आरम्भणीयेष्टेः अनुष्ठानविचारः

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

आरम्भणीयेष्टेः अनुष्ठानविचारः

डा टि.उमेशः
सहाचार्यः,
मीमांसाविभागः
श्रीवेङ्कटेश्वरवेदविश्वविद्यालयः, तिरुपतिः
9492551742, dr.bhatut@gmail.com

 

नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये।
नम आहवनीयाय महावेद्यै नमो नमः।।

धर्मानुष्ठानोपयुक्तवेदवाक्यार्थनिर्णयाय प्रवृत्तेऽस्मिन् द्वादशाध्यायात्मकपूर्वमीमांसाशास्त्रस्य पूर्वभागे भगवता जैमिनिना धर्मप्रमाणभेदादिविचारः षड्भिः अध्यायैः निरूपितः। तत्र साक्षात् उपदेशप्राप्तविहितेतिकर्तव्यताकानां दर्शपूर्णमासादिप्राकृतकर्मणाम् अनुष्ठानस्वरुपं प्रतिपादितम्। तदुत्तरभागे सामान्यातिदेशमारभ्य प्रसङ्गान्तविचारः षड्भिः अध्यायैः प्रदर्शितः। अत्र अतिदेशप्राप्त अविहितेतिकर्तव्यताकानां सौर्यादिवैकृतकर्मणाम् अनुष्ठानविचारः प्रतिपादितः इति कृत्वा उपदेशा-तिदेशयोः पूर्वोत्तरषट्कयोः उपजीव्योपजीवकभावरुपसम्बन्धः ज्ञायते। तत्र प्रस्तुतोऽयं विचार्यमाणः आरम्भणीयेष्टेः अनुष्ठानविचारः नवमदशमाध्याययोः प्रथमपादे विस्तृतरूपेण नैकेष्वधिकरणेषु व्याख्यातः दरीदृश्यते। इदानीम् अमुमेव विचारमनुसृत्य मीमांसाशास्त्रसिद्धान्तः परिशील्यते। 

यावज्जीवदर्शपूर्णमासप्रयोगे आरम्भणीयेष्टेः सकृदनुष्ठानविचारः

दर्शपूर्णमासप्रकरणे आरम्भणीयेष्टिः विहिता। यथा – “आग्नावैष्णवमेकादशकपालं निर्वपे-थ्सरस्वत्यै चरुं सरस्वते द्वादशकपालमग्नये भगिने अष्टाकपालं निर्वपेत् यः कामयेतान्नाद्यस्यामिति”तथा च दर्शपूर्णमासयोरारप्स्यमाणं प्रति – “आग्नावैष्णवमेकादशकपालं निर्वपेत् दर्शपूर्णमासावा-रप्स्यमाणः” इति प्रयोगवचनेन आरम्भणीयेष्टिः विधीयते। तत्र दर्शपूर्णमासयोः यावज्जीवं नित्यत्वे-नानुष्ठानविधिश्च इत्थं श्रूयते यथा – यावज्जीवं दर्शपूर्णमासाभ्यां यजेत” इति । तथा सति इदानीम् आरम्भणीयेष्ट्यनुष्ठानविषये अस्ति जिज्ञासा। किं यावज्जीवं दर्शपूर्णमासयोरावृत्तौ प्रतिप्रयोगमावृत्तिः आरम्भणीयेष्टेः उत सकृदेवाद्यप्रयोगे सानुष्ठेयेति। अत्र अयमपि विचारो भवितुमर्हति यथा – आरम्भणीयेष्टिः किं दर्शपूर्णक्रतूपकारकत्वेन प्रयाजादिवत् प्रतिप्रयोगमावर्तते उत दर्शपूर्णमासयो-रारप्स्यमाणपुरुषसंस्कारार्थत्वेन केवलम् आद्यप्रयोगे एव सकृत् अनुष्ठीया इति। 

तत्र “इष्ट्यावृत्तौ प्रयाजवदावर्तेतारम्भणीया इति नवमस्य प्रथमपादे दशमाधिकरणपूर्वपक्ष-सूत्रानुसारं प्रधानावृत्तौ यथा प्रयाजाद्यङ्गावृत्तिः तद्वदारम्भणीयेष्टेरपि प्रयाजादिवत् दर्शपूर्णमासा-ङ्गत्वात् तयोरावृत्तौ प्रतिप्रयोगं क्रतुसंस्कारकत्वेन  आरम्भणीयेष्टेरप्यावृत्तिरिति साध्यते। अस्याः फलाकांक्षानिवृत्तिः प्रधानयागफलेनैव सिध्यति इति हेतोः न पृथक् फलान्तरकल्पनम् अवशिष्यते। अतस्सिद्धं यथा अङ्गभूताः प्रयाजाः आवर्तन्ते तथा अङ्गभूता आरम्भणीयापि। यावज्जीवदर्शपूर्णमास-प्रयोगेषु प्रतिप्रयोगारम्भभेदात् इष्ट्यावृत्तौ आरम्भणीयावृत्तिः। यथा प्रयोगावृत्तौ प्रयाजाः इति पूर्वपक्षस्य आशयः।

तत्र सिद्धान्ते पुरुषस्य प्रथमा प्रवृत्तिः आरम्भः इति आरम्भपदार्थः विवक्षितः। अत्र प्रथम-प्रयोगे यदा पुरुषप्रवृत्तिः जायते तदा एव आरम्भशब्दः प्रथमप्रवृत्तिमुपलक्ष्य प्रयुज्यते इति ज्ञेयः। प्रवृत्तप्रयोगस्य पुनः द्वितीयादिप्रयोगे, आवृत्तौ वा पूर्वोक्तपुरुषस्य प्रथमप्रवृत्तिरूपः आरम्भपदार्थः न युज्यते। अत्र “आग्नावैष्णवमेकादशकपालं निर्वपेत् दर्शपूर्णमासावारप्स्यमाणः” इति प्रयोगवचन-श्रवणात् आरम्भणीयेष्टिः अन्वाधानप्रयाजादिवत् दर्शपूर्णमासयोरङ्गभूता न भवितुमर्हति। अतः पूर्वपक्षोक्तवत् अस्याः  दर्शपूर्णमासक्रतूपकारकत्वेन प्रयाजादिवत् प्रतिप्रयोगम् आवृत्तिः नापेक्ष्यते । किन्त्वत्र दर्शपूर्णमासयोरारप्स्यमाणपुरुषसंस्कारार्थत्वेन अस्याः अनुष्ठानमिति स्वीकारे केवल आद्यप्रयोगे एव सकृत् अनुष्ठाने प्रयोगवाक्यस्य सार्थक्यं सिध्यति। तत्र आरप्स्यमाणेन इयमनुष्ठेयेति पुरुषसंयोगात् तत् संस्कारार्थेऽयमिति ज्ञायते। अत्र यावज्जीवं पर्वणि दर्शपूर्णमासेष्ट्या यक्ष्ये इति यावज्जीवकालिकः साङ्गदर्शपूर्णमासानुष्ठानसङ्कल्पः क्रियते। 

आरम्भमीयेष्टौ द्रव्यदेवताविचारः

पूर्वोक्तविधिवाक्यानुसारम् आरम्भणीयेष्ठौ चतस्रः देवताः चत्वारि हवींषि भवन्ति। अग्नाविष्णुभ्यामेकादशकपालपुरोडाशद्रव्यम्, सरस्वत्यै चरुद्रव्यम्, सरस्वते द्वादशकपालपुरोडाशद्रव्यम्, अग्नये भगिने पुरोडाशमष्टाकपालञ्च इति। 

आधानसिद्धाग्निना प्रक्रान्ताग्निहोत्रस्य या पौर्णमासी प्रथमं प्राप्ता सा दर्शपूर्णमासारम्भस्य कालः। तावारप्स्यमाणः सारस्वतहोमपूर्वम् अन्वारम्भणीयेष्टिं कुर्यात् इति आपस्तम्बीय-श्रौतप्रयोगवाक्यम्। 

तत्र प्रथमप्रयोगे प्रवृत्तस्य पुरुषस्य संस्कारसिद्ध्यर्थं प्रधानकर्मारम्भयोग्यतां सम्पादयितुञ्च आरम्भणीयेष्टिरियम् अनुष्ठीयते। अत्र आरम्भणीयेष्टेः सकृदनुष्ठाने एव पुरुषसंस्काररूपप्रधान-कर्मारम्भयोग्यता सिद्धत्वात् प्रतिप्रयोगमावृत्तिः नापेक्षते। अतः आरम्भणीया सकृदेव अनुष्ठेया, कुतः? पुरुषारम्भसंयोगात्। पुरुषस्य दर्शपूर्णमासावारभमाणे “दर्शपूर्णमासयोः आरप्स्यमाणः निर्वपेत्” इत्यादिनात्र निर्वपेत् इति साक्षात् श्रुत्या इष्टेरस्याः कर्तृसम्बन्धः ज्ञायते। अतः प्रयाजादिवत् नास्त्यस्याः क्रतूपकारकत्वम्। तथा च दर्शपूर्णमासयोः आरप्स्यमाणः इत्यनेन पुरुषप्रयत्नवचनं अत्र विवक्ष्यते। इतरथा पूर्वोक्तवत् पदार्थमात्रे विधित्सिते कर्तुः प्रयत्नवचनम् अविवक्षितं स्यात्। अत्र आरम्भणीयेष्ट्या संस्कृतः पुरुषः एव दर्शपूर्णमासयोरनुष्ठाने योग्यो भवति इत्येतावन्मात्रं प्रयोगवाक्यस्यास्य अर्थग्रहणे पुरुषसंस्कारार्थत्वम् आरम्भणीयेष्टिः इति फलं सिद्धं भवति। अतः यावज्जीवप्रयोगे दर्शपूर्णमासयोरारम्भः सकृदेव भवति। तस्मात् तद्योग्यता सम्पादनार्थायाः आरम्भणीयेष्टिरपि सकृदेव अनुष्ठानम् इति भगवता जैमिनिना “सकृद्वाऽऽरम्भसंयोगात् एकः पुनरारम्भो यावज्जीवप्रयोगात्” इत्यनेन सूत्रेण सिद्धान्तितम्।  

तत्र प्रथमप्रयोगे दर्शपूर्णमासयोरारभमाणः कृतारम्भणीयाको जातः चेत्  यावज्जीवप्रयोगे उत द्वीतायादिषु प्रयोगेषु योग्यता सिद्धत्वात् प्रतिप्रयोगम् आरम्भणीयेष्टेः आवृत्तिः नापेक्षते इति फलितार्थः। 

         सूत्रविवरणम् –  अत्र वा शब्दः पक्षव्यावर्तकः यदुक्तमारम्भणीया आवर्तेतेति तन्नयुक्तः सकृदेव कर्तव्या इति सिद्धान्तः। कुत इति चेत् आरम्भसंयोगात् पदमिदं दर्शपूर्णमासयोः आरम्भेण संयुज्यते। अतः यावज्जीव दर्शपूर्णमासयोः आरम्भणीयेष्टेः सकृदनुष्ठानम् इति सिद्धम्।  

ज्योतिष्टोमाङ्गभूतदीक्षणीयादिषु आरम्भणीयेष्टेः बाधविचारः

इतः पूर्वं नवमस्य प्रथमपादे प्रकृतौ दर्शपूर्णमासप्रधानार्थत्वेन तयोरारप्स्यमाणस्य पुरुष-संस्कारार्थत्वेन पुरुषार्थतया विहिता आरम्भणीयेष्टिः अनुष्ठेया। यावज्जीवप्रयोगेषु तस्याः नावृत्तिरिति सुस्पष्टं प्रतिपादितम्। इदानीं  ज्योतिष्टोमाद्यङ्गभूतासु दीक्षणीयादिषु प्रकृतिवत् विकृतिः कर्तव्या इति अतिदेशशास्त्रनियमानुसारं प्राप्तारम्भणीयेष्टेरनुष्ठानविचारः क्रियते ।  तथा हि

अस्ति ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यनेन विहितो ज्योतिष्टोमयागः। स च सर्वेषां यागानां प्रकृतिरिति तु सिद्धं शास्त्रे। तत्र ज्योतिष्टोमप्रकरणे सन्ति दर्शपूर्णमासवैकृतानि दीक्षणीयादीनि कर्माणि “आग्नावैष्णवमेकादशकपालं निर्वपेत्” इत्येवमादीनि। “इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात्” इत्यनेन सूत्रेण निर्वपेदित्यादि सामान्येन सौर्यैन्द्राग्न्यादीष्टिषु दर्शपूर्णमासधर्माः अवश्यमनुष्ठेया भवन्ति। तच्च निरूपितं सर्वासाम् इष्टिनां प्रकृतिः दर्शपूर्णमासाविति विशेषाति-देशाध्याये भगवता जैमिनिना। प्रकृतौ दर्शपूर्णमासेष्ट्यारम्भे आरम्भणीयेष्टिः “आग्नावैष्णवमेकादश-कपालं निर्वपेत्” इत्यादिना विहिता अस्ति। तत्र किम् ज्योतिष्टोमाद्यङ्गभूतदीक्षणीयादिषु अतिदेशप्राप्ता आरम्भणीयेष्ठिरनुष्ठेया उत लुप्तद्वारकत्वात् अननुष्ठेया इति चिन्तायाम्। 

सर्वं प्राकृतं विकृतौ कर्तव्यम्, विधेः प्रकरणान्तरेऽतिदेशात् सर्वकर्मस्यात् इत्यादिना  ज्योतिष्टोमाङ्गभूतदीक्षणीयादीष्टिषु प्रकृतिवत् विकृतिः कर्तव्या इत्याकारक अतिदेशशास्त्रनियमानुसारं चोदकप्राप्तस्य प्राकृतस्य धर्मस्य विकृतिषु परित्यागे मानाभावात् सोमयागाङ्गभूतास्वपि दीक्षणा-यादिषु आरम्भणीयेष्टिः अनुष्ठेया। अतश्च ‘’दीक्षणीयया यक्ष्ये’’ इत्येवं तत्सङ्कल्पात् पूर्वमेव दीक्षणीयाङ्गत्वेन आरम्भणीया कर्तव्या इति पूर्वपक्षे प्राप्ते।

तत्र सिद्धान्तः 

ज्योतिष्टोमाद्यङ्गभुतदीक्षणीयादिषु आरम्भणीयाख्या इष्टिः नानुष्ठेया। तत्र पूर्वपक्षोक्तानुसारम् अनुष्ठाने ज्योतिष्टोमसंबन्धेन क्रियमाणारम्भणीयेष्टिः कस्य संस्कारः इति निरूपणीयः – किम् ज्योति-ष्टोमयागमारप्स्यमाणस्य उत दीक्षणीयाद्यारप्स्यमाणस्य। नाद्यः, ज्योतिष्टोमस्य दर्शपूर्णमासविकृति-त्वाभावेन ज्योतिष्टोमयागमारप्स्यमाणस्य चोदकशास्त्रेण आरम्भणीया नैव प्राप्ता। नापि दीक्षणीया-द्यारप्स्यमाणस्य, यतोहि अङ्गानां पृथगारम्भासम्भवात्। तस्मात् दीक्षणीयादिषु विकृतिषु आरम्भा-ख्यद्वारलोपात् आरमभणीयेष्ठिः नानुष्ठेया।  तच्चोक्तं सूत्रे “इष्टिराम्भसंयोगात्तदङ्गभूतान्निवर्तेतारम्भस्य प्रधानासंयोगादिति” भगवता जैमिनिना दशमस्य प्रथमपादे दीक्षणीयादिषु आरम्भणीयेष्टेः बाधः इति निरूपणावसरे। अत्र दर्शपूर्णमासप्रकरणे पठितारम्भणीयेष्टेरनुष्ठानं केवलं दर्शपूर्णमासयागो-द्देशेन भवति। न सा ज्योतिष्टोमस्य दीक्षणीयादेः अङ्गभूता। ज्योतिष्टोमस्य प्रवृत्तिस्तु ”साङ्गो ज्योतिष्टोमो मे  जायताम्” इत्याकारकेच्छया एव दीक्षणीयया यक्ष्ये इत्येवं प्रकारक संकल्पविषयकप्रवृत्तेरेव सम्भवेन तादृशसंकल्परूपाध्यवसायस्य दीक्षणीयत्वावच्छिन्नोद्देश्यताक-प्रवृत्तिविषयकत्वाभावात् अनुष्ठाने द्वाररूप अर्थलोपात् न ज्योतिष्टोमारम्भे न वा दीक्षणीयारम्भे आरम्भणीयेष्टिः कार्येति सिद्धम्। तथा च आश्रये प्रवर्तमाने तदाश्रितमपि प्रवर्तते इति वचनानुसारं दर्शपूर्णमासप्रकृतिमाश्रित्य विहिता आरम्भणीयेष्टिः तद् भिन्नप्रयोगेषु तद्विकृतिषु वा नानुष्ठेयेति शास्त्रसिद्धान्तः।

अनुयज्ञादिषु आरम्भणीयेष्टेः बाधः   

पूर्वं प्रकृतौ दर्शपूर्णमासेष्ट्यारम्भोद्देश्यकेयमारम्भणीयेष्टिः, तयोरारम्भे एव सकृदनुष्ठेया इति निरूप्य तद्विकृतिषु ज्योतिष्टोमाङ्गभूतदीक्षणीयादिषु पुरुषसंस्काररूपानुष्ठानद्वारलोपात् नानुष्टेयेति साधितम्। इदानीम् अनुयज्ञादिषु अस्यानुष्ठानविचारः क्रियते।

राजसूयेन स्वाराज्यकामो यजेत इति राजसूयाख्यः यागः श्रूयते। राजसूये सन्ति इष्टिपशुसोमदर्वीहोमाः प्रधानभूताः। इदानीं राजसूयेपि दर्शपूर्णमासेष्टिविकृतयः अनुमत्यादयः इष्टयो विहिताः ”अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति” इत्यादिना। तत्र अनुमत्याद्यासु आरम्भणीया कर्तव्या वा न वा इति संदेहे, अनुमत्यादीनां न कस्याप्यङ्गत्वात्तेषां स्वतंत्रारम्भसम्भवे पूर्वोक्तवत् दीक्षणीयादिष्विव बाधकप्रमाणाभावात् आरम्भणीया अनुष्ठेया इति प्राप्ते – 

यद्यप्यङ्गभूता अनुमत्यादयः तथापि एकैकस्या इष्टेः पृथगारम्भो नास्ति। अतः अत्रापि आरम्भरूपद्वारस्य लोपादेव नास्त्यारम्भणीया। तथैव प्राकृतदर्शपूर्णमासप्रयोगबहिर्भावे वैमृधे वा चातुर्मास्याद्यङ्गभूतवैश्वानरपार्जन्याधिकारपश्वादौ वा आधानाङ्गभूतपवमानेष्ट्यादिषु एवं ज्योतिष्टोमाङ्ग-भूतदीक्षणीयामारभ्यावभृथान्तेष्टिष्वपि अनुष्ठानद्वारलोपादननुष्ठेया आरम्भणीया इति सिध्यति । तच्च प्रदर्शितं भगवता जैमिनिना दशमाध्यायस्य प्रथमपादे अनुयज्ञादिषु आरम्भणीयेष्टेः बाधः इत्यस्मि-न्नधिकरणे ”प्रधानाच्चान्यसंयुक्तात्सर्वारम्भान्निवर्तेतानङ्गत्वात्” इति सिद्धान्तसूत्रे।

आरम्भणीयायाम् आरम्भणीयेष्टेः बाधः

इदानीम् अन्ते पुनः एका शङ्का समुदेति – किम् आरम्भणीयायामारम्भणीया कर्तव्या वा न वेति तत्र पूर्वपक्षे  ”तस्यान्तु स्यात् प्रयाजवत्” इति सूत्रेण प्रयाजवत् कर्तव्येति निरूप्य सिद्धान्ते ”न वाङ्गभूतत्वात्” इति सूत्रेण आरम्भणीया दर्शपूर्णमासयोरङ्गभूतास्ति। अङ्गभूतस्य च प्रधानारम्भेणैव सिद्धिः। अतः आरम्भणीयया प्रवृत्तेन दर्शपूर्णमासौ कर्त्तव्यौ इति फलितार्थः निरूपितः। अन्यथा आरम्भणीयायामारम्भणीयेति स्वीकारे व्यवस्थाभावात् अनवस्थाप्रसंगः प्रसज्यते । सूत्रेस्मिन् नवेति शब्दः पूर्वपक्षप्रतिषेधवाचकः इति ज्ञेयः।

आधारग्रन्थाः

 

  1. शास्त्रदीपिका
  2. भाट्टदीपिका – (प्रभाव्याख्या)
  3. जैमिनीयन्यायमाला
  4. मीमांसानुक्रमणिका
  5. श्लोकवार्तिकम्
  6. मीमांसादर्शनम् (शाबरभाष्यम्)
  7. मीमांसान्यायप्रकाश

पादटिप्पणीविवरण्[/vc_column_text][/vc_column][/vc_row]