इतिहासपुराणेषु वैरुध्यानां परिहारोपायाः

[rev_slider_vc alias=”about-3″]

इतिहासपुराणेषु वैरुध्यानां परिहारोपायाः

Dr.M.G.Nandana Rao

Assistant Professor

Dept. of Translation

National Sanskrit University. Tirupati

Email.- mnandanbhatt@gmail.com

उपोद्गाथः –

वेदाः यथा ब्रह्मणः मुखादुद्भूताः तथैत पुराणान्यपि ब्रह्मणः पञ्चममुखात् निर्गतानि । परमशिवेन पञ्चममुखं उत्पाटितं तेन हेतुना पुराणानि विनष्टानीति पुराणविदां वाणी । कालकबलितं पुराणवाङ्मयं वापरान्ते हरेरवतारभूतः व्यासपदविभूषितः सत्यवतीसुतः कृष्णद्वैपायनः कलिकलुषित – जनोद्धरणाय पुराणानि पुनरुद्धार । तानि खलु पुराणानि पुनरुद्धर्तुः भगवतः व्यासपदविभूषितस्य कृष्णद्वैपायनस्य कर्तृत्वेन व्यवह्रियते । ‘

अष्टादशपुराणानाम् एककर्तृत्वाङ्गीकारे परस्परविरुद्धवचनानि तेषु न भवेयुः । विरुद्धवचनानि सन्तीत्यतः पुराणानां बहुकर्तृत्वम् अङ्गीकर्तव्यमिति केषाञ्चन मतम्। अस्य वादस्य अङ्गीकारे काश्चन समस्याः समुद्भवन्ति । पुराणानि कपोलकल्पितानि ऊहाजनितानि इत्याक्षेपस्य बीजभूतम् इदं स्यात् । तदा पुराणानाम् अप्रामाणिकतापि स्यात् । आदिशङ्कराचार्यप्रभृतिभिराचार्यैः प्रमाणत्वेन दर्शितानां पौराणिकवचनानां निर्गतिकता अप्रामाणिकता वा स्यात् ।

लोके विरुद्धानीति कथ्यमानानां पुराणेतिहासानां प्रसङ्गानां

विरोधपरिहाराय प्रयत्नः विधेयः । ब्रह्मसूत्रादिषु तत्तु समन्वयात्’ इत्यादि सूत्र

कथनेन यः मार्गः व्यासमहर्षिणा प्रादर्शि तादृशं वर्त्म अनुसरणीयं बुधैः । विरुद्धप्रसङ्गाः विरुद्धवचनानि वा विरोधाभासा एव न तु विरुद्धाः इति निरूपयितुं प्रयासाः प्राचीनैर्बहुभिः विहिता एव । “व्याख्यानतो विशेषप्रतिपत्तिः न हि सन्देहदलक्षणम्” इति नागेशभट्टवचनमत्र स्मरणीयम्।

पुराणेष्वेव बहुषु सन्देहस्थाननेषु महर्षिभिः परिप्रश्नाः कृताः । सूतपौराणिकैः बहुत्र समाधत्तञ्च।श्रीमद्रामायणेऽपि बहूनां सन्देहनिवारणार्थम् उत्तरकाण्डे अनुबन्धाः उक्ताः । पूर्वकथानां संबन्धाः प्रोक्ताः । महाभरतेsपि अयं क्रमः मतिपथमायाति । तदतिरिच्यापि यत्र वचनविरोधः तत्र तन्निवारणाय प्रयासाः कृताः ।

उदा- श्रीमदानन्दतीर्थभगवत्पादैः महाभारततात्पर्यनिर्णयग्रन्थे रामायण-भारत- भागवतादिषु विरोधपरिहाराः विविधप्रमाणानि परिशील्य कृताः ।

आधुनिकैरपि कैश्चित् लोकिकभाषासु अयं प्रयासः विहितः । यथा-

महामहोपाध्याय -पौराणिकसार्वभौमाध्युपाधिभाजैः मल्लादि चन्द्रशेखरशास्त्रिभिः रामायणरहस्यदर्शिनी, महाभारतधर्मसन्देह इति नाम्ना तेलुगु भाषया

प्रकाशितम् ।

पूर्वसूरिभिरीरिताः केचनोपायाः अत्र प्रस्तूयन्ते-

1. पुराणभाषायाः परिज्ञानम्-

आध्यात्मिक-आधिदैविकआधिभौतिकस्तरीयवचनानि

पुराणेषु सर्वेषु अपि परमात्मा गीयते । अष्टादशपुराणानां परब्रह्मणि तात्पर्यम्। यथा सर्वेषामपि वेदवाक्यानां परब्रह्मणि तात्पर्यं तथैव पुराणानामपि परमात्मनि एव तात्पर्यम् । वेदार्थोपबृह्मणार्थमेव पुराणेतिहासानां प्रवृत्तिः। “वेदोपबृह्मणार्थाय तावग्राहयत प्रभुः” इति रामायणवचनमत्र स्मरणयोग्यम् ।

6

देवतास्वरूपनिरूपणं, देवासुरसङ्ग्रामाद्यंशाः वेदेषु संक्षेपतः उक्ताः पुराणेषु विस्तारतः उच्यन्ते । “विष्णुः त्रेधा निदधे पदम् “7 इति वेदे उक्तम् आख्यानं पुरणेषु वामनावताररूपेण निरूपितम् ।

लोकव्यवहारसंबद्धाः स्मृत्युक्तधर्माः पुराणेषु सुष्टु निरूपिताः । य़था- एकादशीव्रतमाहात्म्यं निरूपयितुम् अम्बरीषोपाख्यानं

8

प्रतिपादितम्। आख्यानानाम् उद्देश्य ज्ञानेन संगतार्थानां विनिर्णयः असङ्गतार्थानां निरासश्च भवति ।

2. समाध्यादिभाषाः-

समाधिभाषा,दर्शनभाषा, गुह्यभाषा च

भाषासु त्रिविधाः तत्र मया वै संप्रदर्शिताः ।।

उक्तो यो महिमा विष्णोः स तूक्तो हि समाधिना । समाधिभाषयोक्तंयत्त्सर्वं ग्राह्यमेव हि ।

अविरुद्धं समाधेस्तु दर्शनोक्तञ्च गृह्यते । । “

3. अन्तरङ्ग – बहिरङ्गनिर्णयः

उदाहरणार्थं- रामायणप्रसङ्गनां निर्णये वाल्मीकि रामायणमेव प्रमाणम् । पुराणान्तररामकथाः अवताराणां परिचयसंदर्भेषु उक्ताः । अतः ते बहिरङ्गाः । बहिरङ्गप्रमाणेभ्योऽपि अन्तरङ्गप्रमाणाः बलवत्तराः ।

4. बहुधा प्रकीर्तितांशाः – अल्पप्रकीर्तितांशाः

रामायणे कुम्भकर्णः रामेण हत इति महाभारते च लक्ष्मणेन इति च वर्तते। महाभारतादन्यत्र सर्वत्र रामायणपक्षः एव आश्रितः अतः अयं प्रसिद्धः ।

6. कल्पभेदः- “प्रतिकल्पं भवेद्रामः” इति कथनात् प्रतिकल्पं रामाद्यवताराः भवन्ति किन्तु कथासु भेदः कुत्रचित् संभवति ।

7. व्यत्यास-प्रातिलोम्यादिसप्तभेदाः यथा-

व्यत्यासः प्रातिलोम्यञ्च गोमूत्री प्रघसस्तथा ।

उक्षणः सुधुरः साधुः सप्तभेदाः प्रकीर्तिताः । । 10

8.शास्त्रान्तरोपायानाम् आश्रयणम्

मीमांसादिशास्त्राणां न्यायाः संदेहस्थानेषु निर्णये बहुधा उपकरवन्ति ।

उपसंहारः-

अस्मिन् पत्रे इतिहासपुराणेषु वैरुध्यानां परिहारोपायाः संक्षेपेण निरूपिताः। एतेषां विवरणम् अधोनिर्दिष्टेषु आकरग्रन्थेषु उपलभ्यन्ते।

Foot Notes-

1. अष्टादशपुराणानां कर्ता सत्यवतीसुतः । 2.बादरायणीयब्रह्मसूत्राणि 1अ

3. परिभाषेन्दुशेखरः- 1प

4. महाभारततात्पर्यनिर्णय page No 560

5. Mahabharata Dharma sukshmalu.page -4

6. वाल्मीकि रामायणम्. बालकाण्डे

7.कृष्णयजुर्वेदसंहिता

8. श्रीमद्भागवतम्

9.महाभारततात्पर्यनिर्णय अ. 1

10. महाभारततात्पर्यनिर्णय. 9.138,139

आकरग्रन्थाः-

1. वालमीकि रामायणम्, चौखाम्बा पब्लिकेषन्स्. वाराणसि

2. महाभारततात्पर्यनिर्णय पूर्णप्रज्ञविद्यापीठ, बेङ्गलूरु

3.Sri Mahabharata Tatparya Nirnaya. Tatwa siromani Samsad. Udipi

4. Ramayana Rahasya Darsini. Sri Malladi Chandra shekhara sastri.

Hyderabad

5. Mahabharata Dharma sukshmalu. Sri Malladi Chandrasekhara sastri

6. परिभाषेन्दुशेखरः, चौखाम्बा पब्लिकेषन्स्. वाराणसि

7. ब्रह्मसूत्राणि, चौखाम्बा पब्लिकेषन्स्. वाराणसि

8. श्रीमद्भागवतम्, चौखाम्बा पब्लिकेषन्स्. वाराणस

**

**