क्रियाविशेषणविचारः

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

क्रियाविशेषणविचारः

डा. राघव के. एल्.

योजनासहायकः(शैक्षणिक), कर्नाटकसंस्कृतविश्वविद्यालयः

चामरजपेटे, बेङ्गळूरु – ५६००१८

Mobile: 9738278853 Email: raghavkl1@gmail.com

क्रियाविशेषणविचारः

उपोद्घातः

       “नीलो घटः”, “नीलं घटमानय” इत्यादौ नीलाभिन्नः घटः इत्याकारकस्य नीलघटयोरभेदान्वयबोधस्य, नीलस्य घटः इत्यादौ तदभावस्य च सर्वानुभवसिद्धत्वात् तादृशान्वयबोधस्य च संसर्गमर्यादया भास्यत्वात् तदनुरोधेन तार्किकचक्रवर्तिना गदाधरभट्टाचार्येण अभेदान्वयबोधौपयिकाकांक्षास्वरूपमुक्तम् – “अभेदश्च प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्तिना च पदेनोपस्थापितस्यैव, न तु विरुद्धविभक्तिमत्पदार्थस्य”[1] इति । एवं चाभेदान्वयबोधं प्रति समानविभक्तिकत्वं तन्त्रमिति गम्यते । समानविभक्तिकत्वञ्च स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् । यथा – नीलो घटः इत्यादौ स्वं – विशेष्यवाचकं घटपदम् । तत्प्रकृतिका विभक्तिः सुविभक्तिः । तत्सजातीयविभक्तिः नीलपदोत्तरसुविभक्तिः । तत्प्रकृतिकत्वं नीलपदेsस्तीति तदुपस्थाप्यस्य नीलादेः घटादावभेदान्वयः, नीलाभिन्नघटबोधश्च । विभक्तौ सजातीयत्वं च न समानानुपूर्वीकत्वम् । “वेदाः प्रमाणम्” इत्यादौ विशेष्यविशेषणवाचकपदोत्तरयोः विभक्त्योरानुपूर्वीसाम्याभावादभेदान्वय-बोधानुपपत्तेः । तत्तद्वर्णोत्तरतत्तद्वर्णरूपानुपूर्वीसाम्यं त्वत्र न सम्भवति स्वमोरानुपूर्वीभिन्नत्वात् । स्वप्रकितिकविभक्त्यानुपूर्वीसमानानुपूर्वी-विभक्तिकत्वरूपाकांक्षाविरहात् तत्राभेदान्वयबोधो न भवेत् । अतः साजात्यञ्च विभक्तिविभाजकप्रथमात्वादिनेत्युक्तम्[2] ।  “वेदाः प्रमाणम्” इत्यादौ विशेष्य-विशेषणवाचकपदोत्तरयोः विभक्त्योरानुपूर्वीभिन्नत्वेsपि स्वप्रकृतिकविभक्ति-विभाजकप्रथमात्वसजातीयविभक्तिकत्वरूपाकांक्षायाः सत्वात् प्रमिति-करणत्ववदभिन्नाः वेदाः इत्यभेदान्वयबोधः उपपद्यते ।

स्तोकं पचति इत्यादावभेदान्वयबोधोपपादनम्

       यद्यभेदान्वयबोधं प्रति निरुक्तसमानविभक्तिकत्वस्यैव तन्त्रत्वे स्तोकं पचति, मृदु पचतीत्यादावभेदान्वयबोधो न स्यात् । स्तोकपदोत्तरं सुब्विभक्तेः पचधातूत्तरं तिङ्विभक्तेश्च सत्वात् । धातूनां सुब्विभक्त्यप्रकृतित्वेन विभक्तिविभाजकप्रथमात्वादिसाजात्याभावेन स्वप्रकृतिकविभक्तिसजातीय-विभक्तिकत्वरूपाकांक्षायाः तत्राभावात् । किन्तु तत्रापि स्तोकमृद्वादेः धात्वर्थपाकविशेषणत्वेन स्तोकाभिन्नः पाकः इत्याकारकः अभेदान्वयबोधः इष्ट एव । एतदनुरोधेन क्रियाविशेषणस्थले द्वितीयान्तपदधातुपदसमभिव्याहारस्यापि[3] अभेदान्वयबोधौपयिकांक्षात्वमभ्युपगम्यते । एवं च प्रकृतेsपि द्वितीयान्त-स्तोकपदपचधातुसमभिव्याहाररूपायाः आकांक्षायाः सत्वात् स्तोकाभिन्नः पाकः इति बोधोपपत्तिः । यदि द्वितीयान्तस्तोकपदपचधातुसमभिव्याहारस्यैवाकांक्षात्वे तदतिरिक्तविभक्तिसमभिव्याहारस्थले अभेदान्वयबोधो न स्यादिति चेत्, सत्यम् । क्रियाविशेषणस्थले द्वितीयाविभक्तेरेव साधुत्वात् । तर्हि कथमत्र द्वितीयैव, क्रियाजन्यफलशालित्वस्यैव कर्मत्वात्, प्रकृते अधिश्रयणादि-व्यापरजन्यविक्लत्तिफलस्य स्तेके असत्वेन कर्मत्वाभावात् न तत्र तद्वाचिका द्वितीया इति चेत्, “क्रियाविशेषणानां क्लीबत्वं कर्मत्वं च”[4] इत्यनुशासनेन कर्मत्वातिदेशात् द्वितीयैव, न तदतिरिक्तविभक्तिरुत्पद्यते । यद्यपि कर्तुरीप्सिततमं कर्म इत्यनेन क्रियाजन्यफलशालित्वे एव कर्मसंज्ञायां कर्मणि द्वितीया इत्यनुशासनेन द्वितीयाविभक्तिर्भवति । स्तोकं पचतीत्यादौ तादृशमुख्यकर्मत्वाभवेsपि तन्निमित्तकं द्वितीयाविभक्तिरूपं कार्यं भवति उक्तानुशासनेन कर्मत्वकार्यातिदेशात् । वैयाकरणैस्तु “एवञ्च कर्त्रा स्वनिष्ठक्रियाप्रयोज्यफलेन सम्बन्धुमिष्यमाणमित्यर्थः । यथा – तण्डुलं पचति । फलस्यापि व्यपदेशिवद्भावेन फलसम्बन्धित्वात् कर्मत्वम् । अत एव तत्समानाधिकरणे “स्तोकं पचती”त्यादौ कर्मत्वसिध्दिः”[5] इति व्यपदेशिवद्भावेन फलस्यापि कर्मत्वात् तद्विशेषणस्य स्तोकादेः कर्मत्वमुपपादितम् । क्रियाविशेषणानामिति परिभाषा तु परिभाषेन्दुशेखरे नोपलभ्यते, तथापि सीरदेवस्य परिभाषावृत्तौ पठ्यते[6] । गदाधरभट्टाचार्यैस्तु कर्मात्वातिदेशोsभिमतः ।       

स्तोकः पाकः इत्यत्र द्वितीयावारणम्

       ननु यदि क्रियाविशेषणानां द्वितीया, तर्हि “स्तोकः पाकः” इति प्रयोगः कथं स्यात् ? यतः अत्रापि पचधात्वर्थे पाकक्रियायामेव स्तोकस्य विशेषणत्वात् उक्तानुशासनेन द्वितीयाप्रप्तौ स्तोकं पाकः इति प्रयोगापत्तिः। न चात्र पाकक्रिया पचधातुप्रतिपाद्या, किन्तु घञन्तपाकपदोपस्थाप्या । अतः स्तोकस्य घञन्तप्रतिपाद्यार्थविशेषणत्वं, न तु धातुप्रतिपाद्यपाकक्रियाविशेषणत्वमिति नोक्तानुशासनेन द्वितीयेति वाच्यम् । अत्रापि पचधातुनैव पाकक्रिया प्रतिपाद्यते न तु धञन्तेन, घञ्-प्रत्ययस्य साधुत्वमात्रार्थकत्वात् । घञः भावे विहितत्वात् भावकृतः प्रयोगसाधुत्वमात्रार्थकत्वात् । यतः “धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते” इति हरिवचनेन भावो नाम धात्वर्थक्रिया । धात्वर्थस्य च धातुनैवाभिधाने “अनन्यलभ्यः शब्दार्थः” इति पुनः भावप्रत्ययेन तदभिधानासम्भवात् । अभिधानेsपि पौनरुक्त्यम् । धातुप्रत्ययाभ्यामुभाभ्यां क्रियोपस्थितौ क्रियायाः द्विधा भानात् घटो घटः इतिवत् परस्परमन्वयासम्भवेन शाब्दबोधानुपपत्तिः । अतः भावकृतः साधुत्वमात्रार्थकत्वम् । एवं च प्रकृते घञा, तदन्तेन वा न पाकोपस्थितिः, किन्तु पचधातुनैवेति स्तोकस्य धातूपस्थाप्यपाकक्रियाविशेषणत्वात् स्तोकपदोत्तरं द्वितीया स्यादेव । अतः स्तोकं पाकः इति प्रयोगापत्तिः इति चेन्न ।

       उक्तानुशासने क्रिया नाम सार्थकप्रत्ययान्तधातूपस्थाप्यक्रिया इत्यर्थः । तद्विशेषणस्य कर्मत्वात् द्वितीया । स्तोकः पाकः इत्यत्र पचधातुनैव पाकोपस्थितावपि नात्र पचिः सार्थकप्रत्ययान्तः, तदुत्तरघञः उक्तरीत्या किञ्चिदर्थपरत्वरूपसार्थक्याभावात् । अतः पाकस्य धातूपस्थाप्यत्वेsपि सार्थकप्रत्ययान्तधातूपस्थाप्यत्वाभावात् तद्विशेषणस्य स्तोकस्य न कर्मत्वमिति न तत्र द्वितीया ।

स्तोकं स्थीयते इत्यादौ द्वितीयोपपादनम्

       ननु सार्थकप्रत्ययान्तधातूपस्थाप्यक्रियाविशेषणस्य कर्मत्वमित्यङ्गीकारे “स्तोकं स्थीयते” इत्यादौ द्वितीया न स्यात्, अत्रापि आख्यातस्य भावर्थकत्वेन तस्य सार्थकत्वाभावात् । अतः ष्ठाधातुः सार्थकप्रत्ययान्तो न भवतीति तदुपस्थाप्यस्थितिविशेषणस्य स्तोकस्य न कर्मत्वमुक्तानुशासनेन । ततश्च द्वितीया-अप्रसक्त्या प्रातिपदिकार्थ…. इति प्रथमाप्राप्तौ स्तोकः स्थीयते इति प्रयोगापत्तिः इति चेन्न ।

भावकृतां सार्थकत्वाभावेsपि भावाख्यातस्य वर्तमानत्वादिबोधकत्वेन सार्थकत्वात् । न च यत्र वर्तमानत्वमाख्यातेनाविवक्षितं तत्र भावाख्यातस्य वर्तमानार्थबोधकत्वाभावेन सार्थकत्वं न सम्भवतीति तत्र कथं स्तोकपदोत्तरं द्वितीयेति वाच्यम् । सार्थकत्वं नाम अर्थबोधकत्वम् । तच्चार्थबोधौपयिकाकांक्षावत्वम् । “स्थीयते” इत्यादौ भावाख्यातस्य वर्तमानात्वविवक्षायां यादृशानुपूर्वीमत्वरूपाकांक्षा वर्तते सैव वर्तमानत्वाविवक्षास्थलेsपि वर्तते । वर्तमानत्वाविवक्षणेन तद्बोधाभावेsपि बोधस्वरूपयोग्यत्वन्तु वर्तते, अकांक्षायाः सत्वात् । अतः वर्तमानत्वाविवक्षास्थलेsपि अर्थबोधजनकतावच्छेदकाकांक्षाशालित्वेन भावाख्यातस्य सार्थकत्वात् तदन्तधातूपस्थाप्यक्रियाविशेषणस्य स्तोकस्य कर्मत्वं निराबाधमिति स्तोकं स्थीयते इति प्रयोगोपपत्तिः ।

केचित्तुकारमतम् – धातोरिव घञन्तस्यापि पाकादौ शक्तिरिति ।

       यथा पचधातोः पाकक्रियायां शक्तिः तथा घञन्तसमुदायस्य पाकपदस्यापि पाके शक्तिरिति केचिदभ्युपगच्छन्ति । अत एव “स्तोकः पाकः” इत्यत्र घञन्तपाकपदेनैव पाकोपस्थितिः, स्तोकस्य च घञन्तार्थविशेषणत्वं न तु धात्वर्थविशेषणत्वमिति उक्तक्रियाविशेषणत्वाभावेन न तत्र द्वितीया । यदि घञन्तस्य पाकादौ शक्तिर्न स्यात् तदा “पाकान् करोति” इत्यादौ सुबर्थस्य संख्याकर्मत्वादेः पाकादावन्वयो न स्यात् । यतः प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वमिति नियमः । पचादिधातूनां सुप्प्रक्तित्त्वं नास्ति, तिङ्प्रकृतित्वमेव । अतः पाकः स्वप्रकृत्यर्थो न भवतिति धात्वर्थपाकान्वितसंख्यादिबोधकत्वं सुपो न सम्भवति, पचधातोरत्र सुबप्रकृतित्वात् घञन्तपाकपदयैवात्र शस्प्रकृतित्वात् । किन्त्वत्र पाके एव सुबर्थान्वयबोधः इष्टः । स च घञन्तस्य पाके शक्तिं विना नोपपद्यते । अतः घञन्तस्यापि पाकादौ श्क्तिरिति भावकृतामपि सार्थकत्वम् ।

प्रत्ययार्थान्वयः न प्रकृत्यर्थैकदेशसाधारणः  

       ननु प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वमिति निरुक्तनियमे प्रकृतिः नाम प्रकितितदेकदेशसाधारणम् । प्रकृत्यर्थैकदेशान्वयस्वीकारेण प्रकृते सुबर्थान्वयः सम्भवति । पाकस्य सुब्विभक्तिपकृतिघञन्तार्थत्वाभावेsपि प्रकृत्येकदेशार्थत्वादिति चेन्न । तथापि पचन्तं पश्यति, पचमानं पश्यतीत्यादौ धात्वर्थपाके सुबार्थान्वयबोधप्रसङ्गात् । यतः अत्र पचेः कर्तरि शतृप्रत्ययः । पचधातोः पाकक्रिया, प्रत्ययस्य कर्ता, द्वितीयायाश्च कर्मत्वमर्थः । द्वितीयार्थकर्मत्वे प्रकृत्यर्थस्य पाककर्तुः आधेयतयान्वयः, आधेयतायाश्च धात्वर्थदर्शने निरूपकतासम्बन्धेनान्वयः । पाककर्तृनिष्ठकर्मतानिरूपकदर्शनाश्रयः इत्याकारको बोधोsभिमतः तद्वाक्यात्, स च न सम्भवति । तथा हि पचन्तं पश्यतीत्यादौ सुप्-प्रकृतिः शतृशानजन्तपदम् । तदर्थश्च पाककर्ता । तदर्थैकदेशः पचधात्वर्थः पाकः इति धात्वर्थपाके द्वितीयार्थकर्मत्वाद्यन्वयसम्भवेन पाककर्मकदर्शनबोधः स्यान्न तु पाककर्तृकर्मकदर्शनबोधः । एवञ्च पाकं पश्यतीतिवत् पचन्तं पशतीत्यपि प्रयोगापत्तिः ।

       न च नह्येकत्र विशेषणतयोपस्थितमन्यत्रान्वेतीति नियमेन नैवं प्रयोगापत्तिः । पचन्तं पश्यतीत्यत्र शतृप्रत्ययार्थे कर्तरि विशेषणतयोपस्थितस्य पाकस्य पुनः द्वितीयार्थकर्मत्वे विशेषणतयान्वयासम्भवात् तथाविधवाक्यात् न पाककर्मकदर्शनबोधः, किन्तु पाककर्तृकर्मकदर्शनबोध एवेति वाच्यम् । एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयस्यैवाव्युत्पन्नत्वेन विशेष्यतयान्वये बाधकाभावात् पचन्तं पश्यतीत्यादौ प्रकृत्येकदेशार्थे पाके संख्यान्वयस्तु स्यादेव । सुबर्थसंख्यां प्रति पाकादेर्विशेष्यत्वात् कर्तृविशेषणत्वेनोपस्थितत्वेsपि पाके विशेष्यतया संख्यान्वयसम्भवात् । एवञ्च यदैक एव कर्ता पाकद्वयं करोति, अन्यः तं पश्यति तदा “पचन्तौ पश्यति, पचमानौ पश्यति” इति प्रयोगापत्तिः । प्रकृत्येकदेशार्थस्य पाकस्य कर्तृविशेषणत्वेनोपस्थितस्यापि सुबर्थसंख्यायां विशेष्यतयान्वये द्वित्वविशिष्टपाककर्तृकर्मकदर्शनबोधः स्यादेव । एवञ्च यत्र पाककर्तृनिष्ठद्वित्वं बाधितं तत्रापि पचन्तौ पश्यतीति प्रयोगापत्तिः ।

       न च धात्वर्थे सुबर्थप्रकारकशाब्दबोधं प्रति तत्तद्धातूत्तरप्रत्ययधर्मिक-किञ्चिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वमङ्गीकरणीयम् । एवञ्च पाकः इत्यत्र पचधातूत्तरघञो सार्थकत्वाभावेन तद्धर्मिककिञ्चिदर्थपरत्वज्ञानं नास्तीति प्रतिबन्धकाभावात् “पाकं करोति” इत्यादौ धात्वर्थपाके सुबर्थसंख्याकर्मत्वान्वयो भवति, “पचन्तौ पश्यति” इत्यादौ तु शतृशानचोः कर्तरि शक्तत्वात् प्रत्ययधर्मिक-कर्त्रर्थपरत्वज्ञानमेव वर्तते इति प्रतिबन्धकसत्वात् न धात्वर्थपाके संख्यान्वयः इति वाच्यम् । प्रतिबन्धकत्वकल्पनाधिक्येन गौरवात् । तदपेक्षया प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वमिति नियमे प्रकृत्येकदेशसाधारणान्वयानङ्गीकारे एव लाघवम् ।

“शोभनं पचनम्” इत्यादिप्रयोगानुरोधेनापि समुदाये शक्तिः

       एवं शोभनं पचनमित्यादावपि शोभनाभिन्नं पचनमित्यभेदान्व्यबोधोsपि ल्युडन्तसमुदायस्य पाकादौ शक्तत्वे एव सङ्गच्छते । तत्र विशेषणविभक्तिः अम्विभक्तिः, तत्सजातीयविभक्तिप्रकृत्युपस्थाप्यत्वं पाके नास्ति पाकस्य धातूपस्थाप्यत्वात्, धातोश्च सुबप्रकृतित्वात् । यदि तादृशविभक्तिप्रकृतित्वमपि प्रकृतितदेकदेशसाधारणं, विशेषणविभक्तिसजातीयविभक्तिः पचनपदोत्तरमम्- विभक्तिः, तत्प्रकृतित्वं नाम तदेकदेशोsपि, तत्तु पचधातावपि वर्तते पचेः पचनपदैकदेशत्वात् । अतः प्रकृत्येकदेशोपस्थाप्यत्वस्य पचधात्वर्थपाके सत्वात् तत्र शोभनाभेदान्वय इत्युच्यते । तर्हि यत्राधिकरणार्थे ल्युट्, तदापि प्रकृत्येकदेशार्थे पाके शोभनाभेदान्वयः स्यान्न तु पाकाधिकरणे । अतः तद्वाक्यात् शोभनाभिन्नं पाकाधिकरणमिति यो बोधस्तवेष्टः स न स्यात् । पूर्वोक्तरीत्या अत्रापि कस्यचित्प्रतिबन्धकत्वकल्पनं कल्प्यते गौरवाय । यतः धात्वर्थनिष्ठविशेष्यतानिरूपिताभेदसंसर्गावच्छिन्नपदार्थान्तरनिष्ठप्रकारताशालि-शाब्दबुद्धित्वावच्छिन्नं प्रति तत्तद्धातूत्तरप्रत्ययधर्मिककिञ्चिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वे तु ल्युटोsधिकरणत्वपरत्वे शोभनं पचनमित्यादौ धात्वर्थपाके शोभनाभेदान्वयो न भवति, ल्युटोsधिकरणत्वपरत्वज्ञानस्य प्रतिबन्धकत्वात् । भावल्युटश्च साधुत्वमात्रार्थकत्वेन तद्धर्मिककिञ्चिदर्थपरत्वज्ञानाभावेन प्रतिबन्धकाभावात् धात्वर्थपाके शोभनाभेदान्वयः इति वक्तुं शक्यते । किन्तु तथा कल्पने गौरवम् ।

       न चैवं तादृशविभक्तिप्रकृत्येकदेशोपस्थाप्यत्वस्यापि पदार्थान्तराभेदान्वय-बोधौपयिकत्वानङ्गीकारे उपकुम्भमर्धपिप्पलीत्यादौ अव्ययीभावसमासे पूर्वपदार्थस्य प्राधान्येन तत्रैव विभक्त्यर्थान्वयः, पदार्थान्तरान्वयश्च यस्तवेष्टः स न स्यात् । पूर्वपदस्य समस्तपदविभक्त्यप्रकृतित्वात् प्रकृत्येकदेशत्वाच्च तदुपस्थाप्येsर्थे समीपादौ विभक्त्यर्थकर्मत्वादीनामन्वयः, शोभनादिपदार्थान्तराभेदान्वयश्च न स्यादिति वाच्यम् । एतदनुरोधेनैव तत्रोत्तरपदे लक्षणास्वीकारात् । तत्र कुम्भपदमेव कुम्भसमीपपरं लक्षणया, पूर्वपदं तात्पर्यग्राहकम् । अतः कुम्भसमीपादिः प्रकृत्यर्थ एव भवति न तु तदेकदेश इति उपकुम्भं गच्छतीत्यादौ विभक्त्यर्थकर्मत्वादीनां प्रकृत्यर्थे एवान्वयः न तु तदेकदेशे ।  

दिधितिकारमतविरोधः – परिहारश्च

       न चैवं घञन्तसमुदायस्य पाकाद्यर्थकत्वे दिधितिग्रन्थविरोधः । तैस्तु संयोगादिपदानां संयोगत्वादिविशिष्टवाचकत्वं नास्ति, सम्पूर्वकयुजधातुनैव तत्र संयोगादिप्रतिपादनात् घञो साधुत्वमात्रार्थकत्वात् । अतः संयोगादिपदानां नैमित्तिकसंज्ञात्वं निराकृतम् । तच्च धातोरेव तच्छक्तत्वे सम्भवति न तु घञन्तसमुदायस्येति तद्ग्रन्थविरोध इति वाच्यम् । “न हि कस्यचिद्ग्रन्थकृतो विपरीतलेखनं युक्तिबलाद्वस्तुसिद्धौ बाधकम्”[7]। पचन्तं पश्यति, पचमानौ पश्यति, शोभनं पचनम् इत्यादौ दर्शितरीत्या युक्तिबलात् घञन्तसमुदायस्य पाकादौ श्क्तिसिद्धौ ग्रन्थविरोधः न बाधकः । ग्रन्थविरोधोsस्तीति युक्त्या सिद्धस्यापनयनं नोचितम् ।

उपसंहारः

       केषाञ्चिन्मतेsपि धञन्तस्यैव पाकादौ शक्तिरिति न, किन्तु घञन्तसमुदायस्यापिति । तत्र बीजन्तु “स्तोकः पाकः”, “स्तोकमोदनस्य पाकः” इत्युभयविधप्रयोगसाधुत्वनिर्वाहः । यतः धातोरिव घञन्तस्यापि पाकाद्यर्थकत्वे सिद्धे यत्र धातोरेव पाकादौ तात्पर्यं तत्र कर्मत्वातिदेशेन तद्विशेषणस्य द्वितीया, यथा – “स्तोकमोदनस्य पाकः” । यत्र तु घञन्तसमुदायस्य पाकादौ तात्पर्यं तत्र तत्समुदायसमानविभक्तिकं विशेषणवाचकपदं, यथा – “स्तोकः पाकः” । कथमेवं वैकल्पिकी व्यवस्था? किमत्र प्रमाणमिति चेदुक्तं कातन्त्रपरिशिष्टे – “कथं स्तोकः पाकः? कृदन्तविशेषणत्वात् । धात्वर्थैकाधिकरण्ये तु स्तोकमोदनस्य पाकः इति स्यदेव”[8] इति केषाञ्चिन्मतोपसंहारः ।

क्रियाविशेषणानामौत्सर्गिकमेकवचनम्

       विभक्त्यर्थसंख्यान्वयबोधं प्रति अभेदसंसर्गावच्छिन्नप्रकारताभिन्नपदार्थ-विषयताशलिशाब्दबोधसामग्री[9] कारणम् । यथा घटमानयेत्यादौ घटनिष्ठप्रकारता अभेदसंसर्गावच्छिन्ना न, घटस्य द्वितीयार्थकर्मत्वे आधेयतया निरूपितत्वेन वा प्रकारत्वात् । एवं घटः इत्यत्रापि घटस्य विशेष्यत्वात् अभेदसंसर्गावच्छिन्न-प्रकारताभिन्नविषयताशलिशाब्दसामग्री वर्तते इति तत्र घटे एकत्वादिसंख्यान्वयः भवति । राज्ञः पुरुषः इत्यादावपि राज्ञि पुरुषादिनिरूपितप्रकरतासत्वेsपि सा भेदसम्बन्धावच्छिन्नेति तत्रापि निरुक्तप्रकारताभिन्नविषयताशालिसामग्रीसत्वात् एकत्वविशिष्टराजनिरूपितस्वत्वाश्रयः पुरुषः इति एकत्वान्वयबोधः । नीलो घटः इत्यादौ नीलस्याभेदेन घटे प्रकारत्वात् अभेदसंसर्गावच्छिन्नप्रकारताभिन्नविषयता-शलिशाब्दसामग्र्यभावात् न नीलादौ संख्यान्वयः । अतः विशेषणपदोत्तरविभक्त्यर्थस्य संख्यायाः शाब्दबोधे भानं न सम्भवति । एवं क्रियाविशेषणस्थलेsपि उक्तसामग्र्यभावात् न संख्याबोधः । अतः अबाधितद्वित्व-बहुत्वप्रत्यायनासम्भवात् भावाख्यातस्थले इव क्रियाविशेषणस्तोकादि-पदोत्तरमौत्सर्गिकमेकवचनमेव, न द्विवचनादिरिति । शम् ॥                       

__________________________________               

ग्रन्थर्णम् –

१.      व्युत्पत्तिवादः – चौखाम्बाप्रकाशनम्

२.      व्युत्पत्तिवादः – राष्ट्रियसंस्कृतविद्यापीठम्


[1] व्युत्पत्तिवादः – ७

[2] व्युत्पत्तिवादः – ७

[3] व्युत्पत्तिवादः – ४४

[4] व्युत्पत्तिवादः – ४४

[5] लघुशब्देन्दुशेखरः – ६१४

[6] विद्वन्मनोरमा (व्युत्पत्तिवादव्याख्या)- ४७

[7] व्युत्पत्तिवादः – ५४

[8] व्युत्पत्तिवादः – ५४

[9] व्युत्पत्तिवादः – ५५

[/vc_column_text][/vc_column][/vc_row]