्दर्शनं च।

द्वे मातृके/द्व्यधिका मातृकाः

द्व्यधिकाः मातृकाः यदि उपलभ्यन्ते, पाठनिर्णयः सुकरः। दोषपरिमार्जनं सुलभम्। ग्रन्थसम्पादनञ्च सरलं जायते। तत्र कारणमेकस्यां मातृकायां वर्तमानां पाठा दोषाधिक्ययुजः स्युः, अपरस्याञ्च मातृकायां वर्तमानाः पाठाः शुद्धाः स्युः। एकस्यां मातृकायां यत्र पाठः कृमिदष्टत्त्वाद्वा भङ्गाद्वा अस्फुटलेखनाद्वा पठनानर्हो भवति, तस्मिन्नेव स्थले अपरस्यां मातृकायां पाठः पूर्वोक्तदोषरहितः पठनार्हश्च भवेत्। मातृकासु सुवाच्या लिपिरप्यत्रावधानमर्हति। कासुचन मातृकास्वक्षराणि स्पष्टानि स्युरन्यासु मातृकासु पुनरतीवास्पष्टानि। अन्यदपि कारणमनेकमातृकाणामुपयोगे। एकस्यां मातृकायां कियतांशेन ग्रन्थो न्यूनः स्यात्। अपरस्यां मातृकायां ग्रन्थः पूर्णः स्यात्। एकत्र मातृकायां ग्रन्थस्य प्राथमिकाः भागाः, अपरस्यां चान्तिमा भागाः स्युः। इत्थञ्च अनेकमातृकासञ्चयनं पाठानामधिकाया अस्तव्यस्तताया निवारणे साहाय्यं जनयति।

यथामालतीमाधवस्य  ‘रसमञ्जरीव्याख्यायाः सम्पादने दशमातृकाः उपलब्धाः। 

.मातृकामलयाललिपिःप्रायः सम्पूर्णः।

.मातृकामलयाललिपिःतालपत्रम्पुरातनम्सम्पूर्णम्शुद्धञ्च।

.मातृकामलयाललिपिःतालपत्रम् – 40 पत्राणि लब्धानि।

.मातृकामलयाललिपिःतालपत्रम्तृटितम्दोषग्रस्तम्अपूर्णम्।

.मातृकामलयाललिपिःतालपत्रम्पुरातनम्अपूर्णम्।

.मातृकामलयाललिपिःतालपत्रम्उत्तमस्थितिःप्रथमाङ्कद्वयमुपलब्धम्।

.मातृकामलयाललिपिःतालपत्रम्.मातृकया सादृश्यम्।

.मातृकामलयाललिपिःतालपत्रम्।

.मातृकामलयाललिपिःतालपत्रम्छिन्नम्– 4 तः अन्तिमाङ्कपर्यन्तम्।

.मातृकाग्रन्थलिपिःतालपत्रम्अष्टमाङ्कपर्यन्तम्।

एवं दशमातृकाः सङ्गृहीताः। तत्र कतिचन सम्पूर्णाः, कतिचनासम्पूर्णाश्च। सर्वं संशोध्य समग्रा व्याख्या सम्पादिता अस्ति।

मुद्रितं संस्करणम्

पूर्वमुद्रितग्रन्थे समुपयुक्तमातृकातो भिन्नानां मातृकाणामुपलब्धौ, पूर्वमुद्रितग्रन्थादृतपाठापेक्षया प्रशस्ततराणां पाठानां सम्प्रत्युपलभ्यमानासु मातृकासु सत्त्वे पूर्वमुद्रितस्य ग्रन्थस्य पुनः संस्करणं कर्तुं शक्यते।

बाह्यसाक्ष्यसामग्री

उद्धृतयः

कदाचित् कृतीनामुद्धृतयः क्वचिदन्यग्रन्थेषु उपलभ्यन्ते येन तस्य कृतेः सम्पादनं सुष्टु कर्तुं शक्यते। यथा, कात्यायनस्मृत्याः पुनःसृष्टौ डा.पि.वि.काणे निबन्धग्रन्थेषु व्याख्यासु चोद्धृतानि कात्यायनवाक्यान्यवालम्बत। डा.फ्रूह्र्रर्, डा.जालि तथा रङ्गस्वामी इत्येते त्रयो विद्वांसो बृहस्पतिस्मृतेः पुनर्निर्माणमकुर्वन् उद्धृतीनामवलम्बनेन।

सङ्ग्रहाः

प्रायः सुभाषितसङ्रहग्रन्थाः प्राचीनपद्यानां सङ्कलनानि। एतेषु सङ्ग्रहेषु संग्रहकारस्य दृष्टिपथे पतितानामेव पाठानामुद्धृतिर्वर्तते। वल्लभदेवस्य सुभाषितावल्यां दृष्टान्तशतकतः कतिचन पद्यानि समुद्धृतानि। दृष्टान्तशतकस्यास्मदुपलब्धेभ्यः पाठेभ्यो भिन्नतरा एते पाठाः। सुभाषितावली अस्मदुपलब्धदृष्टान्तशतकमातृकाणामपेक्षया प्राचीनतरा। तस्मात्तत्र वर्तमाना दृष्टान्तशतकपाठा बाढं परामर्शयोग्याः।

पादग्रहीतृ साहित्यम्/सांशग्रहणाः कृतयः

पादग्रहीतृ साहित्यमिति शब्देन कस्यापि खण्डकाव्यस्य, महाकाव्यस्य स्तोत्रस्यापि वा पद्यानां पादान् आहरत् खण्डकाव्यं, महाकाव्यमथवा स्तोत्रं क्रमेण ज्ञेयम्। इत्थंभूतलक्षणं साहित्यं जैनैरतिविपुलया संख्यया निर्मितम्। यस्मात् काव्यात् पादा आह्रियन्ते तस्य पाठनिर्धारणे पादग्रहीतृ साहित्यं भूरिश उपकरोति।

अन्यत् पादग्रहीतृ साहित्यम्शीलदूतम्चारित्रसुन्दरगणिकृतम्। अत्र केवलं मेघदूतपद्यानां चतुर्थाः पादा आहृताः। देवानन्दाभ्युदयःअत्र शिशुपालवधपद्यानां केवलं चतुर्थाः पादाः आहृताः।

अन्याः कृतयः

पाठपरिष्करणे अन्याः कृतयः सहकारी भवन्ति। यथाक्वचिद्व्याकरणग्रन्थेप्रागिलीयइति पाठः लब्धः। तदा सिद्धान्तकौमुदीमवलम्ब्यप्रागिवीयइति पाठः शोधनीयः।

व्याख्यानानि

व्याख्यानानि पाठनिश्चये प्रबलानि साधनानि। द्व्यधिकाः पाठाः यदा लभ्यन्ते तदा शुद्धपाठनिर्णये व्याख्यानान्येव शरणम्। यथाशिशुपालवधे – ‘अनन्यगुर्वास्तव तेन केवलाः’, ‘अनन्यगुर्व्यास्तव तेन केवलःइति पाठद्वयमुपलब्धम्। तत्र व्याख्याता मल्लिनाथःअनन्यगुर्व्याःइत्येव पाठः शुद्धः इत्यभिप्रैति। तत्र कारणं हिअनन्यगुर्वा इत्यनीकारान्तः पाठः’, समासात् प्राग् ङीषिनद्यृतश्चइति कप् स्यादिति।

भाषान्तरे अनुवादाः

भाषान्तरे अनुवादः ग्रन्थसम्पादने प्रबला सामग्री भवति। अनुवादेषु वर्तमानाः पाठाः मूलग्रन्थपाठस्य स्थिरीकरणे साहाय्यं कुर्वन्ति। यथाशिवाग्रयोगिना विरचितायाः शैवपरिभाषायाः अनुपलब्धः पञ्चमोऽध्यायः आर्.शामशास्त्रिणा तमिल् भाषायामनूदितग्रन्थे लभ्यते।

तात्पर्यसारग्रन्थाः

वनमालिमिश्रकृत न्यायामृतसौरभस्य द्वित्रा मातृका या उपलभ्यन्ते, ताः सर्वाः भ्रष्टपाठा विच्छिन्नाश्च। अस्य ग्रन्थस्य सारः आनन्दतीर्थप्रणीते न्यायरत्नाकरे लभ्यते येन न्यायामृतसौरभस्य सम्पादनं सुलभं भवति।

शिलाशासनानि

शिलाशासनानि अपि क्वचित् ग्रन्थसम्पादने साहाय्यकानि। यथाकाम्बोजदेशीयेषु शासनेषु रामायणमहाभारतगतानि पद्यान्युत्कीर्णानि यानि संस्करणे परिगणितानि।

संशोधनलेखाः

संशोधनलेखाः अपि सम्पादने उपकुर्वन्ति। यथाडा.प्रेमस्वरूपगुप्तेन रचितेनाट्यलक्षणे भावलक्षणपाठःइत्यस्मिन् संशोधनप्रबन्धे भरतप्रणीतनाट्यशास्त्रगतस्य भावलक्षणपाठस्य सम्पादनं कृतम्।

संशोधनग्रन्थाः यथापण्डितरघुनाथशर्मणा विरचितेवाक्यपदीयपाठभेदनिर्णयःइत्याख्ये ग्रन्थे वाक्यपदीयपाठान्तरेषु आदातव्यस्य पाठस्य निर्णयः कृतः वर्तते।

मातृकाणां (मुद्रितानां संस्करणानां ) संज्ञाकरणम्

मातृकाणां ,,,, इत्यादिभिर्वर्णैरथवा 1,2,3,4,5,6 इत्यादिभिः संख्याभिः संज्ञाकरणे मातृकागतं वैशिष्ट्यं किमपि भासते। अर्थवत्पदानामाद्यक्षरयुक्तासु संज्ञासु कृतासु मातृकागतं वैशिष्ट्यं झटिति ग्रहीतुं शक्यते। लिपिं, मातृक्पलब्धिस्थलं, मातृकास्वामिनं वावलम्ब्य संज्ञाकरणं प्रशस्तम्। 

लिप्यवलम्बनेन यथाग्र (न्थलिपिलिखिता  मातृका), (लयाललिपिलिखिता मातृका), (न्दिनागरीलिपिलिखिता मातृका), इत्यादि। मातृक्पलब्धिस्थलावलम्बनेन यथा (ण्डार्कर् प्राच्यविद्यासंशोधनालयस्था मातृका), रा (यल् एष्याटिक् सोसैटिस्था मातृका), का (श्यामुपलब्धा मातृका) इत्यादि। मातृकास्वाम्यवलम्बनेन यथागो (विन्दभट्टस्वामिका मातृका), दे (वराजशास्त्रिस्वामिका मातृका) इत्यादि।

परन्तु सम्पादनार्थं स्वीकृताया एकस्या एव कृतेरेकस्यामेव लिप्यामुपलब्धा अनेका मातृका यदि वर्तन्ते, यदि चैकस्मिन्नेव संशोधनालये ताः सर्वाः वर्तन्ते, तदा 1,2,3,4,5,6 इति संख्या एव संज्ञात्वेन स्थापनीया भवति। परन्तु कमपि मातृकागतं धर्मं सा संज्ञा प्रतिनिदध्यादेव। यथाति1(गळारी), ति2, ति3, ति4, ति5 इत्यादि। संशोधनालये दत्तानां क्रमाङ्कानामेव संज्ञापर्यायत्वेन स्वीकर्तुं शक्यते।

मुद्रितानामपि संस्करणानां संज्ञाकरणमावश्यकम्। यथाचौ (खम्बा), नि (र्णयसागरः), बा (लमनोरमा प्रेस्स्) इत्यादि। अथवा सम्पादकानामाधारेण संज्ञाकरणं कर्तुं शक्यते। यथाभा (र्गवशास्त्री), (स्तूरी रङ्गाचार्यः) इत्यादि। अन्यश्च क्रमःमुद्रणस्थलमवलम्ब्य संज्ञाकरणं यथाका (श्यां मुद्रितम्), भा (वनगरे मुद्रितम्) इत्यादि।

प्रतिलेखनम्

आदितः अन्त्यपर्यन्तं शुद्धत्वेन स्पष्टलेखनत्त्वेन भासमानस्य मातृकागतस्य पाठस्य प्रतिलेखनमादौ कर्तव्यम्। एवं लेखनसन्दर्भे लिपिकारकृताः दोषाः तथैवावशेषय्य, पाठशुद्धिः आवरणचिह्ने सूचनीया। यथालिपिकारेणरामायणइति लेखनीयेरामयणइति लिखिते तथैव विलिख्य आवरणे (रामायण) इति शुद्धः पाठः दर्शणीयः।

पाठान्तरसङ्कलनम्

एकस्याः मातृकायाः पठनानन्तरं तस्याः मातृकायाः प्रतिलेखनं कुर्यात्। तदुत्तरं मातृकान्तरं स्वीकृत्य प्रतिलेखनं कुर्यात्। ततः प्रतिलिखितानां मातृकाणां पाठाः तोलनीयाः। तत्र विभिन्नमातृकागतानां पाठान्तराणां लेखने भिन्ननां मषीणामुपयोगः कार्यः। मातृकाणामाधिक्यसत्त्वे सङ्कलनपत्रेषु अक्षराणां पार्थक्येन लेखनं कार्यम्। यथा

1 दे  त्तो गृ हं तः
2 नं
ति ज्ञ भु वि स्थि
रा दि श्रु

अत्र यत्र भेदः वर्तते तान्येव अक्षराणि लेखनीयानि। सर्वाणि।

सङ्कलनपत्राणां कलेवरस्य महत्तरत्त्वात् सर्वेषु गृहेषु अक्षरपूरणं नैव सम्भवति यत्फलतया सङ्कलनपत्राणां भूयान् भागो व्यर्थीभवति। सङ्गणकयन्त्रेण एतत्कार्यं सुलभम्।मैक्रोसोफ्ट् एक्सेल्उपयोगेन विभिन्नमातृकागतानां पाठानां सर्वेष्वक्षरेषु दृश्यमानानां व्यत्ययानां पार्थक्येन प्रदर्शनं सुलभतरम्। अथवा, ‘पेज्मेकर्इति तन्त्रांशस्योपयोगेन अमुद्रणार्हे भागे पाठान्तराणि आदावुट्टङ्क्य, उट्टङ्कनसमाप्तौ मुद्रणार्हे भागे तत्तत्पुटगतानां पाठान्तराणामधस्तान्निवेशनं सुलभम्।

मातृकाणां (पुत्रिकाणां) वंशक्रमनिर्धारणा

ग्रन्थसम्पादने मातृकाणां परस्परसम्बन्धज्ञानमत्यावश्यकम्। यदि लिपिकैः लेखनावसरे तेषां नाम,सङ्केतः, आदर्शमूलप्रतेः निर्देशः, लिखितसमयः इत्यादि विचाराः निर्दिष्टाः स्युः, अधुना सम्बन्धनिर्णये ईदृशक्लेशाः नाभविष्यन्। विरलतया मातृकाणामुपरि तस्य कर्तुः नाम, प्रतिलिपिकरणे कारणं उल्लिखितं दृश्यते। ईदृशविचाराणामभावात् वंशवृक्षनिर्माणं क्लेशकरमनुभूयते। 

सम्प्रति मातृकाः सरणिरूपेण परम्परातः परम्परां प्राप्ताः उपलभ्यन्ते। अत्र सम्बन्धद्वैविध्यं दृष्टुं शक्यते– 1) विद्यमानमातृकातः साक्षादागताः एका/अधिका वा मातृकाः 2) एक\अधिकाविद्यमानमातृकातः आगताः विद्यमानमातृकाः अर्थात् विद्यमानमातृकाः आन्तर्येण परस्परं सम्बद्धाः स्युः।

पाठवैविध्यं मातृकाणां मूलनिर्णये  मुख्यम्। आकस्मिकेतरसमानपाठाः समानं मूलं सूचयन्ति। अयं हस्तप्रतीनां मूलनिर्णये आश्रयणिइयः कश्चित्साधारणो नियमः। ग्रन्थकारस्य स्वहस्तप्रतिरेवास्य साधारणपाठस्य मूलं स्यात्। अन्यथा परम्परया या काचिद्धस्तप्रतिः तस्य मूलं स्यात्। उपलब्धाष्ट मातृकासु पञ्च हस्तप्रतीनां पाठः एकया रीत्या, इतरासां तिसॄणां मातृकाणां पाठः प्रकारान्तरेण भवति। पाठस्याकुलिषितत्त्वे पाठभेदोऽयं पञ्चानामेकः पाठः, इतरासां अपरः पाठः आसीदिति ज्ञायते।

लोपाः पारम्परिकसम्बन्धद्योतकसुनिश्चितपरीक्षा इति हाल् महाभागः अभिप्रैति। मातृकासु विद्यमानाः दोषाः द्विविधाः – 1) Peculiar Errors – प्रत्येकस्य लिपिकस्य स्वीया विशिष्टा शैली भवति। समानप्रतेः प्रतिः द्वाभ्यां कृतञ्चेत्, द्वयोरपि भिन्नता दृश्यत्येव। उभयोः समानता भवति। इदमेव 

2) Separating Errors – भाषादृष्ट्या दृश्यमानाः दोषाः तथैवावशेषणीयाः। ईदृशदोषाः एकां मातृकामपरमातृकायाः पृथक्कुर्वन्ति। अत एव Separating Errors इत्यभिधानम्। क्वचित् प्रतिषु दृष्टाः अन्यत्र त्वदृष्टाश्चेत् Conjunctive Errors इत्युच्यन्ते। एवंविध दोषाणामाधारेण मातृकासु वंशसम्बन्धः ज्ञायते।

यदा प्रतिद्वयं स्वीक्रियते ,तयोः तुलनायां दृश्यते यत् प्रत्यां विद्यमानाः सर्वे दोषाः मातृकायां द्ष्टाः। परं केचन मातृकायामाधिक्येन दृष्टाः। तदा मातृका मातृकायाः निष्पन्ना इति वक्तुं शक्यते। तथैव, मातृकायां विद्यमानाः सर्वे दोषाः मातृकायां प्राप्ताः, अपि चाधिक्येन केचन दोषाः दृष्टाश्चेत् मातृका मातृकायाः निष्पन्ना इति निर्णेतुं शक्यते। यदि , मातृकाभ्यां समानदोषाः प्राप्ताः, ते द्वे अपि समानप्रतेः निष्पन्ने इति वक्तुं शक्यते। यदि , मातृकाभ्यां समानता दृश्यते, ते द्वे अपि द्वाभ्यां प्रत्येकपरम्पराभ्यां निष्पन्ने इति वक्तव्यम्। एवं वंशनिर्णयः मिश्रणरहितमातृकासु शक्यः। 

हस्तप्रतीनां परस्परं वंशसम्बन्धनिर्णायिकाः साधारणाः परीक्षाः

  1. पदानां पाठभागानां लोपः, पाठभागानां स्थानान्तरता च।

एते लोपाः प्रायः पाठसादृश्येनानुमीयमानसम्बन्धापेक्षया अधिकतरं नैकटिकं सम्बन्धं सूचयन्ति। अपि काचिद्धस्तप्रतिः अन्यस्याः हस्तप्रतेः प्रतिरित्यंशं ज्ञापयन्तीमे।

  1. बहुषु विशिष्टेषु पाठेष्वथवा हस्तप्रतेः वैशिष्ट्यान्तरेषु साम्यम्।

हस्तप्रतीनां परस्परसम्बन्धः सर्वदा साधारणः। पाठरचनायामुपयुक्ताः सर्वापि हस्तप्रतिरेकस्याः प्राचीनहस्तप्रतेः सकाशादेव आगतेति नास्ति नियमः।अपि समानमूलसम्बद्धानां हस्तप्रतीनां पूर्णपाठसादृश्यं सर्वदा भवतीति वक्तुं शक्यते।

कदाचिद्द्वयोर्हस्तप्रत्योर्विशिष्टानि साम्यानि संलक्ष्यन्ते। इदञ्च तयोर्द्वयोः सम्बन्धं दृढयति। अयञ्च सम्बन्धः आकरसमुदायजन्यः इति वयमूहामहे। एवं हस्तप्रतिसमुदायः कश्चिदस्तीति वयं निर्णयामः।

कस्यचिद्ग्रन्थस्य अष्टौ हस्तप्रतयः सन्ति, या वयं ,,,,,,, इत्याकारयामः। एतासु हस्तप्रतेः पाठवैलक्षण्यानि इतराभ्यः भिन्नानि। एकतः , इति हस्तप्रतिद्वयमपरतः ,,,, इति हस्तप्रतयश्च हस्तप्रत्यन्तरापेक्षया भिन्नत्वेऽपि परस्परमधिकं साम्यं भजन्ते। तथा एवं इति हस्तप्रतिद्वयं समानवंशीयंइति नाम्ना आनुमानिकेन समानमूलेन जातम्। एवमेव ,,,, हस्तप्रतयो वंशान्तरीयाः सत्यःइत्यानुमानिकेन समानमूलतो जाता इति। 

आदौ हस्तप्रतीनां सततं प्रतिलिपीकरणे दोषाः कथं प्रविशन्तीति पश्यामः।हस्तप्रतेः पाठान्तराणि हस्तप्रतेः हस्तप्रतेर्वा पाठान्तरापेक्षया दोषनिर्मुक्तानीति युक्तमेव। कल्पितमूलात्हस्तप्रतेः सकाशात् , हस्तप्रती समुत्पन्ने इत्यतः तस्याः पाठान्तराणि हस्तप्रतेः, हस्तप्रतेर्वा कस्माच्चिदपि पाठात् प्राचीनतराणि प्रामाणिकानि च। , इत्यनयोः पाठान्तराणि तोलयित्वाहस्तप्रतेः पाठान्तराणि ज्ञेयानि।हस्तप्रतिर्यद्युपलभ्येत तर्हि तस्याः अथवा हस्तप्रतेरपेक्षया प्राचीनत्वस्य प्रामाणिकतरत्वस्य , हस्तप्रत्योः प्रविष्टान् कांश्चन लिपिकारदोषान् ज्ञातुं वा शक्नुमः। एवं ,,,, हस्तप्रतिषु एकैकस्याः हस्तप्रतेः स्वीकारे तासां पाठान्तरापेक्षयाहस्तप्रतेः पाठान्तराण्येव प्राचीनतराणि प्रामाणिकतराणि च। ,,,, हस्तप्रतयः सम्पूर्णपरिवारस्य साधारणलक्षणप्राप्त्या सह एवं हस्तप्रत्योर्वैलक्षण्येषु परिदृश्यमानस्य सम्बन्धस्य ,, हस्तप्रतीनां वैलक्षण्यैः सह विद्यमानस्य संबन्धस्यापेक्षया समीपतरत्वे , इति हस्तप्रतिद्वयंइति नाम्ना कल्पितेन समानमूलेन समागतं स्यादित्यनुमीयते। इयञ्चहस्तप्रतिः ,,,‘परिवारसम्बद्धा। , इति हस्तप्रती तोलयित्वाहस्तप्रतेः पुना रचितानि पाठान्तराणि एवं हस्तप्रत्योः पाठान्तरापेक्षया प्राचीनतराणि प्रामाणिकतराणि भवन्ति। एतावता आकरमूलान्वेषणं, हस्तप्रतिपरिवारमूलान्वेषणं वा समाप्तम्। ,, एवंइत्येतासां पाठान्तरतोलनानन्तरंपाठ उपलब्धुं शक्यः। किञ्चइत्यस्या एवंइत्यस्याश्च पाठान्तराणि परस्परं इत्यस्याः पाठान्तरैश्च साकं तोलयित्वा ततोऽपि प्राचीनतरायाःहस्तप्रतेः पाठः कल्पनीयः। इयञ्च कल्पिताहस्तप्रतिरष्टानामपि हस्तप्रतीनां प्रतिलिपीकरणेन आनुमानिकं समानं मूलं भवति। अस्याहस्तप्रतेः ,‘एवंइति विविधहस्तप्रतिशाखा आयान्ति। लब्धहस्तप्रतिभ्यः प्राप्तानि ,‘एवंपाठान्तराणि तोलयित्वा पुना रचयितुं शक्या प्राचीनतमा सर्वासां साधारणमूला हस्तप्रतिर्भवति। अतः सर्वासां लब्धहस्तप्रतीनां प्रधानमूलमातृकाहस्तप्रतिरेव।  एवं प्रकारेण हस्तप्रतीनां वंशावली काचित्समुपलभ्उपरितनायां हस्तप्रतिवंशावल्यां मूलप्रतित्वेन कल्पिते’ ‘इत्येते उपमातृके इति, अथवा प्रधानमातृकाया अलब्धसद्यःप्रती इति चाभिधीयते।

उपसंहारः

इत्थञ्च स्तरषट्कमनुसृत्य ग्रन्थसम्पादनं क्रियते। ग्रन्थसम्पादनेन हस्तप्रतिषु पिहितज्ञानराशेः समेभ्यः अध्येतृभ्यः प्राप्तिर्जायते। अपि च नूतनानां ग्रन्थानां, व्याख्यानां, भाष्यानां वा आविष्कृतिर्जायते। अज्ञातकवीनां परिचयो जायते; शैली च ज्ञायते। एवं बहुप्रयोजिका ग्रन्थसम्पादनप्रविधिः।

परामृष्टग्रन्थानामावलिः

  1. ग्रन्थसम्पादनशास्त्रम्, एस्.जगन्नाथः, पूर्णप्रज्ञसंशोधनमन्दिरम्, बेङ्गलूरु, 2014
  2. पाण्डुलिपिविज्ञान, डा.सत्येन्द्रः, राजस्थान हिन्दी ग्रन्थ अकाडमी, 2013
  3. भारतीयग्रन्थसम्पादनशास्त्रप्रवेशिनी, (एस्.एम्.कत्रे- अनुवादः) राष्ट्रियसंस्कृतविद्यापीठं, तिरुपतिः, 2002
  4. Introduction to Manuscriptology, R S Shivaganesha Murthy, Sharada Publishing  House, 1996

Postal address –

Kumuda Rao H A
w/o Mahendra M Hegde
#207, Sri Krishna nivas, Krishna garden layout
Gulakamale, Kaggalipura
Bengaluru-560082
Mob No – 8762161446 Email ID – kumuda.sirsi@gmail.com

[/vc_column_text][/vc_column][/vc_row]