उपनिषदि काव्यसौन्दर्यम्

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

उपनिषदि काव्यसौन्दर्यम्

 

  • डा. नागरत्ना हेगडे,  
    प्राध्यापिका, संस्कृतविभाग:,
    सुराना पदवी महाविद्यालय:, बसवनगुडि, बेङ्गलूरु – ५६० ००४,
    दूरवाणी – ९४८०० ८०८८२,
    E Mail : ngrt.hegde@gmail.com  

 

उपनिषद: वेदवाङ्मयस्य सारभूता: भागा: । एता: वेदानाम् अन्तिमभागा: । तस्मात् ‘वेदान्त:’ इत्यपि नामान्तरं विद्यते । भारतीयतत्त्वज्ञानस्य धर्मसिद्धान्तस्य च मूलम् एता: उपनिषद: । प्रस्थानत्रये उपनिषद:‘श्रुतिप्रस्थानम्’ इति प्रसिद्धा: सन्ति । अस्माकं देशे उद्भूतानां सर्वेषां दर्शनानाम् अपि एता: उपनिषद: प्रत्यक्षतया परोक्षतया च आधारभूता: वर्तन्ते । एता: उपनिषद: भारतीयसंस्कृतिप्रतिपादका: आधारस्तम्भकल्पा: च विद्यन्ते ।

काव्यदृष्ट्या यदि उपनिषद: परिशील्यन्ते तर्हि उत्तमान् काव्यांशान् तत्र द्रष्टुं शक्नुम: ।  कुत्रचित् शब्दालङ्कारै: अर्थालङ्कारैश्च युक्ता: एता: उपनिषद: पद्यकाव्यानि इव भान्ति । कुत्रचित् कथायुक्ता: एता: गद्यकाव्यानि इव भासन्ते । उपमा-रूपकादीन् अलङ्कारान् उपयुज्य सुन्दरं स्पष्टं च निरूपिता: तत्त्वविचारा: चेतोहारिण: एव । छान्दोग्य-बृहदारण्यकयो: निरूपितानि सम्भाषणानि, रोचकानि आख्यानानि च विश्वसाहित्ये एव अत्युत्कृष्टा: भागा: । किन्तु सर्वस्यापि लक्ष्यम् एकमेव यत् – ‘आत्मदर्शनम्’ । ॠषय: स्वतपसा ब्रह्मज्ञानं सम्पाद्य विविधै: प्रकारै: परमात्मानम् अवर्णयन् । केवलै: नीतिवाक्यै: जनमनसां रञ्जनं न स्यात् । अत एव रमणीयाभि: कथाभि: परमात्मन: वर्णनम् अकुर्वन् ते। एवं समाजाय नीतिमार्गं मुक्तिमार्गं च उपदिशन्ति उपनिषद: ।   

वेद-वेदाङ्गानाम् उपनिषदां च अध्ययनं किंनिमित्तम् ? इति पृष्टे सति ‘परमपुरुषार्थमोक्षसाधनाय’ इति उत्तरं प्राप्यते ।

चतुर्वर्गफलप्राप्ति: सुखादल्पधियामपि ।

काव्यादेव यतस्तेन तत्स्वरूपं निगद्यते ॥  इति मोक्षप्राप्तौ कान्तासम्मितादीनि काव्यानि अपि कारणीभूतानि भवन्ति ।

उपनिषत्सु उपमा-रूपकादयश्च अर्थालङ्कारा:, यमकादिशब्दालङ्काराश्च ये निरूपिता:, तेषां सुष्ठु अवगमनाय साहित्यशास्त्रस्य अध्ययनम् आवश्यकम् । यत: सहृदयत्वानुभूति: एव साहित्यशास्त्रम् । ब्रह्मज्ञानम् अपि अनुभववेद्यम् एव ।

काव्यगुणज्ञानवद्भि: यदि परिशील्यते तर्हि जगति आदिमं काव्यम् एव वेदवाङ्मयम् इति ज्ञायते । संस्कृतवाङ्मये काव्यशास्त्रम् अपि अन्यतमम् । काव्यशास्त्रे वस्तुरूपेण कथा: आख्यायिकाश्च भवन्ति । उपनिषत्सु एतादृशा: कथा: आख्यायिकाश्च प्रभूतम् उपलभ्यन्ते। काव्यसौन्दर्यदृष्ट्या उपनिषद: परिशील्यन्ते चेत् अनेकानि उदाहरणानि द्रष्टुं शक्नुम: ।

यथा –  ईशावास्योपनिषदि –

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समा: ।

एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥

य: जीवितुम् इच्छति स: कर्माणि कुर्वन् एव भवेत् । अन्य: उपाय: नास्ति । कर्म कुवन्नेव तिष्ठति चेदपि तस्य कर्मलेप: न भविष्यति इति अर्थ: । ‘कर्म क्रियते चेदपि कर्मलेप: नास्ति’ इति अत्र विरोधाभास: दृश्यते।

काव्यशास्त्रे विरोधाभास: कश्चन अलङ्कार: ।

आभासत्वे विरोधस्य विरोधाभास इष्यते ।

विनापि तन्वि ! हारेण वक्षोजौ तव हारिणौ ॥ इति लक्षणम् उदाहरणं च ।

अत्र हे सुन्दरि ! तव वक्षोजौ हारेण विना अपि हारयुक्तौ इति विरोध: यद्यपि दृश्यते, किन्तु ‘हारिणौ’ इत्यस्य मनोहारिणौ इति अर्थेन विरोध: परिहृत: भवति । अत्र कर्म कुर्वन् भवति चेत् कर्मलेप: स्यात् ननु ! तथापि कर्मलेप: न भविष्यति इति विरोध: अत्र दृश्यते । किन्तु ईश्वरार्पणबुद्ध्‌या य: कर्म करोति, स: अशुभेन कर्मणा न लिप्यते इति तात्पर्यम् ।

एवमेव –

तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।

तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यत: ॥ इति मन्त्र: ।

अत्र तत् चलति । तत् न चलति । तत् दूरे अस्ति । तत् समीपे एव अस्ति । तत् सर्वस्य अन्त: अस्ति। तत् सर्वस्मात् बहि: अस्ति इति अस्य अर्थ: । अत्र तत् इत्यनेन ‘आत्मतत्त्वम्’ इति अवगन्तव्यम् । अत्रापि विरोधाभास: स्पष्टं दृश्यते । एतं विरोधाभासम् अवगत्य आत्मतत्त्वं य: जानाति स: एव ज्ञानी भवति ।

केनोपनिषदि –

शब्दालङ्कारस्य उदाहरणम् –

नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।

यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ अत्र सुवेद, वेद, तद्वेद, वेदेति इति पदानां पुनरावृत्त्या शब्दालङ्कार: स्पष्ट: ।  

तत्रैव विरोधाभासं द्रष्टुं शक्नुम: ।

यथा –

यस्यामतं तस्य मतं मतं यस्य न वेद स: ।

अविज्ञातं विजानतां विज्ञातमविजानताम् ॥

अस्य मन्त्रस्य अयमर्थ: – य: न जानाति, स: जानाति । य: जानाति, स: न जानाति । ज्ञानिभि: न ज्ञायते । अज्ञानिभि: ज्ञायते इति । अत्र विरोधाभास: स्पष्टं दृश्यते ।  

अत्र ज्ञानं नाम विषयसम्बन्धिज्ञानम् एव ज्ञानम् इति न । अनुभववेद्यम् अपि ज्ञानम् एव । अस्मिन् मन्त्रे शब्दालङ्कारोऽपि दृश्यते ।  

केनोपनिषद: तृतीयखण्डे काचित् कथा रमणीयतया वर्णिता वर्तते – कदाचित् देवता: ब्रह्मशक्त्या विजयं समपादयन् । ‘अयं विजय: अस्माभि: स्वशक्त्या एव साधित:’ इति देवता: अचिन्तयन् । तदा देवता: वस्तुस्थिते: अवबोधनाय ब्रह्म (ज्ञानं) यक्षरूपेण दर्शनं दत्त्वा स्वसामर्थ्यं ज्ञापयित्वा ता: देवता: पराजिता: अकरोत् । तदनन्तरम् उमादेवी प्रत्यक्षीभूय देवता: अवदत् – ‘यक्षरूपेण य: आगत:, स: एव ब्रह्मा । तया ब्रह्मशक्त्या एव (ब्रह्मज्ञानेन) भवतां सामर्थ्यं जयश्च’ इति । एषा आख्यायिका केनोपनिषदि सुन्दरं निरूपिता वर्तते ।

कठोपनिषदि प्रथमवल्ल्‌यां यमनचिकेतसो: संवाद: सुन्दर: प्रख्यात: च । तत्र यम: नचिकेतसम् उद्दिश्य ‘तृतीयं वरं पृच्छतु’ इति यदा वदति तदा नचिकेता: एवं वदति –

येयं प्रेते विचिकित्सा मनुष्ये

अस्तीत्येके नायमस्तीति चैके ।

एतद्विद्यामनुशिष्टस्त्वयाहं

वराणामेष वरस्तृतीय: ॥ इति ।

‘मनुष्य: मरणानन्तरमपि भविष्यति इति केचित् वदन्ति । न भविष्यति इति केचन भावयन्ति । एवम् अत्र सन्देह: वर्तते । एतदहं ज्ञातुमिच्छामि । कृपया उपदिशतु माम् । एष: एव तृतीय: वर:’ इति अस्य तात्पर्यम् ।

मरणानन्तरं मनुष्यस्य अस्तित्वम् अस्ति उत न इति अत्र सन्देह: दृश्यते । तथा च तल्लक्षणम्     – कविसम्मतसादृश्यात् विषयस्य सन्दिह्यमानत्वे सन्देह: ।  

कठोपनिषदि  प्रथमाध्याये द्वितीयवल्ल्‌यां –

एतद्ध्‌येवाक्षरं ब्रह्म एतद्ध्‌येवाक्षरं परम् ।

एतद्ध्‌येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।

एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥

अत्र मन्त्रद्वयेऽपि रूपकालङ्कार: शब्दालङ्कार: च दृश्येते । एतत् अक्षरम् एव ब्रह्म, एतत् अक्षरम् एव परम् इति उक्तत्वात् अत्र रूपकालङ्कार: वक्तुं शक्य: । तथा च रूपकस्य लक्षणम् – ‘विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत् ।

    रूपकं तत् त्रिधाधिक्यन्यूनत्वानुभयोक्तिभि: ॥

तत्रैव अपर: मन्त्र: –  आसीनो दूरं व्रजति शयानो याति सर्वत: ।

     कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥१०

अस्यायमर्थ: – उपविश्य एव दूरं गच्छति । शयनं कुवन्नेव सर्वत्र गच्छति । ईदृग्रूपं मदामदस्वरूपं तं देवं मां विना अन्य: को वा सम्यक् जानीयात् ? न कोऽपि इत्यर्थ: । अस्मिन् मन्त्रे विरोधाभासालङ्कार: वक्तुं शक्य: इति भाति ।

तत्रैव तृतीयवल्ल्‌याम् अयं मन्त्र: –

तं पिबन्तौ सुकृतस्य लोके

गुहां प्रविष्टौ परमे परार्धे ।

छायातपौ ब्रह्मविदो वदन्ति

पञ्चाग्नयो ये त्रिणाचिकेता: ॥११

अस्यायमर्थ: – द्वौ आत्मानौ जीवपरमात्मानौ शरीरस्य बुद्धिगुहायां हार्दाकाशे ब्रह्मण: उपलब्धिस्थानभूतं प्रविष्टौ । तौ छायातपौ इव संसारित्वासंसारित्वभेदेन परस्परविलक्षणौ इति गृहस्था: त्रिणाचिकेता: वदन्ति ।

अत्र छाया तमोरूपा, आतपश्च प्रकाशस्वरूप: । छाया जीवात्मा, आतप: च परमात्मा । छायातपौ प्रविष्टौ तन्नाम जीवात्मपरमात्मानौ प्रविष्टौ इति उक्तम् । अत्र दीपकालङ्कार: वक्तुं शक्य: । तथा च –

वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधा: ।

मदेन भाति कलभ: प्रतापेन महीपति: ॥१२ इति  दीपकालङ्कारस्य लक्षणं लक्ष्यं च ।

वर्ण्यावर्ण्यानां तन्नाम उपमानोपमेयानां साधारणधर्म: समान: यदि अस्ति, तर्हि तत्र दीपकम् उच्यते । ॠतं पिबन्तौ सुकृतस्य लोके इति मन्त्रे ‘छायातपौ गुहां प्रविष्टौ’ इत्यत्र यद्यपि उपमानोपमेयत्वं न, अपि तु छायातपौ जीवात्म-परमात्मानौ उभावपि गुहां प्रविष्टौ इत्युक्तत्वात् गुहाप्रवेशरूप: समान: धर्म: इत्यत: दीपकालङ्कारं वक्तुं शक्यते इति मम अभिप्राय: । यतो हि काव्यशास्त्रे उपमानपर्यायवाचि अवर्ण्यम् । उपमेयपर्यायवाचि च वर्ण्यम् । अत्र परमात्मा अवर्ण्य: इति न । न वा जीवात्मन: वर्णने उद्यता: । जीवात्मा अपि प्रविष्ट: । परमात्मा अपि प्रविष्ट: इति प्रवेशरूपसमानधर्मसत्त्वात् एवमपि काव्यसौन्दर्यम् आस्वादयितुं शक्येत इति मे मति: ।

तत्रैव कठोपनिषदि यम-नचिकेतसो: संवादे अयं मन्त्र: –

आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।

बुद्धिं तु सारथिं विद्धि मन: प्रग्रहमेव च ॥१३

अस्य अयमर्थ: – आत्मा रथी (रथस्य स्वामी),  शरीरं रथ:, बुद्धि: सारथि:, मन: प्रग्रह: (नियन्ता) इति जानीहि इति ।

अस्मिन् मन्त्रे आत्मा एव रथी, शरीरम् एव रथ: इति अत्र अभेदरूपकं स्पष्टं ज्ञायते । इदं तु रथरूपकम् इत्येव प्रसिद्धम् अस्ति ।

तत्रैव – इन्द्रियेभ्य: परा ह्यर्था अर्थेभ्यश्च परं मन: ।

 मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् पर: ॥१४

 महत: परमव्यक्तमव्यक्तात् पुरुष: पर: ।

 पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गति: ॥१५ इति मन्त्रयो: सारालङ्कार: दृश्यते।

इन्द्रियेभ्य: अर्था: श्रेष्ठा: । अर्थेभ्य: मन: श्रेष्ठम् । मनस: अपेक्षया अपि बुद्धि: श्रेष्ठा । बुद्धे: महद्रूप: आत्मा श्रेष्ठ: । महत: अव्यक्तं श्रेष्ठम् । अव्यक्तात् पुरुष: श्रेष्ठ: । पुरुषात् श्रेष्ठ: न कश्चित् अस्ति । एतदेव अन्त्यम् । एषा एव श्रेष्ठा गति: इति अनयो: मन्त्रयो: अर्थ: ।

एकस्मात् एकं श्रेष्ठम् इति उक्तत्वात् अत्र सारालङ्कार: इति ज्ञायते । तथा च तल्लक्षणम् –

उत्तरोत्तमुत्कर्षस्सार इत्यभिधीयते ।१६

तत्रैव द्वितीयाध्याये प्रथमवल्ल्‌यां कश्चन मन्त्र: –

य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।

ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥१७ एतद्वैतत्

मध्वदं नाम मधुभक्षकम् इत्यर्थ: । य: मधुभक्षकं, तन्नाम कर्मफलम् अनुभवन्तं जीवं (प्राणादिसमूहं धृतवन्तं जीवम्) समीपे विद्यमानं भूतभव्यं (त्रिकालस्वामि ब्रह्म) आत्मा इति अवगच्छति, तदनन्तरम् आत्मानं रक्षितुं न इच्छति, स: एव अयम् (तत् एव एतत्) ।

जीव: यावत्पर्यन्तम् ‘अहम् अनित्य:’ इति भावयन् भयम् अनुभवति, तावत्पर्यन्तम् आत्मानं रक्षितुम् इच्छति । ‘अहं नित्य:, अद्वैत: अस्मि’ इति यदा जीव: अवगच्छति, तदा कस्मात् वा आत्मा रक्षणीय:? तदनन्तरं जीव: आत्मानं रक्षितुं न इच्छति इत्यर्थ: । भीति: अस्ति चेदेव खलु रक्षणस्य चिन्ता ? इति तात्पर्यम् ।

अत्र मध्वदम् इत्यस्य कर्मफलम् अनुभवन्तम् इत्यर्थ: । अत: अत्र कर्मफलस्य मधुना अभेद: उक्त: इति अभेदरूपकं वक्तुं शक्यते ।

‘विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत् तत् रूपकम्’ इति रूपकालङ्कारस्य लक्षणम्।

तत्रैव अग्रे –

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।

एवं धर्मान् पृथक्पश्यन्स्तानेवानुविधावति ॥१८

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।

एवं मुनेर्विजानत आत्मा भवति गौतम ॥१९ इत्यनयो: मन्त्रयो: उपमालङ्कार: दृश्यते।

अनयो: मन्त्रयो: अयमर्थ: – यथा पर्वतेषु मेघ: वर्षति, तच्च जलं तत्रैव प्रवहति, तथा य: धर्मान् पृथक् पश्यति, स: तान् एव अनुसरति । एवमेव –

यथा शुद्धे जले पतितं निर्मलं (शुद्धं) जलं तद्वदेव भवति, तथा एकत्वम् अवगत्य मननं कुर्वत: मुने: आत्मा अपि तद्वदेव भवति’ इति ।

अत्र सादृश्यसत्त्वात् उपमालङ्कार: स्पष्टं ज्ञायते । तथा च उपमालङ्कारस्य लक्षणम् –

उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयो:२० इति ।

अग्रे तत्रैव द्वितीयाध्याये द्वितीयवल्ल्‌यां –  

अग्निर्यथैको भुवनं प्रविष्टो

रूपं रूपं प्रतिरूपो बभूव ।

एकस्तथा सर्वभूतान्तरात्मा

रूपं रूपं प्रतिरूपो बहिश्च ॥२१

वायुर्यथैको भुवनं प्रविष्टो

रूपं रूपं प्रतिरूपो बभूव ।

एकस्तथा सर्वभूतान्तरात्मा

रूपं रूपं प्रतिरूपो बहिश्च ॥२२

अनयो: मन्त्रयो: उपमालङ्कार: ज्ञायते । पदानां पुनरावृत्त्या शब्दालङ्कारोऽपि अवगम्यते ।

द्वितीयाध्याये द्वितीयवल्ल्‌याम् अयं मन्त्र: –

सूर्यो यथा सर्वलोकस्य चक्षु-

र्न लिप्यते चाक्षुषैर्बाह्यदोषै: ।

एकस्तथा सर्वभूतान्तरात्मा

न लिप्यते लोकदु:खेन बाह्य: ॥२३ इति मन्त्रे उपमालङ्कार: द्योत्यते ।

सूर्य: समग्रं ब्रह्माण्डं प्रकाशयति । तस्य प्रकाश: प्राणिनां नेत्रयो: प्रकाशक: भवति । तस्य प्रकाशस्य साहाय्येन एव जना: विविधप्रकारै: गुणदोषयुक्तानि कर्माणि कुर्वते । किन्तु सूर्य: बाह्यै: चक्षुस्सम्बन्धिदोषै: लिप्त: न भवति । तद्वत् सर्वेषु भूतेषु विद्यमान: आत्मा अपि । जीवा: अन्तर्यामिन: आत्मन: शक्त्या एव शक्तिमन्त: भूत्वा मनसा बुद्ध्‌या इन्द्रियैश्च विविधप्रकारेण शुभाशुभकर्माणि कुर्वन्ति। परिणामत: सुखदु:खादीनि फलानि भुञ्जते च । किन्तु आत्मा जीवानां कर्मणा दु:खेन वा लिप्त: न भवति। यतो हि आत्मा सर्वेषु जीवेषु सन्नपि पृथक् तिष्ठति इति अस्य तात्पर्यम् ।

अत्र उपमा वक्तुं शक्या । उपमावाचक: यथाशब्द: प्रयुक्त: । सूर्य: इव आत्मा अपि लिप्त: न भवति इत्युक्तम् । सूर्य:, आत्मा, यथा, लिप्त: इति उपमाया: चत्वार: अंशा: भवितुम् अर्हन्ति इति मे अभिप्राय:।

तत्रैव द्वितीयाध्याये द्वितीयवल्ल्‌याम् अयं मन्त्र: –

न तत्र सूर्यो भाति न चन्द्रतारकं

नेमा विद्युतो भान्ति कुतोऽयमग्नि: ।

तमेव भान्तमनुभाति सर्वं

तस्य भासा सर्वमिदं विभाति ॥२४

तत्र इत्युक्ते आत्मभूते ब्रह्मणि इत्यर्थ: । यद्यपि सूर्य: सर्वं प्रकाशयति, तथापि ब्रह्मणि स: न भाति । चन्द्र: नक्षत्राणि च न भान्ति । तटित् अपि न भाति । कथमयम् अग्नि: प्रकाशेत? प्रकाशमान: य: आत्मा वर्तते तमेव अनुसृत्य सर्वं भाति (प्रकाशते) । आत्मन: प्रकाशेन एव सर्वं विभाति इति अर्थ: । अत्र दीपकालङ्कार: दृश्यते । तथा च –

‘वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधा:२५ इति दीपकालङ्कारस्य लक्षणम् इति प्रागेव दीपकालङ्कारस्य उल्लेख: कृत: ।

अवर्ण्यस्य आत्मन:, वर्ण्यानां सूर्यचन्द्रनक्षत्राग्नीनां च धर्मैक्यमुक्तम् । भानक्रिया अत्र साधारणधर्म: । सूर्यस्य चन्द्रस्य विद्युत: च समानधर्मत्वात् अत्र दीपकालङ्कार: भवितुम् अर्हति । उपमानत्वेन स्थितस्य आत्मन: एव माहात्म्यम् अधिकम् । यद्यपि काव्यशास्त्रे उपमेयस्यैव वर्णनं भवति । किन्तु अत्र उपमानभूतस्य आत्मन: माहात्म्यम् एव वर्ण्यते इति विशेष: ।

कठोपनिषदि एव अपर: कश्चन मन्त्र: –

भयादस्याग्निस्तपति भयात् तपति सूर्य: ।

भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम: ॥२६

अस्य भयकारणत: अग्नि: दहति । सूर्य: भयात् तपति । भयकारणात् एव इन्द्र: वायु: च कार्यं कुरुत: । पञ्चम: मृत्यु: धावति इति अस्यार्थ: । अत्र भयात् पदस्य पुनरावृत्त्या शब्दालङ्कार: वक्तुं शक्य: ।

प्रश्नोपनिषदि तु विद्याम् अपेक्षमाणै: शिष्यै: कथं भवितव्यम् इति नीतिकथा वर्तते । महर्षे: पिप्पलादस्य सकाशं षट् शिष्या: गच्छन्ति विद्यार्जनाय । गुरुशिष्याणां प्रश्नोत्तररूपमेव प्रश्नोपनिषत् ।

प्रश्नोपनिषदि द्वितीयप्रश्ने मन्त्र: –

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।

ऋचो यजूंषि सामानि यज्ञ: क्षत्रं ब्रह्म च ॥२७

अरा: यथा शकटस्य नाभिप्रदेशे सम्मिलिता: भवन्ति, तथा सर्वम् अपि प्राणे एव भवति । ऋच:, यजूंषि, सामानि, यज्ञ:, क्षत्रं, ब्रह्म च प्राणे एव भवन्ति ।

अत्र रथनाभौ अरा: इव प्राणे सर्वं प्रतिष्ठितम् इति सादृश्यस्य कथनात् उपमा द्योत्यते । उपमालक्षणं तु प्रागेव उक्तम् ।

तत्रैव –

देवानामसि वह्नितम:

पितॄणां प्रथमा स्वधा ।

ऋषीणां चरितं सत्य-

मथर्वाङ्गिरसामपि ॥२८ इति मन्त्रे उल्लेखालङ्कार: वक्तुं शक्य: ।

त्वं देवतानाम् उत्तम: अग्नि: असि । पितॄणां प्रथमा स्वधा असि । अथर्वाङ्गिरसाम् ऋषीणां सत्यं चरितम् असि इति अस्य मन्त्रस्य अर्थ: । अत्र एकस्यैव बहुभि: प्रकारेण उल्लेखनात् उल्लेखालङ्कार: स्पष्टम् अवगम्यते ।

प्रश्नोपनिषदि द्वितीयप्रश्ने अपर: मन्त्र: –

इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।

त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पति: ॥२९

हे प्राण ! त्वम् इन्द्र: । तेजसा त्वं रुद्र: । त्वमेव जगत: परिरक्षिता । त्वं सूर्य: अन्तरिक्षे चरसि । त्वमेव ज्योतिषां पति: इति अस्य अर्थ: ।

त्वम् इन्द्र:, त्वं शिव:, त्वमेव रक्षक:, त्वं सूर्य:, त्वमेव सर्वेषां ज्योतिषां पति: इति एकस्यैव बहुप्रकारै: उल्लेखनात् अत्र उल्लेखालङ्कार: दृश्यते । तथा च –

बहुभिर्बहुधोल्लेखात् एकस्योल्लेख इष्यते ।

एकेन बहुधोल्लेखेऽप्यसौ विषयभेदत: ॥

गुरुर्वचस्यर्जुनोऽयं कीर्तौ भीष्म: शरासने ।३० इति उल्लेखस्य लक्ष्यं लक्षणं च ।

मुण्डकोपनिषदि प्रथममुण्डके कश्चन मन्त्र: –

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।

अन्नात् प्राणो मन: सत्यं लोका: कर्मसु चामृतम् ॥३१

तपसा ब्रह्म फुल्लं भवति । तत: अन्नं जायते । अन्नात् प्राण:, मन:, सत्यं, लोका:, कर्मसु अमृतं च ।

अस्मिन् मन्त्रे कारणमालालङ्कार: दृश्यते । तथा च –

गुम्फ: कारणमाला स्यात् यथा प्राक्प्रान्तकारणै: ।

नयेन श्री: श्रिया त्यागस्त्यागेन विपुलं यश: ॥३२ इति कारणमालाया: लक्षणं लक्ष्यं च ।

अत्रापि तपस:, ब्रह्मण: अन्नस्य च कारणत्वात् कारणमालालङ्कार: स्पष्ट: ।

तत्रैव प्रथममुण्डके अयं मन्त्र: –

अविद्यायामन्तरे वर्तमाना:

स्वयं धीरा: पण्डितं मन्यमाना: ।

जङ्घन्यमाना: परियन्ति मूढा:

अन्धेनैव नीयमाना यथान्धा: ॥३३

केचन अविद्यायामेव स्थित्वा ‘वयम् एव धीरा:, ज्ञानिन:’ इति आत्मानं मन्यमाना: भवन्ति। यथा अन्धेन नीयमाना: अन्धा: तथा एते इति अस्यार्थ: ।

अत्र उपमालङ्कार: वर्तते ।    

मुण्डकोपनिषदि द्वितीयमुण्डके –

धनुर्गृहीत्वौपनिषदं महास्त्रं

शरं ह्युपासानिशितं सन्दधीत ।

आयम्य तद्भावगतेन चेतसा

लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥३४ इत्यस्मिन् मन्त्रे रूपकालङ्कार: सुन्दरतया निरूपित: वर्तते।

रूपकालङ्कारस्य लक्षणं प्रागेव विवृतम् । अत्र मन्त्रे औपनिषदे महास्त्रे धनुषि उपासानिशित: बाण: योजनीय: । तत: तदाकृष्य तद्भावगतेन चेतसा तदेवाक्षरं विद्धि (बाणप्रयोगं कुरु) इति तात्पर्यम् ।

अत्र उपनिषत् एव महत् अस्त्रम् (धनु:) । उपासना एव बाण: । लक्ष्यम् एव अक्षरम् इति उक्तत्वात् रूपकालङ्कार: अस्ति इति वक्तुं शक्यते ।

तत्रैव  –

प्रणवो धनु: शरो ह्यात्मा

ब्रह्म तल्लक्ष्यमुच्यते ।

अप्रमत्तेन वेद्धव्यं

शरवत् तन्मयो भवेत् ॥३५ इत्यस्मिन् मन्त्रे अपि अभेदरूपकं स्पष्टं ज्ञायते ।

प्रणव: (ओङ्कार:) एव धनु: । आत्मा एव बाण: । ब्रह्म एव लक्ष्यम् । जागरूकतया वेद्धव्यम् । बाणवत् तन्मय: भवेत् इति अस्य अर्थ: । अत्र प्रणव: एव धनु:, आत्मा एव बाण:, ब्रह्म एव लक्ष्यम् इति प्रणवे धनुष:, आत्मनि बाणस्य, ब्रह्मणि लक्ष्यस्य च आरोपात् रूपकालङ्कार: स्पष्टं ज्ञायते ।

मुण्डकोपनिषदि तृतीयमुण्डके अयं मन्त्र: –

द्वा सुपर्णा सयुजा सखाया

समानं वृक्षं परिषस्वजाते ।

तयोरन्य: पिप्पलं स्वाद्वत्ति

अनश्नन्नन्यो अभिचाकशीति ॥३६

समानगुणवन्तौ परस्परसखायौ उभौ पक्षिणौ (जीव-परमात्मानौ) समानम् एव वृक्षम् (शरीरनामकं वृक्षं) आलिङ्ग्‌य स्थितवन्तौ स्त: । तयोरेक: स्वादु पिप्पलं (सुखद:खरूपं कर्मफलम्) भक्षयति, अविवेकेन उपभुङ्क्ते। अपर: अखादन् एव केवलं पश्यति । (प्रेरक: इव केवलं पश्यति ) इत्यर्थ: । अत्र रूपकालङ्कार: स्पुटं दृश्यते जीवे परमात्मनि च पक्षिणो: अभेदारोपात् ।

तत्रैव अपर: मन्त्र: –     

यथा नद्य: स्यन्दमाना समुद्रेऽ-

स्तं गच्छन्ति नामरूपे विहाय ।

तथा विद्वान् नामरूपाद्विमुक्त:

परात्परं पुरुषमुपैति दिव्यम् ॥३७

यथा नद्य: प्रवहन्त्य: नामरूपाणि विहाय समुद्रे अस्तं गच्छन्ति, तथा पण्डित: नामरूपात् मुक्त: सन् परात्परस्य दिव्यपुरुषस्य समीपं याति (परमात्मनि लीन: भवति) इति अस्य अर्थ: । अत्र उपमालङ्कार: दृश्यते । नद्य: उपमानम्, विद्वान् उपमेयम्, यथा उपमावाचक: इति उपमाया: अंशा: भवितुम् अर्हन्ति।

माण्डूक्योपनिषदि मन्त्र: –

बहिष्प्रज्ञो विभुर्विश्वो ह्यन्त:प्रज्ञस्तु तैजस: ।

घनप्रज्ञस्तथा प्राज्ञ: एक एव त्रिधा स्मृत: ॥३८

बाह्यविषयज्ञानी विभु: । अन्तर्ज्ञानी तैजस: । घनज्ञानी प्राज्ञ: इति एक: एव त्रिविध: भवति इति अस्य अर्थ:। अत्र उल्लेखालङ्कार: दृश्यते एकस्यैव बहुधा उल्लेखनात् । उल्लेखस्य लक्षणं प्रागेव विवृतम् ।

तत्रैव अपर: मन्त्र: –  

विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तका: ।

स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥३९

केचन सृष्टिचिन्तका: ‘सृष्टि: विभूति:’ इति मन्यन्ते । सा च ‘स्वप्नमायासरूपा’ इति अन्ये केचन भावयन्ति इति अस्य तात्पर्यम् ।

अत्र अपह्नुत्यलङ्कार: दृश्यते । तथा च तल्लक्षणम् –

शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिह्नव: ।४०

वस्तुत: अयं परमात्मन: स्वभाव: । किन्तु जना: विभिन्नै: प्रकारै: कल्ययन्ति ।   

इच्छामात्रं प्रभो: सृष्टिरिति सृष्टौ विनिश्चिता: ।

कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तका: ॥४१

भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे ।

देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा ॥४२

केचन भावयन्ति यत् सृष्टि: भोगाय इति । अपरे केचन क्रीडार्थमिति मन्यन्ते । अयं देवस्य स्वभाव: । आप्तकामस्य का वा इच्छा स्यात् ? इति अस्यार्थ: । अत्रापि अपह्नुत्यलङ्कार: भवितुम् अर्हति इति भाति।

तत्रैव –

द्वैतस्याग्रहणं तुल्यमुभयो: प्राज्ञतुर्ययो: ।

बीजनिद्रायुत: प्राज्ञ: सा च तुर्ये न विद्यते ॥४३

प्राज्ञस्य तुर्यस्य च द्वैतस्य अग्रहणं (अनवगमनम्) समानम् । किन्तु प्राज्ञ: बीजनिद्रायुत:। तत् तुर्ये न भवति इति अस्यार्थ: । अत्र विशेषकालङ्कार: भवितुम् अर्हति । ‘वैशिष्ट्यस्फूर्तौ विशेषकालङ्कार:’ इति तल्लक्षणम् । यथा कुवलयानन्दस्थमुदाहरणम् –

काक: कृष्ण: पिक: कृष्ण: को भेद: पिककाकयो: ।

वसन्तकाले सम्प्राप्ते काक: काक: पिक: पिक: ॥४४

अस्मिन् उदाहरणे यद्यपि काकपिकयो: कृष्णत्वं समानं, किन्तु वसन्तसमये मधुरं कूजति पिक: एव न तु काक: । तद्वत् ‘द्वैतस्याग्रहणम् ..’ इत्यत्रापि प्राज्ञस्य तुर्यस्य च द्वैतस्य अनवगमनं समानं, किन्तु बीजनिद्रायुत: प्राज्ञ: एव, न तु तुर्य: इत्युक्तत्वात् अत्र विशेषकालङ्कार: भवितुम् अर्हति इति मे अभिप्राय:। अत्र शब्दालङ्कारोऽपि वर्तते ।

तल्लक्षणम् –

एकस्यानेकस्य वा व्यञ्जनस्य अनेकवारं प्रयोग: वृत्त्यनुप्रास: ।  

तैत्तिरीयोपनिषद: भृगुवल्ल्यां तु पिता अत्यन्तं सरलतया सुन्दरतया च पुत्रं बोधयति इव विचारा: निरूपिता: सन्ति । सर्वप्राणिनाम् आन्तर्ये एव आत्मन: निवास: इति सुष्ठु प्रतिपादनं वर्तते । ते मन्त्रा: नितरां रमणीया: । स: तपोऽतप्यत – अन्नं ब्रह्मेति व्यजानात् । प्राणो ब्रह्मेति व्यजानात् । मनो ब्रह्मेति व्यजानात् । विज्ञानं ब्रह्मेति व्यजानात् । आनन्दो ब्रह्मेति व्यजानात्४५ । श्रोतॄणां नितरां हितजनका: एते मन्त्रा: ‘आनन्दो ब्रह्म’ इति सत्यम् उपदिशन्ति, अवगमयन्ति च । अत्यन्तम् आनन्दानुभव: एव परमात्मा इति ‘रसो वै स:’४६ इत्यनेन प्रतिपादितम् । काव्यशास्त्रे ये नव रसा: प्रतिपाद्यन्ते, तेषां नवनां रसानां सारभूत: एव अयम् आनन्दरस: । जीव: आनन्दरसम् अनुभावम् अनुभावं स: एव ‘आनन्द:’ भवति । अत एव – ‘रसं लब्ध्वा आनन्दी भवति’ इत्युक्तम् । ईदृशानि अनेकानि वाक्यानि कथाश्रोतु: यथा कथाश्रवणे एव कुतूहलं, तथा सामान्यजनेषु कुतूहलं जनयन्ति, वारं वारं श्रोतव्यम् इति भावम् उत्पादयन्ति च ।

ऐतरेयोपनिषदि विद्यमाना काचित् कथा कुतूहलं जनयति । ‘या मूर्तिरजायत, अन्नं वै तत्। तदेतदभिसृष्टं पराङत्यजिघांसत् ।४७ ‘अन्नं परावृत्य अधावत्’ इति कथं स्यात् ?

माता बालम् उद्दिश्य – ‘त्वम् अधुना यदि भोजनं न करिष्यसि, तर्हि श्व: त्वम् इच्छसि चेदपि अन्नं न प्राप्स्यसि । तदन्नम् आत्मानं निलीय कुत्रचित् तिष्ठति’ इति कथां वदति इव अस्ति । पञ्चेन्द्रियाणि चैतन्यराहित्येन किमपि कार्यं कर्तुं न शक्नुवन्ति । नियुक्तं कार्यं कर्तुं तेषां चैतन्यम् आवश्यकम् एव । तच्च शुद्धं चैतन्यम् एव परमात्मा । एतस्य अवबोधनाय ‘अन्नम् अधावत्’ इति सुन्दरतया वर्णितम् । शिशो: अपि अवगमनम् एवंप्रकारेण जातम् इत्युक्ते अत्रत्यं काव्यसौन्दर्यम् अत्युत्कृष्टम् इति प्रमाणितम् अभवत् खलु ! एषु मन्त्रेषु शब्दालङ्कारा: दृश्यन्ते ।

छान्दोग्योपनिषदि उपासनाविषय: आधिक्येन वर्तते । सामवेदसम्बन्धिनी इयम् उपनिषत्। सङ्गीतस्य मूलं सामवेद: । छान्दोग्यमन्त्रा: अपि उदात्तानुदात्तादिभेदम् अनुसृत्य छन्दोबद्धं उच्चार्यन्ते । इदम् अपि श्रोतॄणां नितराम् आनन्दजनकम् एव । एते मन्त्रा: विज्ञानसम्बन्धिविचारान् अपि बोधयन्ति । अस्माभि: भुक्त: आहार: शरीरे कथं परिणामं जनयति इति मन्त्रै: सम्यक् विवृतं वर्तते ।४८

एवं बहुभि: दृष्टान्तै: सृष्टिकर्तु: वर्णयितार: ऋषय: ‘श्रेष्ठकवय:’ इत्यत्र न कापि संशीति: ।

बृहदारण्यकोपनिषदि –

जनकस्य याग: । तत्र ब्रह्मज्ञानिभ्य: जनकेन आयोजिता स्पर्धा । एषा अतिशयोक्ति: इति वक्तुं शक्यते। तत्र सहस्रं गाव: । तासाम् एकैकस्मिन् शृङ्गेऽपि सुवर्णनाणकै: पूर्णानां दशानां गोणीनां बन्धनम् । ईदृशं वर्णनं किं न अतिशयोक्ति: ? कुतो वा ईदृशं वर्णनम् ? महतीं स्पर्धां सधैर्यं ससन्तोषं च अङ्गीकृतवत: याज्ञवल्क्यस्य माहात्म्यप्रदर्शनाय । याज्ञवल्क्येन स्पर्धाया: अङ्गीकरणसमनन्तरं तत्र काचित् विचारसङ्गोष्ठी एव (सेमिनार्) प्रवृत्ता । एतेषां सर्वेषां वर्णनस्य महत् लक्ष्यं नाम ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति ज्ञापनम् ।

एवं वैज्ञानिका: विषया:, दृष्टान्तकथा:, मानवस्य श्रेष्ठजीवनाय अनेके विधिनियमा:, अन्नपानादीनां महत्त्वम् इत्यादय: बहव: विषया: मन्त्रै: रमणीयतया निरूपिता: उपनिषत्सु। तस्मात् एता: उपनिषद: सुन्दराणि काव्यानि इति वक्तुं शक्यते ।

शिष्याणां हितमेव चिन्तयद्भि: आचार्यै: प्रीत्या उपदिष्टानि तत्त्वानि एव एता: उपनिषद: । परम्परारूपेण भारतीयजनमनस्सु एता: उपनिषद: सदा प्रकाशमाना: एव भवन्ति ।

 इदं जगदेव विचित्रम् । तादृशस्य विचित्रस्य प्रपञ्चस्य कल्पनाकर्ता महान् । तस्मै महानुभावाय नमो नम:।

निरुपादानसम्भारमभित्तावेव तन्वते ।

जगच्चित्रं नमस्तस्मै कलालाघ्याय शूलिने ॥        

*  * *  * *       

Endnotes:      

१. ईशावास्योपनिषत् – २

२. चन्द्रालोक: – ७१

३. ईशावास्योपनिषत् – ५

४. केनोपनिषत् – २

५. केनोपनिषत् – ३

६. कठोपनिषत् – १-१-२०

७. कठोपनिषत् – १-२-१६

८. कठोपनिषत् – १-२-१७

९. चन्द्रालोक: – १२

१०. कठोपनिषत् – १-२-२१

११. कठोपनिषत् – १-३-१

१२. चन्द्रालोक: – ४३

१३. कठोपनिषत् – १-३-३

१४. कठोपनिषत् – १-३-१०

१५. कठोपनिषत् – १-३-११

१६. चन्द्रालोक: – १०५

१७. कठोपनिषत् – २-१-५

१८. कठोपनिषत् – २-१-१४

१९. कठोपनिषत् – २-१-१५

२०. चन्द्रालोक: – १

२१. कठोपनिषत् – २-२-९

२२. कठोपनिषत् – २-२-१०

२३. कठोपनिषत् – २-२-११

२४. कठोपनिषत् – २-२-१५

२५. चन्द्रालोक: – ४३

२६. कठोपनिषत् – २-३-३

२७. प्रश्नोपनिषत् – २-६

२८. प्रश्नोपनिषत् – २-८

२९. प्रश्नोपनिषत् – २-९

३०. चन्द्रालोक: – १७ -१८

३१. मुण्डकोपनिषत् – १-१-८

३२. चन्द्रालोक: – १००

३३. मुण्डकोपनिषत् – १-२-८

३४. मुण्डकोपनिषत् – २-२-३

३५. मुण्डकोपनिषत् – २-२-४

३६. मुण्डकोपनिषत् – ३-१-१

३७. मुण्डकोपनिषत् – ३-२-८

३८. माण्डूक्योपनिषत् – प्र-१-१

३९. माण्डूक्योपनिषत् – प्र-१-७

४०. चन्द्रालोक: – २१

४१. माण्डूक्योपनिषत् – प्र-१-८

४२. माण्डूक्योपनिषत् – प्र-१-९

४३. माण्डूक्योपनिषत् – प्र-१-१३

४४. कुवलयानन्द:

४५. तैत्तिरीयोपनिषत् – भृगुवल्ली

४६. तैत्तिरीयोपनिषत् – ब्रह्मानन्दवल्ली – सप्तम: अनुवाक:

४७. ऐतरेयोपनिषत् – प्रथम: अध्याय: – तृतीयखण्ड: – २,३

४८. छान्दोग्योपनिषत् – षष्ठ: अध्याय: – पञ्चम: खण्ड: – १,२,३                  [/vc_column_text][/vc_column][/vc_row]