अनेकन्ताअनुबन्धाः इतिपरिभाषाविचारः

[vc_row][vc_column][rev_slider_vc alias=”about-3″][vc_column_text el_class=”articles”]

॥अनेकन्ताअनुबन्धाः इतिपरिभाषाविचारः॥

प्रसन्नभट्टः
शोधच्छात्रः
कर्णाटकसंस्कृतविश्वविद्यालयः
बेङ्गळूरु 

यथोद्देशंसंज्ञापरिभाषम्, तथाकार्यकालंसंज्ञापरिभाषम् इति परिभाषाद्वयञ्चनिरूप्यतत्समनन्तरमेवअवयवानवयवविषयंनिरूपयितुमुपक्रमते “अनेकान्ताअनुभन्धाः”इतिपरिभाषेन्दुशेखरे।अनुबन्धत्वञ्चआचर्यकर्त्रकलक्षसमवायातिरिक्तकर्यसमर्पकोच्चारणविषयत्व- म् ।अनूपसर्गपूर्वकाद्बन्धधातोः र्घञ्प्रत्यये सति निष्पन्नोऽनुबन्धशब्दः।अनूपसर्गोऽप्राधान्यार्थद्योतकःतेनोक्तलक्षणंसिद्धम्।क्तप्रत्ययादौआचर्येणककारादयःभूतमित्यादौलक्ष्येसमवेताःभवन्त्वितीच्छयानोच्चारिताःकिन्तुतकारादयःएवतदृशेच्छयोच्चारिताः।इत्थंभूतमित्यादौलक्ष्येसमवायदतिरिक्तस्यकार्यस्यगुणादिप्रतिषेधात्मकस्यकार्यस्यसम्पादनायकृतोच्चारणविषयत्वंककारादौवर्ततइतितेषामनुबन्धत्वंसंगतम्।अत्रलक्षणेपाणिन्यादितिपदंआचार्यादिविशेषणरूपेणननिवेशनीयम्।पाणिनेःपूर्ववरिभिराचार्यैरपिस्वस्वव्याकरणेऽनुबन्धाःकल्पिताः।

अत्रअनुबन्धेअनवयत्वंप्रदर्शयितुंअत्रएवमनुमीयते।अत्रैकःप्रश्नःसमुद्भवति, “सन्” इत्यत्रनकारःसन्इत्यस्यअवयवोवानवाइति।अथवासकारस्यअवयवःवाउतनइति।प्रश्नस्यास्यउत्तरन्तुकेवलश्रवणादेवज्ञायते।किमर्थमित्युक्तेसन्शब्देस्-अ-न्इतित्रयःवर्णाःसन्ति। तथासशब्देस्तथाअइतिद्वौवर्णौस्तः।प्रश्नस्यास्यउत्तरम्एवंअस्ति, सन्देहःनकेवलंनकारस्यअवयवत्वानवयवत्वेकिन्तुप्रश्नःएवंवर्ततेसन्शब्दस्यबोधकत्वंसशब्देवर्ततेवाइति ? जुगुप्सतेइत्यादिप्रयोगेसशब्दस्यप्रयोगःविद्यतेतथैवगुप्तिज्किद्ब्भ्यसन्इतिसूत्रेऽपिसन्शब्दस्यप्रयोगःकृतः।सन्दर्भेस्मिन्सन्शब्देबोधकतावर्ततेचेत्नकारस्यापिबोधकावयवत्वंसिद्यतितथैवसकारेबोधकत्वंउक्तंचेत्नकारस्यबोधकानवयवत्वंभवति।अतःनकेवलंश्रवणादेवसन्देहःपरिह्रीयते।इतोप्यग्रेएवंवदति –

अनेकान्ताअनवयवाइति

अनुशब्दस्य पश्चादर्थद्योतकत्वं प्रसिद्धम् । णादयश्च अणादिप्रत्यये अकारादौ वृद्यादिकार्यार्थमाचार्येण भाविकार्यादर्शिना कल्पिते पश्चान्निबद्धाः । यत्र च डुपचष्पाके इत्यादौ अनुबन्धे डुशब्दे दैशिकपूर्वत्वं दृश्यते तत्रापि कालिकपरत्वमस्त्येव आचार्यस्य कल्पनायां पच् धातोः स्थितिः प्राक्कालिकी ’डु’ इत्यस्य  ’ष्’ इत्यस्य च तत्तत्कार्यविशेषं सम्पादयितुं सयोजनमुत्तरकालिकमिति वस्तुस्थितेः । 

लक्ष्ये श्रवणातिरिक्तकार्यसमर्पका इत्संज्ञका अनुबन्धाः । ते बोधकानामवयवा अनवयवा व्र्ति सन्देहः उद्भवति । तत्रानुमानेन निर्णीयते – अनुबन्धाः बोधकानवयवाः बोधकावयवत्वेनोपलब्धविषयत्वाभावात् । अनुबन्धाबोधकावयवत्वेनोपलब्धिविविषयत्वा- भाववन्तः, तदर्थभूते विषये कदाप्यदर्शनात् । यो ह्यवयवः स कदाचित् विधेये उपलभ्यते यथा तिपि इकारः सुपि च उकारः ’भवति’ रमासु , इत्यादौ उपलभ्येते एषोनुबन्धस्तु न तथा, तिप्सुबाधौ पकारस्य क्वाप्यनुपलब्धेः । पक्षे हेतुरस्ति नवेति सन्देहाभावार्थं हेतोः साधकमत्र हेत्वन्तमुपन्यस्तम् । गुणघटके गकारे हेतोः सत्वाद् व्यभिचारस्तु न शङ्क्यः स्वघटितपदघटक – यावद् –वृत्तिश्रावण – प्रत्यक्ष विषयतावच्चेदकधर्मावच्चिन्नविधेयताप्रयोजकपदानवयवत्वस्य साध्यत्वेनाव्यभिचारात् । 

 श् इत् यस्य स शित् क् इत् यस्य स कित् इत्यादौ समासे न स्यात् शकारस्यानवयवत्वेन यस्येत्यत्र षष्ठ्यभावादिति तु न वाच्यम् । शित्वादिकार्यसम्पादनाय समीपेऽवयवत्वारोपेण समासादि सम्भवात् । तेन यस्य समीपे शकार इत् स औशादिः शित्पदग्राह्यः । न च एवं वुञ्छण्कठ…. (४.२.५०) इत्यत्र श्रुतणित्वप्रयुक्तं कार्यं छप्रत्यय इव कप्रत्यये कृतेऽपि प्राप्नोति णकारस्योभयोः समीपवर्तित्वात् तथाच कार्शाश्वीयमित्यत्रेव ऋश्यकमित्यत्रापि तद्धितेश्वचामादेः (७.२.१७१) इति व्रुद्ध्यापत्तिरिति वाच्यम् । प्रमाणे द्व्ययसज्दग्नज्मात्रचः (५.२.३७)  इत्यत्र कृतेन दघ्नचश्चकारेण तदनुबन्धकृतं कार्यं तत्पूर्वस्यैव न तत्परस्येति ज्ञापनात् । अन्यथा द्वयसचश्चकारेणैव दघ्नचोऽपि चित्वसिद्धौ दग्नचश्चकारकरणं व्यर्थं स्यात् । न चैवं शपोऽकारः शिन्न स्यात् शकारानुबन्धादकारस्य पूर्ववर्तित्वाभावादिति वाच्यं सर्वेषामनुबन्धानामनुबन्धघटिताद् बोधकाद् पश्चाद्भावितत्वात् । अर्थात् भवतीत्यादिसिद्ध्यर्थमकारः प्रथममाचार्येण कल्पितः ततस्तस्य सार्वधातुकवसम्पादनार्थं तत्र शकारानुबन्धः पश्चान्निबद्धः तत्रापि पित्सार्वधातुकत्वसम्पादनाय पकारो निबद्धः । इत्थं सर्वे बोधका अनुबन्धात् पूर्वकालिका एवेति तात्पर्यम् । अत एवानुबन्धेत्यत्रानूपसर्गः पश्चादर्थद्योतकस्तत्र सार्थकः ।अत्र एका शञ्का समुदेति “हलन्त्यम्” इति सूत्रेयः अन्त्ये विद्यमान शब्दः वर्तते तस्य शब्दस्य अर्थस्तु एवं वर्तते अन्त्यावयवः इति । अतः हलन्त्यमिति सूत्रे उपदेशे अन्त्यावयवस्य इत्संज्ञा विधीयये । व्याख्याने सिद्धमेतत् सन् इत्यस्य नकारः तस्य अवयवः नेति । सन्दर्भेस्मिन् अन्त्ये विद्यमान नकारस्य इत्संज्ञा कथं भवति । यदि सन् निरूपित अवयवत्वस्य आरोपः क्रियते चेत् इत्संज्ञाकरणमपि न सम्भवति । किमर्थमित्युक्ते ’शित्’, कित्’ ,’णित्’आदि इत्घटितधर्मे अतिदेशं कर्तुं अवयवत्वस्य आरोपः कृतम् । हलन्त्यम्इतिसूत्रेऽपिविषयस्यास्यप्रस्तुतिःनास्त्येव । किन्तु हलन्त्यम् इति सूत्रेन इत्संज्ञा विधीयते एव । अतः अत्रापि अवयवत्वस्य आरोपः असम्भवः । विषयेस्मिन् ग्रन्थकारः एवमाभिप्रेति हलन्त्यमिति सूत्रे अन्त्यमिति शब्दः परसमीपबोधकः इति । अतः उपदेशे परसमीपस्थस्य इत्संज्ञा विधीयते । अतः उपदेशे परसमीपस्थस्य इत्संज्ञा विधीयते अतः उपर्युक्त निराकरणन्तु सिद्धमेव । 

अन्यत्र व्यख्याने एवमुक्तम्

 एकान्ता अवयवा न एकान्ता अनेकान्ता अनवयवा इत्यर्थः । ननु च यः सम्बन्धो यस्य यत्रैव दृश्यते नान्यत्र स तयोरवयवावयवयविभावलक्षणो दृश्यते वृक्षशाखयोरिव । बलकायास्तु वृक्षेण यः सम्बन्धः संयोगाख्यः सोऽन्यत्रापि दृष्टत्वान्नैवं विधः प्रकृते च वुञ्ण्कटेत्यादौ णकारः पूर्वसम्बन्ध्येवेति व्याख्यानाल्लब्धेनासौ सम्बन्धोऽन्यत्र वक्तुं शक्य इत्यनुबन्धानमेकान्तत्वं न्यायप्राप्तम् । सत्यं न्यायप्राप्तमुदीचां माङ् इति सानुबन्धकस्यात्व भूतस्य निर्देशेन तु बध्यते । मेङित्यवस्थायां ङकारसत्वे आदे च उपदेश  इत्यात्वाप्रसक्त्या तदसङ्गतेः ।

यत्वनेकाल्शिदिति सूत्रे शिद्ग्रहणेन नानुबन्धकृतमनेकान्तत्वमिति ज्ञापनादेकान्त पक्षेऽपि नैव दोष इति तन्न गोद इत्यादौ वा सरूपन्यायादणाकबाधस्यैवमप्यापातात् । अवदात्तं मुखमित्यत्र दैपः पकारसत्वेऽनेजन्तत्वादादेच उपदेशे इत्यात्वाप्रसक्त्या अदाविति प्रतिषेधानापत्तेश्च । तदर्थं वक्ष्यमाणरीत्या वचनद्व्यस्यारम्भे ज्ञापने वा गौरवम् । माङ इत्येकेनैव निर्देशेनानेकान्तत्वपक्षज्ञापनान्निखिलदोषोद्धारे लाघवात् । 

किञ्च घ्वसोरेद्धाविति सूत्रे शिल्लोपस्य सर्वादेशत्वार्थं शिद्ग्रहणस्योपक्षीणत्वात् ज्ञापकसत्वासम्भवः । कथं तर्हि भाष्ये तस्य ज्ञापकत्वमुक्तैमिति चेल्लोपोयीति सूत्राल्लोप इत्यनुवर्तमाने पुनर्लोपग्रहणात्सर्वादेश इति पक्षे इति गृहाण अत्र  दीक्षिताः एवं वदन्ति –

एकान्तत्वेप्यन्तरङ्गत्वादित्संज्ञालोपाभ्यामनुबन्धविनिर्मुक्त पदार्थोपस्थितेः स्थानिवत् सूत्रीयप्रदिपप्रदर्शितदिशाश्रयणादर्वणस्तृ इत्यादावनेकाल्त्वस्य वक्तुमशक्यत्वेनादोशात् । नचानुबन्धासञ्जनवैयर्थ्यम् । उगिल्लक्षणनुम्प्रवर्तनेन सार्थक्यम् । इशौशादौ परं सर्वादेशतां विना व्यर्थः शकारस्तां प्रवर्त्य इत्संज्ञालोपाभ्यां निवर्तत इति तदर्थं शिद्ग्रहणं न कर्तव्यं भवति । तदिह सूत्रभाष्यकृतोराशयश्चिन्त्य इति । 

अत्रेयं चिन्ता – उक्तरीत्या ’दिव औत्’ इत्यादौ कुतो न सर्वादेशतेति ? न च स्वरितार्थस्तत्र तकारः,द्योः पितः पृथिवीमातरं धुगिति लक्ष्यदर्शनात् । पृथिवीरुत द्योरित्युदात्तप्रयोगस्तु द्यो शब्दस्येति कौस्तुभोक्तं युक्तम् । दिव इकारस्योदात्तत्वात् स्रसंनधर्मणो हलः स्थाने जायमानस्यौतोनुदात्तत्वात्तत्रयण्युदात्तस्वरितयोर्यण इति स्वरितस्य सिद्धत्वात् ।तिति प्रत्ययग्रहणणं कर्तव्यमिति वार्ति विरोधस्यान्यथापाताच्च । इदमेवाभिप्रेत्यौतस्तकार उच्चारणार्थ इति मनोरमायां निष्कृष्योक्तत्वाच्च । 

 न च उच्चारणार्थत्वादेव न सर्वादेश, इशौशादावपि, तथा वक्तुं शक्यत्वात् । सति ज्ञापके तु मयोच्चारणार्थत्वमप्येषां वक्तुं शक्यत्वात् । सति ज्ञापके तु मयोच्चारणार्थत्वमप्येषां वक्तुं शक्यमित्यन्यदेतत् । स्यादेतत् । शित्किदिति बहुव्रीहिरेवं सति नोपपद्यते । शकारककारादेरनुबन्धस्यानेकान्तत्वे श इत्यस्येति सम्बन्धाभावात् । न चानन्तर्यं सम्बन्धः । तथात्वे समासस्यानभिधानेनाकरे निराकृतत्वात् ।

अनेकान्ता अनुबन्धा – अत्र परिभाषायां किञ्चिद्गौरवमपि वर्तते । 

  1. शित् ,कित् , णित् इत्यादिशब्दे समासदर्शनार्थं स्वसमीपोच्चारितेऽनुबन्धे स्वनिरूपितावयवत्वमारोप्यते इति आरोपवाक्यस्य स्वीकरणमावश्यकम् । 
  2. सनित्यादि शब्दे नकारादि अवयवः न वर्तते । किन्तु तद्घटित सनादि शब्दैः सह विभक्तिः न भवति । 
  3. अदि शब्दस्य पूर्वसमीपस्थ तथा हलन्त्यम् इत्यादि सूत्रे अन्त्यशब्दस्य परसमीपे लक्षणा स्वीक्रियते । 
  4. आनङ् कृतो द्वन्द्वे इति सूत्रे आन् इत्यस्य नकारस्य विधेयत्वं लक्ष्ये कदापि न दृश्यते । मातापितरौ इत्यत्र केवल आकारः एव दृश्यते । एवमेव आनङ् इत्यस्य नकारे विधेयत्वस्य कदाप्यदर्शनात् यह हेतुः इति भासते । किन्तु बोधकानवयवाः यत्र साध्यत्वं तत्र न गम्यते ।  एवं रीत्या साध्यभावाधिकरणे हेतोः सत्ता रहसि स्थितत्वात् व्यभिचारदोषस्योपस्थितिः अपि भवति । 

   एवं अनुबन्धानां विषये बहवः विषयाः सन्ति ।ते च विषयाः यथामति अत्र प्रस्तुताः ।

  आधारग्रन्थाः – 

    परिभाषेन्दुशेखरः उदयङ्करविरचिता –पु.सं -७

     परिभाषेन्दुशेखरः सुबोधिनी व्यख्यानम् –पु.सं -२०,२२

     परिभाषेन्दुशेखरः राष्ट्रीयसंस्कृतसंस्थानम् –पु.सं -४४,४५ 

                                            ********

Adress-
Prasanna bhat
Po; haldipur
At;sankolli
Tq;honavar
Dt;utaarakannada
KARNATAKA-581327
MOB:9483809207

(08387)295217

[/vc_column_text][/vc_column][/vc_row]