अभिज्ञानशाकुन्तले रसनिष्पत्तिः

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

अभिज्ञानशाकुन्तले रसनिष्पत्तिः

                                                                                                                                      HEMARAJA.N.S
                                                                                                                              RESEARCH ASSISTANT
                                                                                                                    KARNATAKA SANSKRIT UNIVERSITY
                                                                                                                      CHAMARAJAPETE, BANGALORE-18

                                                                                                                        EMAIL-monihemu85@gmail.com
                                                                                                                                 PHONE-8310719147

       ’भारतस्य द्वे प्रतिष्ठे संस्कृतं संस्कृतिस्तथा’ इति संस्तूयमाना असौ संस्कृतभाषा अस्माकं भारतदेशस्य प्रतिष्ठात्वेन मन्यते । अनितरसाधारणायाः सुरवाण्याः अस्याः साहित्यम् अपारम् अनुपमं च वर्तते । संस्कृतसाहित्ये प्राधान्येन वैदिकसहित्यं लौकिकसाहित्यम् इति भेदद्वयं दृश्यते । लौकिकसाहित्ये काव्यसाहित्यं शास्त्रसाहित्यम् इति पुनः भेदः वर्तते । काव्यशास्त्रयोः उपायभेदे सत्यपि उद्देश्यभेदः नास्ति । धर्मार्थकाममोक्षानां पुरुषार्थानां परिचयः लाभश्च संस्कृतसाहित्यस्य उद्देश्यम् । काव्यसाहित्यं तु विशालं सत् विपुलानां नाना प्रकाराणां काव्यानाम् आश्रयस्थानं भूत्वा सहृदयानां जनानां मनांसि आकर्षयति । काव्यानि कान्ता इव आत्यन्तिकप्रीत्या अनुनयेन च जनान् सन्मार्गे प्रवर्तयन्ति इष्टार्थं च प्रापयन्ति इति हेतोः एतेषां कान्तासंमितम् इति अभिधानम् ।

    संस्कृतसाहित्यस्य प्रधानाङ्गभूते दृश्यकाव्यसाहित्ये अन्यतमः प्रकारः रूपकसाहित्यम् अत्र अध्ययनविषयस्य प्रसङ्गावधानात् ईषत् विव्रियते । 

       आनन्दनिस्यन्दीनि रूपकाणि साहित्यप्रपञ्चस्य अपूर्वरमणीयं योगदानम् । साहित्यमञ्जर्याम् अभिनवं सुगन्धयुक्तं कुसुमं तु रूपकमेव इति मन्यते । अस्मिन् सङ्गीतं, साहित्यम्, अभिनयः इत्यादयः ललितकलाः सामञ्जस्येन सम्मिलन्ति । रूपकाणि आपण्डितपामरम् अनिर्वचनीयम् आनन्दम् उत्पादयन्ति । कल्पनाविलासैः भाववैभवैः सुमनोहरसन्निवेशैः च सहृदयानां हृदयाणि रङ्गस्थलम् इव परिवर्तयति रूपकम् । मानवानां रागद्वेषमदमात्सर्यादिगुणानां परिवर्तनं हृदयावर्जकरीत्या सम्प्रदर्श्य रससुधां समुत्पाद्य चित्तं संशोध्य स्वार्थात् निस्स्वार्थं प्रति नीयमाना दिव्या कला एव रूपकम् । यद्यपि नाटकं रूपकप्रभेदे अन्यतमं सदपि अर्थभेदे स्वरूपभेदे च सत्यपि सर्वेषां रूपकाणां नाटकमिति सामान्यव्यवहारः आबहोःकालादेव लोके दरीदृश्यते । नाटकानां विषये कविरत्नस्य कालिदासस्य वागियं लोकविख्याता । यथा –

                                   देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं
                                   रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
                                   त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते
                                   नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ इति

   नाटकानां स्वारस्यसौन्दर्यास्वादनरताः ’काव्येषु नाटकं रम्यं”नाटकान्तं साहित्यं”नाट्यवेदः’ इत्यादिभिः वाग्भिः प्राशंसत । भासकालिदासभवभूतिप्रमुखाः नाटकानि विरचय्य आचन्द्रार्कं यशोभाजः अभूवन् । यात्रासु उत्सवेषु पर्वसु च रूपकाणि महत्त्वपूर्णं स्थानं भजन्ते स्म । वेदकालादारभ्य अद्यपर्यन्तमपि साहित्यस्य अयं प्रकारः वर्धमानः एव वरीवर्तते । परमशिवः एव आदिनटः । तस्येयं सृष्टिरेव एकम् अद्भुतं नाटकम् इत्युच्यते । तद्यथा –

                                 आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम् ।
                                 आहार्यं चन्द्रतारादि तन्नुमस्सात्विकं शिवम् ॥  इति

नाट्यस्वरूपम् -nature of dramas

      ’नृत्”नट्’ इति उभाभ्यां धातुभ्यां निष्पन्ने नृत्ते, नृत्ये नाट्ये नाटके च नर्तनं समानं सदपि एतेषां परस्परं व्यत्यासः समस्ति । ताललयानुसारि नर्तनम् एव नृत्तम् । तदुक्तं -नृत्तं ताललयाश्रयम् इति । नृत्ते भावप्रकाशनम्, अभिनयः, सङ्गीतं वा भवेदेव इति नियमः नास्ति । नृत्ये तु ताललयसमन्वितं सङ्गीतं भवति । अस्मिन् भावाभिनयः प्रमुखः भवति । तदुक्तं -अन्यद्भावाश्रयं नृत्यं स्यात्  इति । प्रायशः इदं नृत्यम् एकेन एव क्रियते । अस्य सुखदुःखादिभावाः रसत्वेन न परिणमन्ते । नाट्ये अपि नर्तनमस्ति चेदपि ’अवस्थानुकरणं’ प्रमुखं भवति । तदुक्तं -’अवस्थानुकृतिर्नाट्यम्’ इति । यः इदम् अभिनीते सः नटः । असौ नटः वेषभूषादिभिः व्यक्तिमनुकरोति । असौ इतरेषां पात्राणां साहाय्यं प्राप्नोति । नानादृश्यानि परिकल्प्य व्यक्तेः भावं, वृत्तान्तं च अभिनयति । प्रेक्षकाणां रसभोजनं भोजयति ।

         नाट्यमिदं ’रूपम्”रूपकम्’ इति च कथयन्ति । तदुक्तं -रूपं दृश्यतयोच्यते रूपकं तत्समारोपात् इति । नाट्यं तु नृत्यस्य विस्तृतरूपम् । नाट्ये गद्यप्रवेशेन सम्भाषणस्य कथायाः वृद्धये आनुकूल्यं वर्तते । नृत्यगीतवाद्यादिभिः नाटकस्य विशेषकान्तिः लभ्यते । नाटकं यदि गीतमयं भवति तदा तत् गीतनाटकम् इति कथ्यते । अत्र गीतैः सह नाट्यम् अपि भवति ।

पूर्वं नृत्यगीतानि सम्मील्य एतेषाम् अभिनयः क्रियते स्म । कानिचन संस्कृतनाटकानि चम्पूकाव्यानि इव वर्तन्ते । दीर्घसमासभूयिष्ठानि पद्यमयानि च इमानि बृहन्ति नाटकानि प्रदर्शनापेक्षया पठनार्थमेव लिखितानि इव भासन्ते । भरतमुनिः नाट्यशास्त्रे नाट्यांशान् विस्तरेण प्रस्थापयति । नाट्यशास्त्रस्य कारिकायां नाट्यांशानां सङ्ग्रहः वर्तते ।

                                  रसा भावा ह्यभिनयाः धर्मिवृत्तिप्रवृत्तयः ।

                                  चतुर्मुखोऽथवा ब्रह्मा विदुर्नान्ये मादृशा: ॥  इति

अभिज्ञानशाकुन्तले रसनिरूपणं रसनिष्पत्तिश्च –

   रस्यते आस्वाद्यते रसादि: इति रस:। तादृश: रस: नव । रसादि: इति कथनात् रसाभासभावभावाभासादयोऽपि गृह्यन्ते । रसाभासादयोऽपि गौणेन रसशब्देन व्यपदिशति हि । रसनधर्मयोगात् । रसापेक्षया उक्तभावादय: प्रधाना भवन्ति तर्हि ते भावध्वनिरिति आहूयन्ते । एवं काव्येषु रसप्रवाह: भवेत् । प्रस्तुते अभिज्ञानशाकुन्तले नाटके  रस: तत्पोषकगुणालङ्काररीतय: विद्यन्ते । एवं काव्यगुणसम्पन्ने नाटकेऽस्मिन् रसविषयं विमृशाम: । नाटकलक्षणे मुख्यरस: शृङ्गारो वीरो वा भवेत् अन्ये हासादयो अङ्गा: भवेयु:  इति नियमो अस्ति । तद्वत् अस्मिन् शाकुन्तले शृङ्गार: प्रधान: भवति शाकुन्तले रसचिन्तनं प्रस्तुतं वर्तते । नाटकं ख्यातवृत्तं स्यात् इत्यादि नाटकलक्षणमत्र अभिज्ञानशाकुन्तले समन्वीयते इति तत् नाटकमिति सिद्धयति । रसविषये नाटकलक्षणो इदमुक्तम् –

                                       एक एव भवेदङ्गी शृङ्गारो वीर एव वा ।

                 अङ्गमन्ये रसा: सर्वे कार्यो निर्वहणोऽद्भुत: ॥ (ना.अ-१-२२)

       शृङ्गारवीरयो: द्वयो: कश्चन एकरस: प्रधान: स्यात् । तौ विहाय अन्ये रसा: अङ्गं भवेयु: । तद्वत् अत्रापि प्रधानरसश्चिन्तनीय: । इह हि शृङ्गाररस: प्रधान: । वीरहासशान्तादयो अङ्गरसा: । अत्र वीरादीनां कस्मिंश्चिदपि अङ्कप्राधान्यं नास्ति । केषुचित् नाटकेषु अङ्गरसा ये सन्ति ते क्वचित् अङ्केषु प्राधान्यमावहन्ति । किन्तु अत्र तथा कस्मिंश्चित्  अङ्के तेषामङ्गरसानां प्राधान्यं न सन्ति । किन्तु तत्र तत्र अङ्कमध्ये अङ्कान्ते वा एते दृश्यन्ते । पूर्णाङ्कव्यापी न कोऽपि अङ्गरसो वर्तते अत्र अभिज्ञानशाकुन्तले । इह नाटके विविधभावा: प्राधान्येन आस्वाद्यतामाप्नुवन्ति । पितरि सुतागतरति: संख्या सखीगत रते: शिष्ये गुरुगतरति: गुरौ शिष्यगतरति: च व्यज्यते प्राधान्येन तस्मात् तादृशीरति: भावध्वनि: इति स्वीक्रियते । सोऽपि रसः इति व्यपदिश्यते । अलङ्कारशास्त्रे रसादिरिति पदकुक्षौ रसाभासभावताद्रसाभासादय: उक्तत्वात् प्रधानतया व्यज्यमानो भावोऽपि रसत्वेन व्यवह्रियते ।  एवञ्च भावादयोऽपि प्रधानरसपोषका: भूत्वा अङ्गानि सन्ति । तेषां भावध्वनिरिति नाम्ना आहूयते शास्त्रकारै: । पूर्वमेव उक्त: प्रधानरसो शृङ्गारो अभिज्ञानशाकुन्तले । स च शृङ्गार: विप्रलम्भ: सम्भोगश्चेति द्विधा विभज्यते । इह नाटके सम्भोगशृङ्गार: अङ्गिरस: । स च विप्रलम्भशृङ्गारेण परिपुष्टस्सन् शोभते । एतस्मात् अत्र विप्रलम्भोऽपि आस्वाद्यमानो अस्ति । प्रथमाङ्के दुष्यन्तशकुन्तलयो: परस्परदर्शनं सञ्जातम् । तद्द्वारा द्वयो: शृङ्गाराङ्गारो अभवत् इति सम्भोगशृङ्गार इति वदाम: । द्वितीयाङ्के विप्रलम्भशृङ्गार: विदूषकवचनेषु हास्यरसोऽपि अस्ति । तृतीयाङ्के विप्रलम्भशृङ्गार: सम्भोगशृङ्गारश्च विलसति । तत्र तत्र विविधव्यभिचारिभावा अपि ध्वनिपदं यान्ति । चतुर्थाङ्के पितृगतरते: सखीगतरतिश्च प्रधानतया व्याज्यमाना भावध्वनित्वेन व्यवह्रियते । केचन अत्र भ्रमवशात् करुणरस इति वदन्ति । परं तत् असाधु: । पित्रा सुताया: पतिगृह प्रमाणम् सुतरामिष्यते न तु खिद्यते । तत्समये जात दु:खं तात्कालिकं शाश्वदिकं न । शश्वदिके दु:खे करुणरसवास: । पतिगृहप्रेषणावसरे पितृगतसुतविषयकरतिरेव युज्यते इति स: रतिभावध्वनिरिति मन्येत । लोके न कोऽपि पिता जीवनान्तं सुताया: पतिगृहप्रेषणं शोचति । एवं च चतुर्थेङ्के करुणरसशङ्का अपास्ता । पञ्चमाङ्के न कोऽपि रस: प्रधानतया अभिव्यज्यते । अत्र दुष्यन्तशार्ङ्गरवयो: वाक्‌कलह: वर्णित: । अपि च शकुन्तलाया: विषादो वर्णित: । परमत्र अमर्षचिन्ता विषाद ग्लानि निर्वेदादिभावा: प्रधानतया अवगम्यन्ते । पञ्चमाङ्के अन्ते अद्भुतरस: आस्वाद्यते । षष्ठे अङ्के विप्रलम्भशृङ्गार: प्रधानतया अभिव्यज्यते । तद्विप्रलम्भशृङ्गारं हास्यरस: पोषयति । विदूषकवचने हास्यरसानुभूति: भवति । वीराद्भुतरससम्बन्धिनो विविधभावा अपि तत्र तत्र अनुभूयन्ते । सप्तमोङ्के दुष्यन्तशकुन्तलयो: समागमो जायते । तस्मात् विप्रलम्भ: सम्भोगशृङ्गारे विश्रान्तिं गच्छति । अत्र शृङ्गारेण सह शान्तरसोऽपि दृश्यते । एवमेव वीररससम्बन्धिभावा अपि सन्तीति वयं वदाम: । कश्यपमहर्षे: शकुन्तलाविषयकपुत्रिकारति: राज्ञि महर्षिगतरति: पुत्रविषयकरतिरित्यादि रतिरेव विवाधालम्बने सदयगोचरो भूत्वा रतिभावध्वनित्वेन अनुभूयते । अन्तिमाङ्के विविधभावा: दृष्टिपथमायाति । एवमेव समग्रनाटके शृङ्गाररसेन सह विविधभावा प्रधानाप्रधानरूपेण अनुभूयते । 

प्रथमाङ्के दुष्यन्त: शकुन्तलां दृष्ट्वा तत्र वर्तमानयो: सख्यो: वचनं च श्रुत्वा तत्सङ्गतिमेवम् आह –

                                अधर: किसलयराग: कोमलविटपानुकारिणौ बाहू ।

                                कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥ (अ.शा.अ-१-२७)

        शकुन्तलाया: अधर: किसलयरागयुक्तोऽस्ति । बाहू मृदुशाखानुकारिणौ भवत: । कुसुममिव लोभनीयं यौवनं विजृम्भितं प्रकटितम् तस्या: । सख्या प्रियंवदया पूर्वं उक्तमस्या: लतासादृश्यं युज्यते एव । इति दुष्यन्तस्य आशय: । अत्र नायकस्य दुष्यन्तस्य नायिका शकुन्तला आलम्बनविभाव:, उद्यानवनपरिसरनायिकासौन्दर्याणि नायिकाविषयसखीवचनानि च उद्दीपनविभाव:, हर्षोत्साहावहित्था: व्यभिचारिण:, एतेषां विभावादीनां संयोगात् रतिस्थायिभाव: सामाजिके प्रकृष्टोद्बुद्धस्सत् शृङ्गाररसमाप्नोत् । अत्र नायिकागुणकथनादिविप्रलम्भस्य उदाहरणं भवति । अत्र उपमालङ्कार: आर्यावृत्तं च उपमालङ्कारं प्रकृतरसं पोषयति । वैदर्भी रीति: प्रसादगुणं च सहकारिणौ रसास्वादने कर्मणि । पूर्वोक्ताङ्के एव तस्मिन्नेव सन्दर्भे च शकुन्तलारूपं दृष्ट्वा तस्या: परिचयं सरवीभ्यां ज्ञात: दुष्यन्त वर्णयति ताम् । तद्यथा –

                                             मातुषीषु कथं वा स्यादस्य रूपस्य सम्भव: ।

                                    न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥(अ.शा.अ-१-२८)

          शकुन्तला अप्सरसम्भवा इति सखीमूलकेन ज्ञायते दुष्यन्तेन । तत्समर्थयन् उपरिवत् वर्णयति । मानुषिषु एतस्य लोकोत्तरसौन्दर्यादिगुणगणविशिष्टस्य शकुन्तलारूपस्य सम्भव: कथं स्यात् ? तादृग् सौन्दर्यं मातुषस्त्रीजातकन्यासु न दृश्यते इति । प्रभातरलं वसुधातलात् न उदेति खलु यथा प्रकाश: भूमेनोदिति  तथेयं शकुन्तला न मनुष्यसम्भवा, अप्सर: सम्भवा एव इति भाव: । अत्र नायकस्य दुष्यन्तस्य शकुन्तला आलम्बनविभाव:, एवं नायिका शकुन्तलाया: दुष्यन्त आलम्बनविभाव:, वनसखीवचननायिकासौन्दर्यं उद्दीपनविभाव:, रोमाञ्चाभिलाषनायिकागुणकथनपरस्पर्शदर्शनादि अनुभाव:, हर्षोत्साहधृतिमतिलज्जादयो व्यभिचारिणो भावा: , एतै: विभावानुभावव्यभिचारिभावै: साधारण्येन व्यापारेण अभिव्यक्त: सामाजिकरतिभाव: शृङ्गाररसरूपम् आप्नोति । अत्र दुष्यन्तवचने सत्यपि अत्र परस्पररति: प्रकरणवशात् ज्ञायते इति कृत्वो परस्परालम्बनविभावत्वम् अस्तीति अयं सम्भोगशृङ्गार: यद्यपि लज्जाव्यभिचारिभाव: श्लोकेन नावबुध्यते तथापि श्लोकानु प्रसङ्गात् इति तस्य स्वीकरणमत्र न दोष: । एवं च सम्भोगशृङ्गाररसप्रतीतौ न कापि हानिरत्र श्लोके । नायिकानायकयो: शकुन्तलादुष्यन्तयो: परस्परालम्बनविभावत्वं प्रकरणवशात् आनुपूर्विकथासञ्चलनात् च अवगम्यते इति स्पष्टम् । अत्र निदर्शनालङ्कार: अनुष्टुप् छन्दश्च वैदर्भीरीति: प्रसादगुणश्च रसप्रतीतौ सहकारिण: । एतत्सर्वं महाकविना औचित्यपूर्णम् उपन्यस्तम् ।

प्रथमाङ्के उक्तप्रसङ्गे शकुन्तलाविषयकं ज्ञातुकामो दुष्यन्त: सखीमुद्दिश्य कथयति इदम् –

                                               वैखानसं किमनया व्रतमाप्रदानाद्-

                                      व्यापाररोधिमदनस्य निषेवितव्यम् ।

                                       अत्यन्तमेव मदिरेक्षणवल्लभाभि-

                                       राहो निवत्सस्यति समं हरिणाङ्गनाभि: ॥ (अ.शा-१-२९)

        अनया शकुन्तलया मदनस्य व्यापाररोधि मुनिकाव्यकोचितं ब्रह्मचर्यं वैखानसव्रतं विवाहविधि: यथावद् अनुष्ठेयम् किम् ? उताहो मदिरेक्षणवल्लभाभि: हरिणाङ्गनाभि: समं आमरणं निवत्स्यति किम् ? विवाहविधि ब्रह्मचर्यमस्या आहोस्वित् किमपि यावज्जीवमेव नैष्ठिकब्रह्मचर्यपूर्वकं स्वसदृशीभि: मृगाङ्गनाभि: सह निवासं करिष्यतीति भाव: । अयमर्थ: अत्र ध्वनितो भवति यत् यदि एषा कस्मैचित् राज्ञे प्रदेया तदा विवाहपर्यन्तमेव तपोवने स्थास्यति, यदि न कस्मैचित् तपस्विने प्रदेया तर्हि मृगमिथुनवत् कामोपभोगरहिता वने एव स्थास्यति इति । अयं वस्तुध्वनि: । अत्र नायकस्य दुष्यन्तस्य शकुन्तला नायिकाया: शकुन्तलाया: दुष्यन्तश्च परस्परमालम्बनविभाव: । वनसखीवचननायकनायिकापरस्परदर्शनश्रवणादीनि उद्दीपनानि, नायके अभिलाषचित्तोद्वेगगुणकथनादि: नायिकायां लज्जाकृतककोपनयकदर्शनाकाङ्क्षासविलासदिश्च  अनुभावा:, द्वयो: नायकनायिकयो: हर्षोत्साहतर्कलज्जाऽवहित्थादयो व्यभिचारिभावा:, एतै: विभावादिभि: परिपुष्ट: रतिस्थायिभाव: सामाजिको शृङ्गाररसतामेति । स च सम्भोगशृङ्गार: रते: नायिकानायकोभयनिष्ठत्त्वात् परस्परदर्शनादिकृतत्वाच्च । अत्र केवलं दुष्यन्तवचने सत्यपि अत्र परस्पररति: प्रकरणवशात् आनुपूर्विकथासञ्चालनात् च अभिव्यज्यते । तस्मात् सम्भोगशृङ्गाररसप्रतिपादने न कापि क्षति: । पुर्वमत्र वस्तुध्वनिरपि कथित: सोऽपि वस्तुध्वनि: व्यञ्जनया गम्यते । प्रथमाङ्के शकुन्तलाविषयकसखीवचनं श्रुत्वा दुष्यन्तस्य स्वगतोक्ति: यथा-

                                भव दय साभिलाषं सम्प्रति सन्देहनिर्णयो जात: ।

                               आशङ्कसे यदग्नि तदिहं स्पर्शक्षमं रत्नम् ॥ (अ.शा-१-३०)इति

          अथ प्रियंवदोक्त्या शकुन्तलाया राजकन्यात्वानुरूपवरप्रदानविषये कुलपते: कण्वस्य संकल्पं श्रुत्वा तस्मात्परिग्रहयोग्यां निश्चित्य प्रियशङ्काकातरं स्वदयं सहर्षमेवमाह- हे दय ! सम्प्रति किमियं मद्योग्या न वेति सन्देहो निवृत्त: । अत: त्वं यथेष्टमेवामभिलषा यत् पुरोदृश्यमानं शकुन्तलावस्तुरूपम् अग्निम् आशङ्कसे तदिदं वस्तु स्पर्शक्षमं रत्नमस्ति ।

नेयं ब्राह्मणकन्यका क्षत्रियाप्सरोभ्यां सम्भवा , मत्परिग्रहणयोग्या च इति निश्चय: अभूत् इति भाव: ।

                अत्र नायकस्य दुष्यन्तस्य नायिका शकुन्तला आलम्बनविभाव:, वननायिकासौन्दर्यतद्विषयसखीवचनदर्शनादि: उद्दीपनविभाव:, अभिलाषहर्षमतिधृत्युत्साहादय: व्यभिचारिण:, एतै: विभावादिभि: परिपुष्टरति: सामाजिके शृङ्गाररसताम् आप्नोति अयं शृङ्गार: सम्भोग: ।

यद्यपि दुष्यन्तस्य स्वगतोक्तौ सत्यमपि नायिकाप्रत्युक्त्त्यभावे नायिकायां शकुन्तलायां नायकनिष्ठरति: प्रकरणवशात् स्वयं तस्या: उपस्थिते: च अभिव्यज्यते इति कृत्वात्र सम्भोगशृङ्गार: । परस्पररतिरूपो स इति ज्ञेय: । अत्र काव्यलिङ्गालङ्कार: जाति: आर्या च ।

प्रथममोऽध्याये शकुन्तलाविषये दुष्यन्तस्य उक्ति: सखी प्रियंवदाम् । सेयं यथा –

                        स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा-

                        दद्यापि स्तनवेपथुं जनयति श्वास: प्रमाणाधिक: ।

                        बद्धं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं

                        बन्धे स्रंसिनि चैकहस्तयमिता: पर्याकुलामूर्धजा: ॥ (अ.शा.अ-१-३१)इति

वृक्षाणां सेचवादव्यन्तं परिश्रान्ताया: शकुन्तलाया: परिश्रमलक्षणाति वर्णयति राजा दुष्यन्त:- घटोत्क्षेपणात् अस्या: शकुन्तलाया: बाहू अवनतौ स्त: । करतलौ अत्यन्तं लोहितौ सञ्जातौ । घटोत्क्षेपणादेव प्रमाणेन अधिक: निश्वासवायु: वृक्षसेचनकार्ये अवसितेऽपि स्तनयो: कम्पं जनयति । वदने कर्णाभरणं शिरेषुपुष्परोधि स्वेदजलानां जालकं संस्क्तं दृश्यते । स्वेदजलेन कर्णशिरीषं गण्डस्थले आसक्तं सत् तथा न तरलितं भवतीति स्वेदोदकस्य कुसुमरोधकत्वं स्फुटम् । अत्र दुष्यन्तस्य नायिका शकुन्तला आलम्बनविभाव:, वननायिकासौन्दर्यदर्शनसखीवचनानि उद्दीपनविभावा:, अभिलाषानन्दगुणकथनसौहित्यवचनानि अनुभावा:, हर्षोत्साहमतिधृतिशङ्कादयो व्यभिचारिभावा:, एतै: विभावादिभि: उद्बुद्ध: रतिस्थायिभाव: सामाजिके शृङ्गाररसताम् एति । रते: दुष्यन्तशकुन्तलयो: नायकनायिकयो: उभयनिष्ठत्वात् सम्भोगशृङ्गार: अयम् । 

             एवञ्च –

                    मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।

                मुखमंसविवर्ति पक्ष्मलाक्ष्या: कथमप्युन्नमितं न चुम्बितं तु ॥(अ.शा.अ-२-४३)

       गौतम्यागमनेन विहिनतमनोरथाया: शकुन्तलाया: ताभि: सह प्रस्थाने कृते तमेव शकुन्तलापरिभुक्तमुक्तं लतामण्डपमुपेत्य दीर्घं नि:श्वस्य राजा दुष्यन्त: ब्रवीति पक्ष्मलाक्ष्या: अङ्गुल्या संवृतमधरोष्ठं मा मा नहि नहि अलमित्यादिनां प्रतिषेधाक्षराणां स्फुटमनुच्चारणेन सुन्दरं मुहुर्मुहु: स्कन्धपरावर्तनशीलं मुखं मया (दुष्यन्तेन) अतिकृच्छ्रेण चुम्बनार्थमुन्नमितं न तु यथेच्छं चुम्बितम् । गौतम्या आगमनात् अधरास्वादो न लब्ध: । अत्र नायकस्य दुष्यन्तस्य शकुन्तला आलम्बनविभाव:, लतामण्डपनदीतीरवातावरणसुरतानुकूलैकान्तनायिकोपस्थितिनिर्गमनानि उद्दीपनविभावा:, सम्प्रलापोच्छावासनि:श्वासस्वेदरोमाञ्चा: अनुभावा:, हर्षोत्साहावेगोन्मादविषादा: सञ्चारिभावा:, एतेषां विभावादीनां संयोगात् रतिस्थायिभाव: सामाजिके शृङ्गाररसतामाप्नोत् । अत्र सम्भोगशृङ्गार: । नायिकाया: क्षणात् पूर्वपरिभुक्ति:, सद्यो निर्गमनं नायके तस्या: गाढानुराग: विघ्नरहिते इतोऽपि परिभोगासक्ति: च प्रकरणवशात् प्रतीयन्ते तथा च नायिकानिष्ठनायकरते: विच्छित्यभाव: मानसिकसंयोगश्च वर्तते इति कृत्वा अत्र सम्भोगशृङ्गार: । अभिज्ञानशाकुन्तले नाटके शान्तरसोऽपि वर्तते । सप्तमाङ्के कश्यपाश्रम: तद्विषयो विद्यते । अत्र केचन श्लोका: शान्तरससम्बद्धा: शान्तरससरतद्धनिर्वेदादिभावयुक्ता: सन्ति । दुष्यन्त: मातलिना सह हेमकूटस्थं कश्यपाश्रममवतरति आकाशमार्गेण तदा कश्यपस्य तप: तदाश्रमपरिसरं च बहुधा प्रशंसते । तत्कालिक: श्लोकोऽयम् –

                                 प्राणानामतिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने

                                तोये काञ्चनपद्मरेणुकपिशे घर्माभिषेकाक्रिया ।

                                ध्यानं रत्नशिलातलेषु विबुधस्रोसंनिधौ संयमा

                                यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ (अ.शा.अ-७-५७)

    महर्षे: कश्यपस्याश्रमावलोकेन सर्वतो विस्मयमनुभवन् राजा दुष्यन्तो मातलिं वदति – सत्कल्पवृक्षे वने तपश्चरणयोग्या जीवधारणं भवति वायुना । काञ्चनपद्मानां परागै: पिङ्गलवर्णे तोपे घर्माय अभिषेकस्य विधि: भवति । रत्नानां शिलातलेषु ध्यानं भवति । अप्सरसां सन्निदौ इन्द्रियनिग्रह अभ्यस्यते । अन्ये मुनय: कृच्छ्रै: तपोभि: यद् यद् वस्तु स्वर्गादिकं वा इच्छन्ति तादृशो अपि वस्तु मध्ये अस्य आश्रमस्य मुनय: तपस्यन्ति अन्यमुनिभि: कश्यपाश्रम: तस्य मुनयश्च भिन्ना: दृश्यन्ते स्वविशिष्टगुणैश्च इति श्लोकस्य तात्पर्यम् ।

             अत्र दुष्यन्तस्य वचनस्य आलम्बनविभाव: कश्यपाश्रम: विशिष्टतपोगुणमुनय: आश्रमवातावरणम् उद्दीपनविभाव:, रोमाञ्चहर्षप्रसन्नता: अनुभावा:, हर्षविस्मयोत्साहादय: व्यभिचारिभावा:, एतेषां विभावादीनां संयोगात् शमस्थायीभाव: सामाजिकानां सामाजिकेषु साधारणीकरणमाप्त्वा शान्तरसतां भजते । अत्र कश्यपाश्रम आलम्बनविभाव इति उक्त: समग्राश्रमवर्णनात् । आश्रमवातावरणपावित्र्य विशिष्टाय कारणं कश्यपप्रभाव: । शान्तरसस्य स्थायिभाव: शम: । अतिधवलवर्ण: श्रीनारायण: देवता च । शमस्थायीभावस्य आधार: उत्तमप्रकृति: स्यात् । वैराग्यं परमात्मवस्तुनियत्वं यत्र त्र शान्तरसोऽयमास्वाद्यते ।

अभिज्ञानशाकुन्तले महोन्नतनाटके विविधरसभावा: सन्ति चेदपि समग्रप्रबन्धात्मकदृष्ट्या विचारयाम: चेत् अत्र प्रधानरस: शृङ्गार: । कारणं तस्य उपरि विवृतम् । तं सम्भोगं विप्रलम्भ: परिपोषयति । अङ्गरसा: विविधभावा: च आस्वाद्यन्ते । विविधरसभावानां सन्ततप्रवाहेन नाटकमेकम् आस्वाद्यते खलु । प्रकृते शाकुन्तले रूपके उक्तसर्वांशकारणात् एतत् प्रसिद्धनाटकमिति सर्वै: पण्डितपामरै: परिगण्यन्ते । एवञ्च अस्मिन् नाटके अनेके रसाः अङ्गभूताः सन्तः श्रुङ्गारं परिपोशयन्ति । अतः इदं नाटकं सहृदयानन्दोत्पादकं काव्यमिति विदुषां अभिप्रायः ।

परामर्शनग्रन्थाः

१. श्रीकृष्णमणि: त्रिपाठी – अभिज्ञानशाकुन्तलस्य विमला-चन्द्रकला-संस्कृतहिन्दीव्याख्यानम्

२. ध्व्न्यालोकः आनन्दवर्धनः, चौकम्बा पब्लिकेशन्स्, वाराणसी, १९८०

३. साहित्यदर्पणः, विश्व्नाथः, चौकम्बा पब्लिकेशन्स्, वाराणसी, १९७५

४. काव्यप्रकाशः, मम्मटःचौकम्बा पब्लिकेशन्स्, वाराणसी,२०००

५. अभिज्ञानशाकुन्तलम्, कालिदासः, चौकम्बा पब्लिकेशन्स्, वाराणसी, २००३

६.रामायणम् – वाल्मीकिमुनिः, परिमलपब्लिकेषन्स्, दिल्ली, १९९१ ।

७. वृत्तरत्नाकरः – केदारबट्टः, लक्ष्मीवेङ्कटेश्वरप्रेस्, कल्याण, मुम्बई, १८५० ।

[/vc_column_text][/vc_column][/vc_row]