कृष्णयजुर्वेदे सोमस्वरूपम् – एकं परिशीलनम्

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

कृष्णयजुर्वेदे सोमस्वरूपम् – एकं परिशीलनम्

कूचिभट्ल.वेङ्कटहनुमच्छर्मा

सहायकाचार्यः, निरुक्तविभागः

श्रीवेङ्कटेश्वरवेदविश्वविद्यालयः 

तिरुपति- आन्ध्रप्रदेशः

 

मङ्गलाचारणम्

वागीशाद्यास्सुमनसस्सर्वार्थानामुपक्रमे।

यन्नत्वा कृतकृत्यास्युस्तं नमामि गजाननम्।

यस्य निश्वसितं वेदाः यो वेदे ऽभ्योखिलं जगत्।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥

उपोद्घातः

श्रीकृष्णयजुर्वेदे श्रीमत्तैत्तिरीयशाखायां कर्मानुष्ठाने विहितसर्वद्रव्यापेक्षया सोमद्रव्यस्य स्वरूपं प्रशस्ततया कीर्तितम्। यतः विश्वस्य स्रष्टा प्रजापतिः सर्वदेवप्रियत्वेन सोमम् उत्पादितवान् इति श्रृतिः वदति –

एतद्वै देवानां परममन्नम्। यथ्सोमः।1

तादृशस्य प्रियस्य सोमस्य पाने अधिकारः सोमयागेषु ऋत्विजां भवति। अत एव एते मनुष्याणां मध्ये महाभाग्यभाग्याः इति वक्तुं शक्यते। यतः प्रमाणत्वेन उदाह्रिय-माणसोमस्वरूप तत्प्राशस्त्यप्रतिपादकेषु मन्त्रेषु उक्तरीत्या दिव्यं सोमपानफलमनुभवन्ति। पीतः अयं सोमरसः मनुष्याणाम् आयुः, अपूर्वं बलं, पुष्टिं, मेधां, सर्वातिशायिनीम् आत्मशक्तिं च विवर्धयति। नवीनमेव किमपि जन्म समुत्पादयति इति आयुर्वेदादौ उद्घोष्यते। नास्ति देवानाम् इन्द्रस्य च सोमरसादपि प्रियतमं वस्तु त्रिलोक्यामिति श्रौतो वादः। अत एव दैवेन अमृतेनापि साकम् उपमिमते महाभारतादयः ग्रन्थाः।

सुश्रुतसंहितायामपि सोमपानफलं विशेषतया प्रदर्शितम्।          

तथा च …

ओषधीनां पतिं सोममुपयुज्य विचक्षणः।

दशवर्षसहस्राणि नवां धारयते तनुम् ॥1॥

नाग्निर्नतोयं न विषं न शस्त्रं नास्त्रमेव च।

तस्याल मायुः क्षपणे समर्थाश्च भवन्ति हि॥2॥

भद्राणां षष्टिवर्षाणां प्रसूतानामनेकधा।

कुञ्जराणां सहस्रस्य बलं समधिगच्छति॥3॥

क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि।

यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः॥4॥

साङ्गोपाङ्गांश्च निखिलवेदान् विदन्ति तत्वतः-

चरत्यमोघसंकल्पो देववच्चाखिलं जगत् ॥5॥

कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः

प्रह्लाद इति भूतानां मनांसि स महाद्युतिः॥6॥2 इति।  

ईदृशस्य महिमान्वितस्य सोमस्य स्वरूपं तैत्तिरीयशाखानुसारं सम्प्रति परिशीलयामः।

विषयप्रवेशः 

देवतानां शरीराण्येवसोमरूपम् 

देवानां सर्वेषां प्रियतमं यत् सोमरूपमन्नं तस्य सोमस्य अवयवाः देवतानां शरीराणि इति कथा ब्राह्मणे सोमस्य सृष्टिविषयकोपाख्याने दृश्यते।

तथा च श्रूयते …

उभये वा एते प्रजापतेरध्यसृज्यन्त। देवाश्चासुराश्च।

तान्न व्यजानात्। इमेऽन्य इमेऽन्य इति। स देवानग्ं शूनकरोत्।

तानभ्यषुणोत्। तान्पवित्रेणापुनात्। तान्परस्तात्प्रवित्रस्य

व्यगृह्णात्। ते ग्रहा अभवन्। तद्ग्रहाणां ग्रहत्वम्। देवता वा

एता यजमानस्य गृहे गृह्यन्ते। यद्ग्रहाः।’’ इति 3

अस्य विवरणम् –

प्रजापतेः सकाशात् अपत्यविशेषाः देवाः असुराश्‍चेति द्विविधाः अधिकत्वेन असृज्यन्त। सृष्टानां च तेषां अतिबहुलत्वेन संकीर्णत्वात्, इमे अन्ये पृथग्भूताः देवाः, इमे च अन्ये पृथग्भूताः असुराः इति प्रजापतिः तद्विभागं न ज्ञातवान्। अतः विभागज्ञानाय देवान् सर्वान् अंशून् अकरोत्। अंशुः- सोमलतायाः अवयवः। अतः देवानां शरीराणि सोमलतावयवरूपाणि कृतवान्। देवाः तानि लताशरीराणि स्वचिह्नत्वेन धृत्वा व्यावृत्तत्वेन प्रजापतिना विज्ञाताः। हवक्षशिहश्रषम तांश्च लतादेहानभिषुत्य दशापवित्राख्येन वस्त्रखण्डेन ऋजीषं यथा न संकीर्यते तथा रसं शौधयित्वा, पवित्रस्य अधो भागे विविधम् इन्द्रवाय्वादिदेवार्थं गृहीतवान्। ते  च रसाः ग्रहाः अभवन्। तस्मात् गृह्यन्ते इति व्युत्पत्या रसानां ग्रहत्वं संपन्नम्। य एते ग्रहाः एताः देवताभूत्वा, ता एव यजमानस्य गृहे हविर्धाने गृह्यन्ते इति।

अत्रेदं ज्ञायते …

प्रजापतिरेव सोमम् उत्पादितवान्। सोमः कस्यचन लताविशेषस्य रसः। तेः सोमलताविशेषाः साक्षाद्देवतास्वरूपा एव। देवतास्वरूपत्वादेव सोमस्य अमृतमयत्वम्। तादृशं सोमं प्रजापतिः उत्पाद्य अभिषवणादिव्यापारेण शोधयित्वा प्रथमं स एव इन्द्रवाय्वाद्यर्थं गृहीत्वा, अमृतमयत्वात् अत्यन्तप्रियान्नत्वेन दत्तवान्।

अत्रायं विशेष … 

देवतागण एव सोमरसत्वेन उत्पन्नः। देवता एव इन्द्राद्याः तं सोमं भक्षयन्ति। तादृशः पूज्यः सोमस्वरूपः इति। 

सोमलतायाः आकृतिः लक्षणानि च

अत्र देवस्वरूपा सोमलता कीदृग्गुणविशिष्टा वा इति बुभुत्सा पूर्यते। तत्र शुश्रुतसंहितायां चिकित्साप्रकरणे सोमलतायाः विषयसर्वस्वं लभ्यते। तस्मिन् प्रकरणे सोमलतायाः आकृतिः लक्षणानि च इत्थं दृश्यन्ते।

तथा च श्लोकाः …

श्यामलाम्ला च निष्पन्ना क्षारिणी त्वचि मांसला।

श्लेष्मला वमनी वल्ली सोमाख्या छागभोजनम् ॥12

सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता।

सोमार्हा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया॥13

सोमवल्ली कटुः श्शीता मधुरा पित्तदाहकृत्।

कृष्णा विशेषशमनी पावनी यज्ञसाधनी॥14

सर्वेषामेव सोमानां पत्राणि दश पञ्च च।

तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च॥15

एकैकं जायते पत्रं सोमस्याहरहस्तदा।

शुक्लस्य पञ्चदश्यां तु भवेत्पञ्चदशच्छदः॥16

शीर्यते पत्रमेकैकं दिवसे दिवसे पुनः।

कृष्णपक्षक्षयेचापि लता भवति केवला॥4 इति।

सोमस्य स्वीयं स्थानम्

एतादृशगुणविशिष्टा सोमलता अग्रे स्वर्गे आसीत् इति तैत्तिरीय श्रुतिः वदति।

तथाहि श्रूयते …     तृतीयस्यामितो दिवि सोम आसीत्5 इति।

अस्य विवरणम् –

दिवि सोमः  आसीत् इत्युक्ते कुत्र वर्तते इति संशयः तथैव भवति। कुतः? द्युशब्दस्य आकाशे रूढिः वर्तते। महः जनः, तपः, सत्यम्, इत्येतेऽपि लोकाः द्युशब्दाभिधेयाः। तन्निवृत्यर्थं पृथिवीतः तृतीयस्यां दिवि इति वाक्ये दर्शितम्। एवञ्च – पृथ्वीतः तृतीयस्यां दिवि = स्वर्गे लोके सोमः आसीत् इति । 

पृथिवीं प्रति सोमाहरणम्

देवतान्नविशेषः सोमः यद्यपि  स्वर्गे एव आसीत्। तथापि, इन्द्रादि देवेभ्यः अन्नत्वेन दातुं पृथिवीं प्रति सोमः आनेतव्यः। यतः ‘‘इतः प्रदानंदेवा उपजीवन्ति’’ इति श्रुत्या भूलोके यागेषु दीयमानमन्नमुपजीवन्ति देवाः। अतः तादृशं स्वर्गे भवं सोमं गायत्रीछन्दो देवः पृथिवीमानयत्।

तथाहि श्रूयते …

तं गायत्र्याहरत्6 इति ।

गायत्र्याः सोमाहरणप्रकारः तैत्तिरीयकोपाख्यानेन ज्ञायते।

तथाहि … 

कद्रूश्च  वै सुपर्णी चात्मरूपयोरस्पर्धेताग्ं 

सा कद्रूस्सुपर्णीमजयत्साब्रवीत् तृतीयस्यामितो 

दिवि सोमस्तमाहर तेनात्मानं निष्क्रीणीष्वेति7 इति।

विवरणम् –

कद्रूः सुपर्णी च उभे सपत्न्यौ । ते उभे ममैव अधिकं सौन्दर्यं ममैवेति अस्पर्धेताम् । तत्र अन्यतमस्याः पराजये सा पराभूता अन्यस्याः दासी भवेत् इति परस्परं अङ्गीकृतवत्यौ। तत्र मध्यस्थाः कद्रूदेव्याः जयमूचिरे। सा च कद्रूः सपत्नीं दासीत्वेन परिगृह्य तन्मोचनोपायं स्वयमेव इत्थम् उपदिदेश। अस्माल्लोकादारभ्य गणनायां तृतीयः स्वर्गलोकः। तस्मिन् सोमः वर्तते। सोमे आहृत्य दत्ते सति त्वां मुञ्चामि। इति।

तत्सोमाहरणं संभावयितुं श्रुतिः एवमाह …

इयं वै कद्रूरसौ सुपर्णी छन्दाग्ंसि सौपर्णेयाः8 इति।

अयं वाक्याशयः …

तत्र  उभयोः सपत्न्योः मध्ये कद्रूः भूलोकरूपा। अतः स्वयमाहर्तुं न शक्नोति। सुपर्णी तु द्युलोकरूपा। परं तस्याः उत्पतनसामर्थानां गायत्र्यादिरूपाणाम् अपत्यानां सद्भावात् आहर्तुं शक्नोति।  ततः सा सुपर्णी स्वपुत्राणां गायत्र्यादीनाम् अग्रे स्ववृत्तान्तं स्पष्टीकरोति। तथाहि –

साब्रवीदस्मै वै पितरौ पुत्रान् बिभृतः तृतीयस्यामितो

दिवि सोमस्तमाहर तेनात्मानं निष्क्रीणीष्वेति9 इति।

अस्य वाक्यस्य अयमर्थः …

पुंनामनरकोपलक्षितादशेषाद्दुःखात् त्रायन्ते इति पुत्राः। तान् पुत्रान् एतादृशोप-द्रवपरित्राणाय मातापितरौ पुष्णीतः। अतः हे गायत्र्यादिपुत्राः! कद्रूवचनमवगत्य यदुचितं तत्कुरुध्वम् इति। 

जगतीदेवस्य सोमाहरणे प्रवृत्तिः

तत्र सुपर्ण्याः पुत्राणां जगती, त्रिष्टुक्, गायत्रीति त्रयाणां मध्ये प्रौढत्वादादौ जगती देवः प्रवृत्तः सोमाहरणे ।

तथा च श्रुतिः …

जगत्युदपतच्चतुर्दशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै 

द्वे अक्षरे अमीयेताग्ं सा पशुभिश्च दीक्षया 

चागच्छत् तस्माज्जगती छन्दसां पशव्यतमा 

तस्मात् पशुमन्तं दीक्षोपनमति।10 इति।

अस्य वाक्यस्य अयमर्थः …

पुरा जगतीपादस्य चतुर्दशाक्षराणि आसन्। तादृशी जगती सोमम् आहर्तुं द्युलोकमगमत्। तत्र सोमस्य रक्षकाः स्वानभ्राजादयः आसन्। जगती, तैः सह युद्धं कृत्वा सोममप्राप्य, अग्नीषोमीयसवनीयानुबन्ध्याख्यपशून्, इष्टिसाध्यां दीक्षां च गृहीत्वा, स्वकीये च अक्षरद्वये स्वानादिभिः सोमरक्षकैः गृहीते सति, पराजित्य समागता। यस्मात् जगती पशूनानयत्। तस्मात् सैव अत्यन्तं पशुप्रदा इति।

तिष्टुक्छन्दोदेवस्य सोमाहरणे प्रवृत्तिः

सोमाहरणे जगतः पराजयानन्तरं त्रिष्टक्छन्दोदेवः सोमममाहर्तुं स्वर्गं गतः। तथाहि श्रूयते …

त्रिष्टुगुदपतत्रयोदशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे

अक्षरे अमीयेताग्ं सा दक्षिणाभिश्च तपसा चागच्छत्11।इति।

अस्य वाक्यस्य अयमर्थः …

तत्र सोमाहरणे जगतः पराजयानन्तरं तिष्टुक्छन्दोदेवः दिवं गत्वा तत्र सोमरक्षकैः सह युध्वा सोममप्राप्य, तैः सोमरक्षकैः स्वकीये अक्षरद्वये  गृहीते सति, दक्षिणाभिः, तपसा च आगच्छत्।

गायत्र्याः सोमाहरणे जयः

तथा च श्रूयते …

गायत्र्युदपतच्चतुरक्षरा सत्यजयज्ज्योतिषा तमस्या 

अजाभ्यरुन्ध तदजाया अजत्वग्ं सा सोमं 

चाहरच्चत्वारि चाक्षराणि साष्टाक्षरा समपद्यत12 इति। 

अस्य वाक्यस्य अयमर्थः …

स्वर्गं गत्वा सोमाहरणे पराजित्य त्रिष्टुक्छन्दोदेवस्य प्रत्यागमनानन्तरं गायत्री, पूर्वयोःत्रिष्टुग्जगत्योः सहायरहितयोः पराजयं दृष्ट्वा, स्वयं अजया सह उदपतत्। तत्र सर्गे सा अजा गायत्र्यर्थं स्वकीयेन तेजसा तं सोमं अभितः रुरोध। तथा सा गायत्री स्वानभ्राजादिभिः सोमरक्षकैः सह युद्धं कृत्वा जयं प्राप्य सोमं च स्वीकृत्य चतुरक्षराऽगता सती, स्वानभ्राजादिभिः गृहीतानि त्रिष्टुग्जगतीसम्बन्धीनि चतुरक्षराणि च गृहीत्वा, अष्टाक्षरा सती सोममप्याहरत् इति।

गायत्र्याः सोमाहरणप्रकारे विशेषः

श्रुतिः…

पद्भ्यां द्वे सवने समगृह्णान्मुखेनैकं यन्मुखेन समगृह्णात् 

तदधयत्तस्माद्वे सवने श्रुक्रवती प्रातस्सवनं च 

माध्यन्दिनञ्च तस्मात्तृतीयसवन ऋजीषमभिषुण्वन्ति 

धीतमिव हि मन्यन्ते।13 इति।

अस्य  वाक्यस्य अयमर्थः

पक्षिरूपा गायत्री सवनद्वयपर्याप्तौ  सोमभागौ पद्भ्यां संगृह्य तृतीयसवनपर्याप्तं सोमभागं चञ्चुपुटाभ्यां सन्दश्य तदीयं रसं पपौ। यस्मात् पद्भ्यां धृतौ सोमभागौ न पीतौ तस्मात् प्रातस्सवनमाध्यन्दिनसवने शुक्रशब्दाभिधेयेन सोमरसेन उपेते। यस्मात् तृतीयो भागः पीतः तस्मात् पीतत्वं मन्यमानाः तत्सादृश्यार्थं तृतीयसवने ऋजीषं ऋत्वि जः यागे अभिषुणुयुः। इति।

विशेषांशाः …

देवतास्वरूपः सोमः स्वर्गे स्वानभ्राजादिभिः रक्षितः वर्तते। द्यावापृथिवीरूपे कद्रूसुपर्णीनामके देवते यज्ञार्थं तं सोमं पृथिवीं  प्रति आनेतुं संङ्कल्पितवत्यौ। तयोः पृथिवी अचला। अतः सोमाहरणे अशक्ता। द्युरूपसुपर्ण्याः देव्याः उत्पतनसमर्थाः पुत्राः गायत्र्यादयः आसन्। अतः पुत्रद्वारा यज्ञार्थं द्युरूपा सुपर्णी सोममाहृत्य पृथिवीरूपायां स्थापितवती। अतः इदानीं पृथिव्यां सोमः यज्ञार्थं प्रतिष्ठितः वर्तते। तत्रापि पृथिव्यां नेयं सोमलता सर्वत्र सुलभा। क्वचिदेव पवित्रतमे पर्वतादौ लभ्यते। तथाहि… 

हिमवत्पर्वते महेन्द्रे सह्यपर्वते  श्रीपर्वते 

देवगिरौ विन्ध्ये पारियात्रे 

सिन्धुनदस्य कूलेषु वितस्तायाः नद्याः उत्तरभागे स्थितेषु महापर्वतेषु, 

अन्येषु च एवं विधेषु पुण्यस्थलेषु अस्याः सोमलतायाः उत्पत्तिः श्रूयते। विशेषतः मूजवदाख्ये गिरौ च। तैत्तिरीय श्रुतिरपि एवं वदति …

ग्रावाणो वा अद्रयः तेषु वा एष सोमं दधाति14 इति।

सुश्रुत संहितायामपि…

हिमवत्यर्बुदे सह्ये महेन्द्रे मलये तथा।

श्रीपर्वते देवगिरौ गिरौ देवसहे तथा॥15

परियात्रे च विन्ध्ये च देवसुन्दे ह्रदे तथा ।

उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः॥ 2

पञ्च तेषामधो मध्ये सिन्धुनामा महानदः।

हयवत् प्लवते तत्र चन्द्रमास्सोमसत्तमः॥ 3

तस्योद्देशेषु चाप्यस्ति मुञ्जवानंशुमानपि।

काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् ॥ 4

गायत्रस्त्रैष्टुभः पाङ्क्तो जागतश्शाक्वरस्तथा।

अत्र सन्त्यपरे चापि सोमस्सोमसमप्रभाः॥5।।16  इति।

वैद्यग्रन्धे  सुश्रुतसंहितायां चिकित्साप्रकरणे पृथिव्यां सोमलतायाः उपलब्धि-स्थानानि इत्थं प्रदर्शितप्रकारेण निरूपितानि। परमिदानीमस्माकं प्रज्ञातप्रदेशेषु न इयं लता सर्वथा लभ्यते। इदानीन्तनाः प्रायेण न जानन्यपि तस्याः सोमलतायाः स्वरूपम्। अत एव सोमस्य स्वरूपं यथावस्तु सम्यक् निरूपणार्थं, प्रजापत्युत्पादितप्रकारः, तथा देवतास्वरूपत्वं, लतारूपेण स्वर्गे स्वानभ्राजादिरक्षकमध्ये प्रतिष्ठानं, तस्याः लतायाः साकल्येन आकृतिवर्णनं, तथा तत्पृथिव्याम् आनयनप्रकारश्च सप्रमाणं निरूपितः।

सर्वौषधिराजः सोमः

पूर्वोक्तप्रकारेण महता प्रयासेन इन्द्रादिदेवेभ्यः अन्नरूपेण दातुं पृथिव्यां स्थापितः विविधप्रशस्तगुणविशिष्टः सोमः सर्वासाम् ओषधीनां राजा इति श्रुतिर्वदति।

तथा च श्रूयते …

सोम ओषधीनामधिपतिस्स मावतु17 इति

ब्राह्मणानां राजा सोमः

पूर्वं सोमः सर्वेषामन्नरूपाणामोषधीनां राजा इति उक्तम्। इदानीं सर्वश्रेष्ठानां भूसुराणां – ब्राह्मणानामपि राजा सोमः इति तैत्तिरीयकश्रुतिकथनं प्रदर्श्यते।

तथा च श्रूयते…

एष वो भरता राजा सोमोऽस्माकं ब्राह्मणानाग्ं राजा18 । इति।

अस्य मन्त्रस्य अयमर्थः …

हे भरताः! = राजन्यवैश्यादयः धनिकाः! एषः यजमानः युष्माकं राजा। एनं स्वामिनं यथोक्तं सेवध्वम्। राजन्यवैश्यादीनामिव ब्राह्मणानामपि अयमेव राजा इति प्राप्तिं वारयित्वा अस्माकं  ब्राह्मणानान्तु अयं सोमः उत्तमः देवः राजा। नत्वधमः क्षत्रिय इति अस्य मन्त्रस्य आशयं ब्राह्मणं स्पष्टीकरोति ।

तथा च …

एष वो भरता राजा सोमोऽस्माकं ब्राह्मणानाग्ं राजेत्याह। 

तस्मात्सोमराजानो ब्राह्मणाः19 इति।

विवरणम् …

अत्र राजसूयप्रकरणे ब्रह्मा, मन्त्रेण, यस्मात् स्वकीयं राजानं विभज्य निर्दिष्टवान्, तस्मात् लोकेऽपि अग्निष्टोमादियागेषु सोममेव राजशब्दोपहितैः ‘‘सोम राजन्नेह्यवरोह’’ इत्यादिभिः मन्त्रैः ऋत्विजः उपचरन्ति।

एवञ्च … अयं सोमः पृथिव्यां सर्वासामोषधीनामधिपतिः, ब्राह्मणानां अयमेव सोमः राजा इत्युक्तम्। युक्तमेवैतत्। यतः अयं सोमः जात्या क्षत्रियः।

तथा च वाजसनेयिनः आमनन्ति …

यान्येतानि देवत्राक्षत्राणि इन्द्रो वरुणः

सोमो रुद्राः पर्जन्यो यमो मृत्युरीशानः।20 इति।

अतः इन्द्रादिवत् देवक्षत्रियत्वात्  देवतान्नस्वरूपत्वाच्च सर्वविधौषधिराजा, भूसुराणामुत्तमानां ब्राह्मणानां च राजा इति, तस्य सोमस्य पृथिव्यां प्रशस्ततमं स्थानं कल्पितम् इति।

सोमः आसुर शत्रुबाधा निवारकः

सोमः यतः राजा, जात्या क्षत्रियश्च अतः राक्षसबाधात् शत्रुबाधाच्च अस्मान् त्रायते इति तैत्तिरीयकमन्त्रेण ज्ञायते। तथा च मन्त्रः …

त्वग्ं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्य

उरु यन्तासि वरूथग्ग्ं स्वाहा21 इति।

अस्य मन्त्रस्य भाष्यम् …

‘ ‘तनूं कृन्तन्ति = छिन्दन्ति इति तनूकृन्ति – रक्षांसि। द्विषन्तीति द्वेषांसि। अन्यैः अस्मद्विरोधिभिः अभिचरद्भिः कृतानि = प्रेरितानि अन्यकृतानि। हे सोम! त्वं तादृशेभ्यः नियन्ता = असि यथा तादृशानि न अस्मान् बाधन्ते तथा अस्मान् अन्यत्र सुरक्षितप्रदेशे स्थापयित्वा पालयसि। तस्मात् त्वमेव अस्माकम् उरु= प्रभूतं वरुथं = बलमसि। तस्मै तुभ्यम् इदं हुतमस्तु’’ इति। ब्राह्मणमपि अमुमेव अभिप्रायं विशदयति – 

तथा च…

त्वग्ं सोम तनूकृद्भ्य इत्याह तनूकृध्येष द्वेषोभ्योऽन्य 

कृतेभ्य इत्याहान्यकृतानि हि रक्षाग्ंसि। 

उरु यन्तासि वरूथमित्याहोरुणस्कृधीति वावैतदाह22 इति।

अर्थविवरणम् . . .

एषः सोमः तनूच्छिदां रक्षसामपि तनूं छिनत्ति। अतः  अत्यन्तं तनूकृत्। तस्मात् रक्षोभ्यः अस्मान् पालयितुं समर्थः। अयं सोमः ओषधिसामान्यवत् न केवलं शरीरव्याधिबाधानिवारकः किन्तु, शत्रुसंहारकः। अपिच अभि चारादिपरकृत्यबाधाः अपि निवारयति। इति। 

सोमस्य लोकोपकारकत्वम् 

अयं सोमो राजा सर्वविधैकाहाग्निष्टोमादियागेषु, द्विरात्रप्रभृतिद्वादशरात्र-पर्यन्तमनुष्ठीयमानेषु अहीनाख्यसोमयागेषु, तथा द्वादशरात्रमारभ्य शतरात्रिपर्यन्त-मनुष्ठीयमानेषु रात्रिसत्राख्ययागेषु, शतरात्रप्रभृति सहस्रसंवत्सरपर्यन्तम् अनुष्ठीयमानेषु सोमयागेषु, अयनसत्रेष्वपि अमृतवत् देवानामत्यन्तप्रियत्वेन मुख्यद्रव्यस्वरूपः। तथा यागेषु मुख्यसाधनभूतश्च अयं सोमः। द्रव्यदेवते हि यागस्वरूपम्। मुख्यद्रव्यत्वेन यज्ञनिष्पादकत्वात् अयं सोमः यज्ञस्वरूपः भवति इति न अतिशयोक्तिः। अतः सोमः यज्ञद्वारा द्यावापृथिवीलोकद्वयस्य उपकारं करोति।

तथाहि श्रूयते …

अस्तभ्नाद्यामृषभो अन्तरिक्षममिमीत 

वरिमाणं पृथिव्या आसीदद्विश्‍वा भुवनानि 

सम्राड्विश्‍वेत्तानि वरुणस्य व्रतानि23 इति।

अस्य मन्त्रस्य अयमर्थः …

ऋषभः = श्रेष्ठोऽयं सोमः, यथा द्युलोकः न पतति तथा अस्तभ्नात्। अन्तरिक्षम् एतावत् इति अमिमीत। पृथिव्याः वरिमाणं = गुरुत्वं च अमिमीत। सः सोमः स्वमहिम्ना सम्यक् राजमानः विश्‍वानि भुवनानि आसीदत् = व्याप्तवान्। विश्‍वेत्तानि =सर्वाण्येव उक्तानि कर्माणि, सर्वावरकत्वेन वरुणनाम्नः सोमस्य व्रतानि = व्रतवत् नियतानि। इति।

एवञ्च ज्ञायते …

अस्मिन् मन्त्रे सोमकर्तृकाणि अनेककार्याणि प्रतिपादितानि। तथा तानि लोकोपकारकाणि सन्ति। ‘‘विश्‍वेत्तानि वरुणस्य व्रतानि’’ इति मन्त्रस्य अन्तिम वाक्येन सर्वकर्माङ्गत्वं, तत्तत्कर्मनिष्पादकत्वं च द्योत्यते। अतः श्रेष्ठोऽयं सोमः इति मन्त्रे एव उक्तं युक्तम् इति।

सोमदेवस्य सोमभक्षणम्

सोमयागे सर्वेभ्यः देवेभ्यः पूर्वं सोमदेवस्यैव सोमपानं भवति। 

तद्यथा … सोमयागे, यः सोमः उपांशुग्रहाय पर्याप्तः उपरे न्युप्तः “श्वात्रास्थ”’ इति मन्त्रेण वसतीवरीसंज्ञकाभिः अद्भिः उपसृष्टः, तस्मात् सोमात् अपादाय षडंशवः स्थापिताः भवन्ति। अयं विषयः सूत्रकारेण स्पष्टीकृतः।

तथा च ..

उपसृष्टस्य राज्ञः षडंशून् आर्द्रान्

असंश्लिष्टानादाय चर्मणि निधाय24 । इति।

त्रिष्वपि सवनेषु, महाभिषवे तेषां षण्णाम् अंशूनां मध्ये द्वौ द्वौ  अंशू संसृजेत्। सोमे सोमसंसर्गऱूपमिदमेव सोमदेवस्य सोमभक्षणम्। तत्सम्बद्धमन्त्रेऽपि अयं विषयः विस्पष्टमवगम्यते। 

तथा च  मन्त्रः श्रूयते …

यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा25 इति।

मन्त्रस्य अर्थः …

हे सोम!सोमनामधारिणे तुभ्यम् इदं सोमांशुद्वयं स्वाहा = हुतमस्तु इति। अस्य मन्त्रस्य ब्राह्मणं मन्त्राभिप्रायं स्पष्टीकरोति।

तथा च श्रूयते …

यत्ते सोमादाभ्यं नाम जागृवीत्याह

एष वै सोमस्य सोमपीथः26 इति।

विवरणम् …

षट् सोमांशून् प्रज्ञातान् निधाय सवनत्रये महाभिषवे प्रत्येकम् अंशुद्वयप्रक्षेपः यः क्रियते स एव सोमस्य देवस्य सोमपीथः- सोमपानं भवति। सामान्यतः कांचिद्देवता-मुद्दिश्य यत्किंचित् द्रव्यं त्यागाय भवति। अत्र तु य एव सोमः देवता, ततः एव किंचित्संगृह्य स एव सोमः तस्यै देवतायै द्रव्यम् इति विशेषः।

यागीयं सोमस्वरूपम्

सोमयागे कीदृशं सोमं देवताः अन्नरूपेण स्वीकुर्वन्ति? इति निरूपणं क्रियते।

तथाहि ..  सर्वेषामपि देवानां सोमः अत्यन्तप्रियतमाहारः इति श्रुतिवाक्यैः प्रतिपादितम्। लतारूपेण विद्यमानः सोमः तेषां देवानाम् आहारः न भवति। किन्तु समन्त्रकक्रियाकलापसंस्कारैः अभिषुतः सोमरसः तेषां देवानां प्रियः। अत एव अग्रे प्रजापतिः अभिषवणादि संस्कारान् कृत्वा रसं निष्पाद्य इन्द्रादिभ्यो दत्तवान्।

तथा च …

स देवानग्ंशूनकरोत्। तानभ्यषुणोत् तान्पवित्रेणापुनात्। 

तान् परस्तात्पवित्रस्य व्यगृह्णात्। ते ग्रहा अभवन्27। इति

अतः तथाविधमहाभिषवप्रकारेण यागीयसोमद्रव्यनिष्पत्तिः  भवति।

महाभिषवः     

    तत्र अभिषवस्थाने अध्वर्युगणगताः सर्वे उपविशेयुः।

पुरस्तात् अध्वर्युः उपविशेत् प्रत्यङ्मुखः। दक्षिणतः प्रतिप्रस्थाता उदङ्मुखः उपविशेत्। पश्‍चात् नेष्टा प्राङ्मुखः उपविशेत्। उत्तरतः उन्नेता दक्षिणमुखः उपविशेत्। एवम् अभिषवार्थं ग्राव्णः समन्तात् उपविश्य, तदुपरि सोमं निक्षिप्य, वसतीवरीजलमासिच्य पिष्ट्वा, दक्षिण हस्तेन अभिषुणुयुः। एवं वारत्रयं कृत्वा, पिष्टान् सोमांशून् आधवनीये मृत्पात्रे निक्षिप्य प्रपीड्य रसं निष्कास्य तं पात्रान्तरे कृत्वा, ऋजीषाख्यः गृहीतसारः नीरसलतांशः  ग्राव्णां पुरतः प्रक्षिप्यते. ततः सोमक्रयकाले सुरक्ष्य स्थापितैः अजलोमभिः प्रादेशमात्रीं गोवत्सनाभिवत् नाभिं कृत्वा पवित्राख्यस्य सोमशोधकस्य वस्त्रखंडस्य मध्ये तां अवलम्ब्य, तत् वासःखण्डं सनाभिं द्रोणकलशाख्यस्य पात्रस्य उपरि वितत्य उद्गातारः धारयेयुः। तदा उन्नेता, आधवनीयात् उदयनेन सोमरसं गृहीत्वा होतृचमसे निनयेत् यथा द्रोणकलशोपरि वितते पावित्राख्ये वस्त्रखण्डे रसः पतेत्। ततः स्रवन्त्या धारया अध्वर्युः अन्तर्यामपात्रे, अन्तर्यामसंज्ञकं  ग्रहं गृहीत्वा सशेषं हुत्वा सशेषमेव आग्रयणस्थाल्यां संपातमवनीय, सशेषं ग्रहं खरे सादयेत्। इन्द्रः अत्र देवता। दधिग्रहाद्यन्तर्यामान्तानां ग्रहाणां ग्रहणानन्तरमेव होमः। न ऐन्द्रवायवादिवत् गृहीत्वा खरे सादनम्।

ऐन्द्रवायवादिग्रहाः

ततःपरम् उक्तप्रकारेणैव ऐन्द्रवायवग्रहं धारातः गृहीत्वा पवित्राख्यवस्त्रदशया ग्रहस्य बहिर्भागं प्रमृज्य खरे सादयेत् । एवं  मैत्रावरुणग्रहं, शुक्रग्रहं, मन्थिग्रहम्, आग्रयणग्रहम्, आग्नेयम्, ऐन्द्रं, सौर्यम्, इति त्रीन् अतिग्राह्यग्रहान्, उक्थ्यं, ध्रुवं च, इति यथा क्रमं गृहीत्वा खरे सादयेत्। ध्रुवग्रहस्य तृतीयसवने एव विनियोगः न पूर्वयोः प्रातस्सवनमाध्यन्दिनसवनयोः। ध्रुवग्रहग्रहणानन्तरं धारां विरमेत्। खण्डिताः सोमलतावयवाः अंशवः इत्युच्यन्ते। तानेव अध्वर्युगणगताः ऋत्विजः अभिषुणुयुः। 

एवमुक्तप्रकारेण निष्पादितं सोमरसस्वरूपं देवप्रियमन्नं भवति।

सोमस्य प्रशस्ताः गुणाः

अस्य अभिषुतस्य सोमरसस्य प्रशस्तागुणाः तदुपस्थान मन्त्रे इत्थं वर्ण्यन्ते –

तथा च मन्त्रः 

सोमो राजामृतग्ं सुतः। ऋजीषेणाजहान्मृत्युम्। 

ऋतेन सत्यमिन्द्रियम्। विपानग्ं शुक्रमन्धसः। 

इन्द्रस्येन्द्रियम्। इदं पयोऽमृतं मधु28 इति।

अस्य मन्त्रस्य इदं भाष्यम् …

अयमभिषुतः सोमो राजा स्वयममृतं =  पीयूषसमानः। यथा पीयूषं पिबतः अपमृत्युः नास्ति एवं सोमपानकर्तुः अपि न अपमृत्युः इत्यर्थः।

तत्र अयं हेतुः … ऋजीषेण कीदृक्स्थानीयेन नीरसेन मृत्युमजहात्। ऋजीषम् अपमृत्युप्रापकम्। रसनिस्सरणेन तस्य परित्यागात् अपमृत्युहेतुः परित्यक्तः। अतः अयं सोमः ऋतेन = यज्ञनिष्पादनेन इन्द्रियम् = इन्द्रियवृद्धिहेतुः। तदेतत् सत्यं = शपथं करोमि इत्यर्थः। अन्धसः = अन्नरसादपि विपानम् = विशेषेण पानयोग्यम्। सोमरसरूपम् अमृतम् अतः शुक्रं = शुद्धम् । योऽयमिन्द्रः तस्यापि इन्द्रियवृद्धिकारणम् इदं सोमरसरूपम्। किञ्च इदं द्रव्यं मधु पयः – मधुरं क्षीररूपम् अत एव अमृतरूपम्29 इति।

अत एव इन्द्रस्य अभिषुतसोमरसः एव प्रियः न अनभिषुत इति दृष्टान्तपुरस्सरं मन्त्रः वदति।

तथा च श्रूयते …

सोमेन सोमौ व्यपिबत्। सुतासुतौ प्रजापतिः। 

ऋतेन सत्यमिन्द्रियम्। दृष्ट्वा रूपे व्याकरोत्। सत्यानृते 

प्रजापतिः। अश्रद्धामनृते दधात्। श्रद्धाग्ं सत्ये 

प्रजापतिः। ऋतेन सत्यमिन्द्रियम्30 इति।

अस्य मन्त्रस्य इदं भाष्यम् …

‘‘प्रजापतिः एकरूपेण सोमद्रव्येण युक्तः, अयं रसात्मकः सोमः अभिषुतः, वल्लभात्मकः अयं सोमः न अभिषुतः इति विभज्य तत्र रसात्मकमेव अपिबत्। अत्र प्रजापतिशब्देन प्रजापालकत्वात् इन्द्रः विवक्षितः। तत्र सोमस्य विभागे दृष्टान्तः उच्यन्ते – यथा प्रजापतिः सत्यवदनम्, अनृतवदनं च, इत्येवं वचनस्य द्वे रूपे विशेषेण दृष्टवान्। ततः अनृते, प्रजानाम् अश्रद्धाम् = अविश्‍वासं स्थापितवान्। सत्यवचने तु सः प्रजापतिः विश्‍वासं स्थापितवान्। एवम् अयम् इन्द्रः अपि अभिषुतमेव सोमं पिबति।31 इति।

अभिषुते सोमरसेऽपि जलभागात् विभक्तः सोमस्वरूपः एव इन्द्रस्य प्रियः। अतः विभज्य रसं पिबति इति दृष्टान्तपुरस्सरं मन्त्र एव वदति। तथाहि  …

सोममद्भ्यो व्यपिबत्। छन्दसा हग्ंसश्शुचिषत्। 

ऋतेन सत्यमिन्द्रियम् । अद्भ्यः क्षीरं व्यपिबत्। 

क्रुङ्ङाङ्गिरसो धिया। ऋतेन सत्यमिन्द्रियम्। 

अन्नात् परिस्रुतो रसम्। ब्रह्मणा व्यपिबत् क्षत्रम्। 

ऋतेन सत्यमिन्द्रियम्।32 इति।

अस्य मन्त्रस्य अयमर्थः …

शुचौ =  शुद्धप्रदेशे सीदति इति शुचिषत् हंसः। सर्वप्राणिहृदि स्थितः जीवात्मा। तद्रूपधारी इन्द्रः छन्दसा = स्वेच्छाया तमिमं सोमं अद्भ्यः सकाशात् विभज्य अपिबत्। ऋतेन = यज्ञद्वारेण इन्द्रियवृद्धिहेतुः सोमः। तदेतत् सत्यम् ।

तत्र दृष्टान्तः …

यथा लोके क्रुङ्  = क्रौञ्चपक्षी आङ्गिरसः- = सर्वाङ्गसंबन्धिसार-युक्तः- पुष्टशरीरः इत्यर्थः। तादृशः धिया = स्वबुध्या क्षीरम् अद्भ्यः विभज्य अपिबत्। तद्वत् अयम् इन्द्रोऽपि सोमरसं जलभागात्  विविच्य पिबति। अतः यज्ञद्वारेण इन्द्रिय- -वृद्धिहेतुः सोमः तदेतत् सत्यम् ।

तत्रैव अन्यः दृष्टान्तः उक्तः …

यथा क्षत्रम् = क्षत्रियजातिः, ब्रह्मणा = प्रौढेन क्षीरादिना योगात्, (परितः स्रवति इति परिस्रुत् अन्नम्) तस्मात् अन्नात् संपन्नं रसं पिबति। राजादयो हि भोजनकाले, प्रभूते क्षीरे वा ब्रीह्याद्यन्नं प्रक्षिप्य तदन्नं रसोपेतं क्षीरादिकं पिबति। एवं अयम् इन्द्रोऽपि सारभूतं रसं पिबति। अतः ऋतेन = यज्ञद्वारेण इन्द्रियवृद्धिहेतुः सोमः तदेतत्सत्यम् इति ।

उपसंहारः

एवञ्च महाप्रभावः सोमः साक्षात् अमृतम् । अत एव अपमृत्युनिवारकः। इन्द्रस्यापि इन्द्रियवृद्धिहेतुः, इत्यादि बहुधा सोमस्वरूपः प्रदर्शितः। तादृशं सोमं देवाः सर्वे प्रीत्या पिबन्ति। तत्रापि देवेन्द्रः सोमरसे जलं विभज्य अत्यन्तस्वादुरसं भूयस्या प्रीत्या पिबति इति प्रतिपादितम्। तादृशं सोमं सोमयागे ऋत्विजः अपि पिबन्ति। सोमयागकर्तारः यजमानाश्च पिबन्ति। 

एवं प्रकारेण तैत्तिरीयशाखायां यागीयसोमरसस्यस्वरूपं यथामतिपरिशील्य श्रीभूसमेतश्रीनिवासस्य प्रीतये समर्प्यते।

*****

अन्त्यटिप्पणी

  1. तै.ब्रा.का. 1 – प्र. 3 अ. 3
  2. शुश्रुत संहिता। चि. प्र. अध्यायः- 291
  3. तै.ब्रा.का. 1 – प्र. 4 – अ. 1
  4. सुश्रुतसंहिता. चिकित्सा. अ. 29
  5. तै.ब्रा.का. 3 – प्र. 2 अ. 1
  6. तै.ब्रा.कां. 3 प्र. 2 – अ. 1
  7. तै.सं.का. 6. प्र. 1 अ. 6
  8. तै.सं.का. 6. प्र. 1 अ. 6
  9. तै.सं.का. 6 – प्र.  1- अ. 6
  10. तै.सं.का. 6 – प्र. 1 – अ. 6
  11. तै.सं. का. 6 – प्र. 1 अ. 6
  12. तै.सं.का. 6 – प्र. 1 – अ. 6
  13. तै.सं.कां. 6 – प्र. 1 – अ. 6
  14. तै.सं.कां. 6 – प्र. 3 अ. 2
  15. सुश्रुत सं. चि. प्र. 
  16. सुश्रुत. सं. चिकित्साप्रकरणम्
  17. तै.सं.कां. 3 – प्र. 4 – अ. 5
  18. तै. सं. का. 1 – 8
  19. तै.ब्रा.कां. 1 – प्र. 7 – अ. 4
  20. बृ.आ.अ.1
  21. तै.सं.का. 1 – प्र. 3 – अ. 8
  22. तै.सं.कां. 1 – प्र.3. अ. 4
  23. तै.सं.कां. 1. – प्र. 2 – अं. 8
  24. आ.श्रौ.सू.सो.प्र.
  25. तै.स.का. 1 – प्र. 4 . अ. 1
  26. तै.सं.का.6 प्र. 4.
  27. तै.ब्रा.का. 1 – प्र. 4. अ. 1
  28. तै.ब्रा.का. 2 – प्र. 6 – अ. 2
  29. वि.भा.तै.ब्रा.का. 2 – प्र. 6-अ.2.
  30. तै.ब्रा.का. 2 – प्र. 6 – अ. 2
  31. वि.भा.तै. ब्रां. कां. 2 -प्र. 6
  32. तै.ब्रा.कां. 2. प्र. 6 अ. 2

 

सहायकग्रन्थसूची

 

  • आर्षविज्ञानसर्वस्वम् – डा एस्.बि.रघुनाथाचार्यः, तिरुमलतिरुपतिदेवस्थानानि, 1982
  • गूडार्थदीपिका – आर्.वेङ्कटेश्वरराव्, पञ्चाक्षरीपरिषत्, गुन्टूरु, 1985
  • तैत्तिरीयसंहिता – आनन्दाश्रमकार्यकारिविश्वस्ताः, वारणासि, 1980
  • तैत्तिरीयब्राह्मणम् – आनन्दाश्रमकार्यकारिविश्वस्ताः, वारणासि, 2008
  • तैत्तिरीयारण्यकम् – आनन्दाश्रमकार्यकारिविश्वस्ताः, वारणासि, 2008
  • दशोपनिषदः सभाष्यम् – अडयार् लैब्ररी, रिसेर्च् सेन्टर्, अडयान्, मद्रास्, 1984
  • निरुक्तम् – आनन्दाश्रमसंस्कृतग्रन्थावळिः, वारणासि, 1990
  • भगवद्गीता – परिमळा पब्लिकेषन्स्, शक्तिनगर्, डिल्ली, 2000

 

[/vc_column_text][/vc_column][/vc_row]